| YouTube Channel

त्वचं (tvacaM)

 
Apte 1890
English
त्वचं 1 Skin.
2 Bark.
शब्दकल्पद्रुमः
Sanskrit
त्वचं,
क्ली,
(प्रशस्ता त्वगस्त्यस्येति अर्श आदि-त्वात् अच् ।) वृक्षविशेषः दारचिनी इतिभाषा
(यथा, सुश्रुते कल्पस्थाने अध्याये ।“सोमवल्ल्यमृता श्वेता पद्मं कालीयकं त्वचम्
”)तत्पर्य्यायः त्वक् वल्कलम् भृङ्गम् ४वराङ्गम् मुखशोधनम् शकलम् सिंह-लम् वन्यम् सुरसम् १० कामवल्लभम् ११उत्कटम् १२ बहुगन्धम् १३ विज्जुलम् १४ वन-प्रियम् १५ नटपर्णम् १६ गन्धवल्कम् १७ वरम्१८ शीतम् १९ अस्य गुणाः कटुत्वम् ।शीतलत्वम् कफकासविनाशित्वम् शुक्राम-शमनत्वम् कण्ठशुद्धिकरत्वम् लघुत्वम् इतिराजनिर्घण्टः
वल्कलम् चर्म्म (यथा, हरिवंशे १७७ १३६ ।“श्रीवत्साङ्कोऽरविन्दाक्ष ऊर्द्ध्वरोमा मृदुत्वचः
”कञ्चुकः खोलस् इति भाषा
यथा, महा-भारते १२ २४९ ११ ।“विमुक्तः सर्व्वपापेभ्यो मुक्तत्वच इवोरगः
”)गुडत्वक् इति धरणिः