| YouTube Channel

तृह (tRha)

 
शब्दसागरः
English
तृह (उ) तृहु r. 6th cl. (तृहति) 10th cl. (तर्हयति-ते) also तृह r. 7th cl.
(तृणेड्डि) To kill, to hurt, to injure in any manner. (इ) तृहि r. 1st cl.
(तृंहति) To grow or increase.
E.
तुदा-पर-सक-सेट् चुरा-उभ पक्षे रुधा-पर-
सक-सेट्
Wilson
English
तृह (ऊ) तृहु r. 6th cl. (तृहति) also तृह r. 7th cl.
(तृणड्डि) To kill, to hurt, to injure in any manner. (इ) तृहि r. 1st
cl. (तृंहति) To grow or increase.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तृह्
मूलधातुः:
तृह
धात्वर्थः:
हिंसायाम्
गणः:
रुधादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
तृणेढि
धातुप्रदीपः
Sanskrit
तृहँ तृह
मानकरूपान्तरम् - तृहिँ
तृहि
मानकरूपान्तरम् - दृहिँ
दृहि
मानकरूपान्तरम् - वृहँ
वृह
मानकरूपान्तरम् - वृहिँ
वृहि वृद्धौ
- तर्हति ततर्ह तृंहति ततृंह दर्हति ददर्ह दृंहति दृंह्यते ददृंह वर्हति वर्हिः वृहि शब्दे वृंहति ववृंह वृंहितम् वृंहणम् परिवृढः ।। 734-739 ।।
तृहँ तृह
मानकरूपान्तरम् - हिसिँ
हिसि हिंसायाम्
- तृणेढि तृण्ढः ततर्ह तर्हिता तृणेढु तृण्ढि तृणहानि अतृणेट् अतर्हीत् हिनस्ति जिहिंस हिंसिता हिनस्तु हिन्धि हिनसानि अहिनत् अहिनस्त्वम् अहिनत् त्वम् अहिनसम् अहिंसीत् जिहिंसिषति जेहिंस्यते हिंसकः हिंस्रः हिंसा 18, 19
शब्दकल्पद्रुमः
Sanskrit
तृह, हिंसे इति कविकल्पद्रुमः
(रुधां-तुदां च-परं-सकं-वेट् ।) सप्तमस्वरी ध, तृणेढि (यथा, भट्टिः ।“तृणेटु रामः सह लक्षणेन
”)ऊ, अतर्हीत् अतृक्षत श, तृहति इतिदुर्गादासः
वाचस्पत्यम्
Sanskrit
तृह हिंसे तु०
पर०
सक०
वेट् तृहति अतर्हीत् अतृक्षत्
तृह हिंसे वा
चु०
उ० पक्षे रुधा०
पर०
सक०
वेट् ।तर्हयति ते तृणेढि अततर्हत् अतीतृहत् अतर्हीत्अतृक्षत् “तृणेढु रामः सह लक्षणेन” भट्टिः
क्षीरतरङ्गिणी
Sanskrit
तृहँ तृहि
मानकरूपान्तरम् - हिसिँ
हिसि हिंसायाम्
- इतोऽष्टौ सेटः परस्मैपदिनश्च तृणह इम् (7392)-तृणेढि तृण्ढः, तृंहन्ति तृण्ढि तृहेः क्नो हलोपश्च (उ0 58) तृणम् हिनस्ति हिन्धि, धि (8225) इति सलोपः तिप्यनस्तेः (8273) अहिनद् भवान् सिपि धातो रुर्वा (8274)-अहिनत् त्वम्, अहिनस्त्वम् निन्दहिंस (32146) इति हिंसकः नमिकम्पि (32167) इत रः-हिंस्रः हिंसा हिंसीरो (द्र0 उ0 518 गलाकर्षणशृङ्खला 18, 19
धातुवृत्तिः
Sanskrit
तृहँ तृह (अर्थः) हिंसायाम्
( तृणेढि तृण्ढः तृंहन्ति तृणेक्षि तृण्ढः तृण्ढ तृणतह्मि तृंह्वः तृंह्मः तृंणह इम्''इति हलादौ पिति सार्वधातुके तृणह इमागमः "आद्गुणः'' झलि पदान्ते "हो ढ''इति हो ढत्वे "झषस्तथोर्धोऽधः'' इति धत्वे ष्टुत्वे"ढो ढे लोपः ''इति पूर्वस्य लोपः अपिति श्नसोरल्लोपे ऽनुस्वारपरसवर्णौ, सिपि ढत्वे"षढोः कः सि''इति कत्वम् (ततर्ह ततृहतुः ततृहुः ततर्हिथ ततृहिव तर्हिता तर्हिष्यति तृणेढु तृण्ढात् तृण्ढाम् तृंहन्तु तृण्ढितृणहानि ) तातङो ङित्त्वान्ङिच्च पिन्न भवतीत्यपित्त्वाद्धेरपि" सेर्ह्यमपिच्च''इत्यपित्त्वान्नेमागमः उत्तमस्य तु पित्त्वेऽप्यहलादित्वान्न भवति ( अतृणेट् अतृणेड् अतृण्ढाम् अतृहन् अतृणेट् अतृणेड् अतृणहम् अतृंह्व ) तिप्सिपोर्हलङ्यादिलोपे प्रत्ययलक्षणेन हलादिपित्सार्वधातुकपरत्वादिमागमः "वर्णाश्रये नास्ति प्रत्ययलक्षणम्'इति निषेधो वर्णमात्रप्रत्ययविषयत्वादिति हलादिप्रत्ययस्याश्रयणान्न प्रवर्तते, मिपि नित्यत्वापूर्वमेवामि अहलादित्वान्नेमागमः तातङश्च ङित्त्वात् श्नसोरल्लोपे तृणहरूपस्याभावान्नेमागमप्रसङ्गः(तृंह्यात् तृंह्याताम्) यासुटो ङित्वेन ङिच्च पिन्न भवति इति तिबादेरपित्वान्नेमागमः आशिषि ( तृह्यात् तृह्यास्ताम् अतर्हीत् अतर्हिष्टाम्) "नेटि'' इति वृद्धिनिषेधः ( तितर्हिषति तरीतृह्यते तरीतर्ढि तर्हयति अतीतृहत्, अततर्हत् ) उरृद्वा तृहितम् तर्हित्वा ) "नक्त्वासेड्'' इत्यकित्त्वम् 18
कृदन्तरूपमाला
Sanskrit
1 {@“तृह हिंसायाम्”@} 2 3 क्षीरस्वामी ‘तृहि’ इति इदितं धातुं पठति।
तदानीं ‘इदितो नुम् धातोः, 4 इति नुमि, तृंहकः-हिका, तृंहकः-हिका, तितृंहिषकः-षिका, तरीतृंहकः-हिका, इत्यादीनि नुङ्घटितानि रूपाणि सर्वत्र ज्ञेयानीति विशेषः।]] ‘श्ने तृणेढीति हिंसायां तृहतीत्यूदितस्तृहेः।।’ 5 इति देवः।
तर्हकः-र्हिका, तर्हकः-र्हिका, तितर्हिषकः-षिका, तरीतृहकः-हिका
तर्हिता-त्री, तर्हयिता-त्री, तितर्हिषिता-त्री, तरीतृहिता-त्री
6 तृंहन्-न्ती, 7 व्यतितृंहन्-न्ती, तर्हयन्-न्ती, तितर्हिषन्-न्ती
8 तर्हिष्यन्-न्ती-ती, तर्हयिष्यन्-न्ती-ती, तितर्हिषिष्यन्-न्ती-ती
-- -- तर्हयमाणः, तर्हयिष्यमाणः -- तरीतृह्यमाणः, तरीतृहिष्यमाणः
9 तृट्-तृड्-तृहौ-तृहः
-- -- -- तृहितम्-तः-तवान्, तर्हितः, तितर्हिषितः, तरीतृहितः-तवान्
तृहः, तर्हः, तितर्हिषुः, तरीतर्हः
तर्हितव्यम्, तर्हयितव्यम्, तितर्हिषितव्यम्, तरीतृहितव्यम्
तर्हणीयम्, तर्हणीयम्, तितर्हिषणीयम्, तरीतृहणीयम्
10 तृह्यम्, तर्ह्यम्, तितर्हिष्यम्, तरीतृह्यम्
ईषत्तर्हः-दुस्तर्हः-सुतर्हः
-- -- -- तृह्यमाणः, तर्ह्यमाणः, तितर्हिष्यमाणः, तरीतृह्यमाणः
तर्हः, तर्हः, तितर्हिषः, तरीतृहः
तर्हितुम्, तर्हयितुम्, तितर्हिषितुम्, तरीतृहितुम्
11 तृढिः, तर्हणा, तितर्हिषा, तरीतृहा
तर्हणम्, तर्हणम्, तितर्हिषणम्, तरीतृहणम्
12 तर्हित्वा, तर्हयित्वा, तितर्हिषित्वा, तरीतृहित्वा
प्रतृह्य, प्रतर्ह्य, प्रतितर्हिष्य, प्रतरीतृह्य
तर्हम् २, तर्हित्वा २, तर्हम् २, तर्हयित्वा २, तितर्हिषम् २, तितर्हिषित्वा २, तरीतृहम्
तरीतृहित्वा २।
प्रासङ्गिक्यः
01
=>
(७७६)
02
=>
(७-रुधादिः-१४५५। अक। सेट्। पर।)
03
=>
[[[अ]
04
=>
(७-१-५८)
05
=>
(श्लो-१९५)
06
=>
[[६। ‘रुधादिभ्यः श्नम्’ (३-१-७८) इति श्नम् विकरणप्रत्ययः। तस्य मित्त्वात् अन्त्यादचः परो भवति। ‘श्नसोरल्लोपः’ (६-४-१११) इति अल्लोपः। ‘नश्चा- पदान्तस्य झलि’ (८-३-२४) इति मकारस्यानुस्वारः।]]
07
=>
[[७। ‘न गतिहिंसार्थेभ्यः--’ (१-३-१५) इति कर्मव्यतीहारे शानचो निषेधः।]]
08
=>
[पृष्ठम्०६९५+ २४]
09
=>
[[१। क्विपि, ‘हो ढः’ (८-२-३१) इति ढत्वे, जश्त्वचर्त्वयो रूपम्।]]
10
=>
[[२। ‘ऋदुपधाच्चाकॢपिचृतेः’ (३-१-११०) इति भावकर्मणोः क्यप्।]]
11
=>
[[३। ‘तितुत्र--’ (७-२-९) इतीण्णिषेधे, ढत्वधत्वष्टुत्वढलोपाः।]]
12
=>
[[४। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधाद् गुणः।]]