| YouTube Channel

तृप्रः (tRpraH)

 
शब्दकल्पद्रुमः
Sanskrit
तृप्रः,
पुं,
(तृप्यत्यनेनेति तृप + “स्कायितञ्चीति ।”उणां १३ इति रक् ।) घृतम् इत्यु-णादिकोषः
पुरोडाशः इति संक्षिप्तसारेउणादिवृत्तिः
(तर्पके, त्रि यथा, ऋग्वेदे ।८ ।“न यं शुक्रो दुराशीर्न तृप्रा उरुव्यचसम् ।अपस्पृण्वते सुहार्दम्
“तृप्रास्तर्पका अन्येचरुपुरोडाशादयश्च यमिन्द्रं नापस्पृण्वते नन प्रीणयन्ति अपि तु प्रीणयन्त्येव तमिन्द्रं स्तुमःइति शेषः ।” इति तद्भाष्ये सायनः
)