| YouTube Channel

त्रिफलाद्यघृत (triphalAdyaghRta)

 
वाचस्पत्यम्
Sanskrit
त्रिफलाद्यघृत
न०
चक्रदत्तोक्ते घृतभेदे तदपि लघुमहद्भेदेनद्विविधं तत्र लघु यथा“फलत्रिकं भीरुकषायसिद्धं कल्केन यष्टीमधुकस्ययुक्तम् सर्पिः समं क्षौद्रचतुर्थभागं हन्यात् त्रिदोषंतिमिरं प्रवृद्धम्” महत् यथा“त्रिफलाया रसप्रस्थं प्रस्थं भृङ्गरसस्य वृषभस्यरसप्रस्थं शतावर्य्याश्च तत्समम् अजाक्षीरं गुडुच्याश्चआमलक्यारसन्तथा प्रस्थं प्रस्थं समाहृत्य सर्वेरेभि-र्घृतं पचेत् कल्कः कणा सिता द्राक्षा त्रि-फला नीलमुत्पलम् मधुकं क्षीरकाकोली मधुपर्णीनिदिग्धिका तत्साधुसिद्धं विज्ञाय शुभे भाण्डे नि-धापयेत् ऊर्द्ध्वपानमधःपानं मध्यपानञ्च शस्यते या-वन्तो नेत्ररोगास्तान् पानादेवापकर्षति सरक्ते रक्त-दुष्टे रक्ते चातिस्रुतेऽपि नक्तान्ध्ये तिमिरेकाचे नीलिकापटलार्बुदे अभिष्यन्देऽधिमन्थे चपक्षकोपे सुदारुणे नेत्ररोगेषु सर्वेषु वातपित्तकफेषुच अदृष्टिं मन्ददृष्टिञ्च कफवातप्रदूषिताम् स्रवतोवातपित्ताभ्यां सकण्ड्वासन्नदूरदृक् गृध्नदृष्टिकरं सद्योबलवर्णाग्निवर्द्धनम् सर्वनेत्रामयं हन्यात्त्रिफलाद्यंमहद्घृतम्”