| YouTube Channel

तैरणी (tairaNI)

 
शब्दकल्पद्रुमः
Sanskrit
तैरणी,
स्त्री,
(तीरे नमतीति नम + डः ततःस्वार्थे अण् स्त्रियां गौरादित्वात् ङीष् ।)क्षुपविशेषः तत्पर्य्यायः तैरणः तैरः ३कुनीली रागदः अस्य गुणाः शिशिर-रत्वम् तिक्तत्वम् व्रणनाशित्वम् अरुण-रङ्गदत्वञ्च इति राजनिर्घण्टः
वाचस्पत्यम्
Sanskrit
तैरणी स्त्री तीरे नमति नम--बा० ततः स्वार्थे अण् गौरा०ङीष् कुनील्यां रागदे क्षुपभेदे