| YouTube Channel

तेजपत्रं (tejapatraM)

 
शब्दकल्पद्रुमः
Sanskrit
तेजपत्रं,
क्ली,
(तेजयतीति तिज + णिच् + अच् ।तेजं पत्रमस्य ।) स्वनामख्यातवृक्षः तज इतितेजपात इति भाषा तत्पर्य्यायः गन्ध-जातम् पत्रम् पत्रकम् इति शब्दरत्ना-वली अस्य गुणाः कफवाय्वार्शोहृल्लासारुचि-नाशत्वम् इति राजवल्लभः
अमरोक्त-पर्य्यायास्त्वक्पत्रशब्दे द्रष्टव्याः
तस्य नाम-गुणाः ।“त्वक्पत्रञ्च वराङ्गं स्याद्भृङ्गं चोचं तथोत्कटम् ।त्वचं लघूष्णं कटुक स्वादु तिक्तञ्च रूक्षकम्
पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम् ।हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृत्
”इति भावप्रकाशः