| YouTube Channel

तुहिनं (tuhinaM)

 
शब्दकल्पद्रुमः
Sanskrit
तुहिनं,
क्ली,
(तोहति अर्द्दति तुह्यतेऽनेनेति वा ।तुह + “वेपितुह्योर्ह्रस्वश्च ।” उणां ५२ ।इति इनन् गुणे कृते ह्रस्वश्च ।) हिमम् इत्य-मरः १८
(यथा, आर्य्यासप्त-शत्याम् ६३२ ।“सा श्यामा तन्वङ्गी दहता शीतोपचारतीव्रेण ।विरहेण पाण्डिमानं नीता तुहिनेन दूर्व्वेव
”)चन्द्रतेजः इत्युणादिकोषः
(यथा, पञ्च-तन्त्रे ५८ ।“किं चन्दनैः सकर्परैस्तुहिनैः शीतलैश्च किम् ।सर्व्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम्
”शीतले, त्रि यथा, आर्य्यासप्तशत्याम् ३६६ ।“प्रसरतु शरत्त्रियामा जगन्ति धवलयतु धामतुहिनांशोः ।पञ्जरचकोरिकाणां कणिकाकल्पोऽपि नविशेषः
”)