| YouTube Channel

त्रिपथं (tripathaM)

 
शब्दकल्पद्रुमः
Sanskrit
त्रिपथं,
क्ली,
(त्रयाणां पथां समाहारः “ऋक्-पूरिति ।” ७४ इत्यः ।) त्रिमार्गम् ।तेमाथा पथ इति भाषा तत्पर्य्यायः ।त्रिकम् इति हेमचन्द्रः ५२
“शून्यागारे श्मशाने वा निर्जने वा चतुष्पथे ।बिल्वधात्रीद्रुमस्यान्तस्त्रिपथे वा भजेन्निशि ।स भवेत् सर्व्वसिद्धीशः सर्व्ववेदविदां वरः
”इति गुप्तसाधनतन्त्रम्
(तिसृणां नाडीनां पन्थाः इति विग्रहे कपाल-कुहरे, पुं यथा, हठयोगप्रदीपिकायाम् ३७ ।“कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् ।सा भवेत् खेचरी मुद्रा व्योमचक्रं तदुच्यते
”)