| YouTube Channel

त्रातं (trAtaM)

 
शब्दकल्पद्रुमः
Sanskrit
त्रातं, त्रि, (त्रै + क्तः नुदविदेति नत्त्वाभावः ।)रक्षितम् इत्यमरः १०६
(यथा, मार्कण्डेये ८४ २२ ।“त्रैलोक्यमेतदखिलं रिपुनाशनेनत्रातं त्वया समरमूर्द्धनि तेऽपि हत्वा ।नीता दिवं रिपुगणा भयमप्यपास्त-मस्माकमुन्मदसुरारिभवन्नमस्ते
”भावे क्तः ।) रक्षणे, क्ली