| YouTube Channel

त्वरणम् (tvaraNam)

 
Apte
English
त्वरणम् [tvaraṇam], Making haste, velocity.
Wordnet
Sanskrit
Synonyms:
त्वरा, रभसः, त्वरिः, त्वरितम्, त्वरणः, त्वरणम्, त्वरणा, ईषणा, आरम्भः, आवेगः, उपतापः, परीप्सा, प्रजवः, तूर्णिः, संवेगः
noun
कार्ये अतिशयितः वेगः यः अनुचितं मन्यते।
"त्वरा कार्यघातिनी अस्ति।"
Synonyms:
शीघ्रता, सत्वरता, द्रुतता, क्षिप्रता, शैघ्र्यम्, त्वरा, त्वरणम्, अविलम्बः, लघुता, वेगिता
noun
शीघ्रस्य अवस्था भावो वा।
"तस्य कार्ये शीघ्रता वर्तते।"
कृदन्तरूपमाला
Sanskrit
1 {@“ञि त्वरा सम्भ्रमे”@} 2 घटादिः, षिच्च।
‘सम्भ्रमः = आशुकारिता’ इति क्षीरस्वामी।
त्वारकः-रिका 3 त्वरकः-रिका, तित्वरिषकः-षिका, तात्वरकः-रिका
त्वरिता-त्री, त्वरयिता-त्री, तित्वरिषिता-त्री, तात्वरिता-त्री
-- 4 त्वरयन्-न्ती, त्वरयिष्यन्-न्ती-ती
-- त्वरमाणः, -- तित्वरिषमाणः
तात्वर्यमाणः
त्वरिष्यमाणः, -- तित्वरिषिष्यमाणः, तात्वरिष्यमाणः
5 तूः-तूरौ-तूरः
-- -- -- 6 7 तूर्णम् 8 9 10 11 आदित्त्वम्, अस्य सूत्रस्य 12 भावादिकर्मणोरप्रवृत्तिज्ञापनार्थम्।
तथा विकल्पप्रवृत्त्या तच्चरितार्थम्।
तेनान्येषां तयोर्विकल्पो न।” इति बृहच्छब्देन्दुशेखरे व्याख्यातम्।]] तूर्णः-तूर्णवान्-त्वरितम् 13-तः-तवान्, त्वरितः, तित्वरिषितः, तात्वरितः-तवान्
त्वरः, त्वरः, तित्वरिषुः, तात्वरः
त्वरितव्यम्, त्वरयितव्यम्, तित्वरिषितव्यम्, तात्वरितव्यम्
त्वरणीयम्, त्वरणीयम्, तित्वरिषणीयम्, तात्वरणीयम्
त्वार्यम्, त्वर्यम्, तित्वरिष्यम्, तात्वर्यम्
ईषत्त्वरः-दुस्त्वरः-सुत्वरः
-- -- त्वर्यमाणः, त्वर्यमाणः, तित्वरिष्यमाणः, तात्वर्यमाणः
त्वारः, त्वरः, तित्वरिषः, तात्वरः
त्वरितुम्, त्वरयितुम्, तित्वरिषितुम्, तात्वरितुम्
14 त्वरा, तूर्तिः, त्वरणा, तित्वरिषा, तात्वरा
त्वरणम्, त्वरणम्, तित्वरिषणम्, तात्वरणम्
त्वरित्वा, त्वरयित्वा, तित्वरिषित्वा, तात्वरित्वा
सन्त्वर्य, 15 प्रत्वरय्य, प्रतित्वरिष्य, प्रतात्वर्य
16 त्वरम् २, त्वरित्वा २, 17 त्वरम् २-त्वारम् २, त्वरयित्वा २, तित्वरिषम् २, तित्वरिषित्वा २, तात्वरम्
तात्वरित्वा २।
प्रासङ्गिक्यः
01
=>
(८०५)
02
=>
(१-भ्वादिः-७७५। अक। सेट्। आत्म।)
03
=>
[[१। ‘घटादयो मितः’ (ग। सू। भ्वादौ) इति वचनात् मित्त्वम्। तेन ण्यन्ते, ‘मितां ह्रस्वः’ (६-४-९२) इति उपधाह्रस्वः। एवं ण्यन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[२। ‘अणावकर्मकात् चित्तवत्कर्तृकात्’ (१-३-८८) इति ण्यन्तात् परस्मैपदमेव।]]
05
=>
[[३। क्विपि, ‘ज्वरत्वरस्रिव्यविमवामुपधायाश्च’ (६-४-२०) इति उपधावकारयोरूठ्। सवर्णदीर्घः, विसर्गश्च।]]
06
=>
[पृष्ठम्०७११+ २९]
07
=>
[[१। ‘आदितश्च’ (७-२-१६) इति सूत्रेण निष्ठायामिण्णिषेधे प्राप्ते, ‘रुष्यमत्वरसंघुषा- ऽऽस्वनाम्’ (७-२-२८) इति निषेधविकल्पः। तेन इड्विकल्पः। इडभावपक्षे ‘ज्वरत्वर--’ (६-४-२०) इत्युपधावकारयोरूठि दीर्घे, ‘रदाभ्यां निष्ठातो नः--’ (८-२-४२) इति निष्ठानत्वे, णत्वे तूर्णम् इत्यादिरूपम्। इट्पक्षे त्वरितम् इत्यादि भवति। एतच्च निष्ठायाः भावार्थे बोध्यम्।]]
08
=>
[[आ। ‘जघान रुषितो रुष्टांस्त्वरितस्तूर्णमागतान्।।’ भ। का। ९। २०।]]
09
=>
[[२। भावकर्मार्थयोस्तु, ‘विभाषा भावादिकर्मणोः’ (७-२-१७) इतीण्णिषेधविकल्पः। तूर्णमनेन, त्वरितमनेन इति प्रयोगो भवति।]]
10
=>
[अनेन]
11
=>
[[३। ‘ञीतः क्तः’ (३-२-१८७) इति कर्तरि क्तप्रत्ययः। कर्त्रर्थेऽपि रुष्यमत्वर--’ (७-२-२८) इति इण्णिषेधविकल्पः। “अस्य [धातोः]
12
=>
(७-२-२८)
13
=>
[अनेन]
14
=>
[[४। धातोरस्य षित्त्वात्, ‘त्वरत्यन्ता घटादयस्त्रयोदश षितः’ (सि। कौ। भ्वादिः) इति वचनात्, ‘षिद्भिदादिभ्योऽङ्’ (३-३-१०४) इति स्त्रियां भावादावङ्। प्रयोगबाहुल्यात् क्तिनि, ऊठि तूर्तिरित्यपि भवति। प्रक्रियाकौमुद्यां तु स्त्रियां भावादौ निप्रत्यये तूर्णिः इति रूपमित्युक्तम्। ‘बाहुलकात् ऊठ्’ इति तद्व्या- ख्याने।]]
15
=>
[[५। ण्यन्ताल्ल्यपि, ‘ल्यपि लघुपूर्वात्’ (६-४-५६) इति णेरयादेशः।]]
16
=>
[पृष्ठम्०७१२+ २७]
17
=>
[[१। णमुल्परे णौ, ‘चिण्णमुलोर्दीर्घोऽन्यतरस्याम्’ (६-४-९३) इति दीर्घविकल्पः।]]