| YouTube Channel

तुल (tula)

 
शब्दसागरः
English
तुल r. 1st and 10th cls. (तोलति तुलति तोलयति-ते or
irr
. तुलयति) To weigh
or measure.
E.
भ्वा-पर-सक-सेट् पक्षे-चुरा-उभ०
Yates
English
तुल (कि) तोलति तुलति तोलयति
तुलयति 1. 10.
a. To weigh.
Spoken Sanskrit
English
तुल tula
m.
sign Libra
द्विपदराशि dvipadarAzi
m.
Libra Aquarius
वणिज् vaNij
m.
zodiacal sign Libra
वणिज vaNija
m.
zodiacal sign Libra
वणिक्पथ vaNikpatha
m.
zodiacal sign Libra
धट dhaTa
m.
sign of the zodiac Libra
Wilson
English
तुल r. 1st and 10th cls. (तोलति तुलति तोलयति-ते or
irr
.
तुलयति) To weigh or measure.
Monier Williams Cologne
English
तुल
m.
(for °ला) the sign Libra, Utp. (on,
VarBṛ.
xi, xvi, xxiii and
VarYogay.
iv, 55).
Shabdartha Kaustubha
Kannada
तुल - उन्माने (वा चुरा० उभ० पक्षे भ्वा० पर० सक० से०) तुलयति-ते तोलति
पदविभागः - > धातुः
कन्नडार्थः - > ಮೇಲಕ್ಕೆ ಎತ್ತಿ ತೂಗು
Edgerton Buddhist Hybrid
English
[tula, see atula.]
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तुल्
मूलधातुः:
तुल
धात्वर्थः:
उन्माने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
तोलयति-ते
धातुप्रदीपः
Sanskrit
तुलँ तुल उन्माने
- तोलयति तोलयामास णिचोऽनित्त्यत्वात् तुला (9) तुलां करोति तुलयति 67
शब्दकल्पद्रुमः
Sanskrit
तुल, कि उन्मितौ इति कविकल्पद्रुमः
(चुरां-पक्षे भ्वां-परं-सकं-सेट् ।) उन्मितिः परि-माणम् कि, तोलयति तोलति काञ्चनं बणिक् ।त्वदीयं सौन्दर्य्यं तुहिनगिरिकन्ये ! तुलयितुमितिशङ्करोक्तम् तुलां करोति इति ञौ साध्यम् ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
तुल उन्माने वा चुरा०
उभ०
पक्षे
भ्वा०
पर०
सक०
सेट् ।तोलयति ते तोलति अतूतुलत् “पतिष्यति क्षितौ-भानुः पृथिवीं तोलयिष्यते” भट्टिः तुलयतीति तु तुला-शब्दात्णिच् “अन्तःसारं घनतुलयितुं नानिलः शक्ष्यतित्वाम्” “अन्तस्तीयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राःप्रामादास्त्वांथन! तुलयितुमलं यत्र तैस्तैर्विशेषैः” मेघ० ।“तुलयति स्म विलोचनतारकाः” माघः “नक्तन्दिनैस्तुलि-तकृत्रिमभक्तिशोभाः” रघुः ।उद् + उत्क्षिप्य तोलते उत्तोलयति
क्षीरतरङ्गिणी
Sanskrit
तुलँ तुल उन्माने
- तोलयति तोलना चिन्तपूजि (तु0 33105) इति चकारात् तुला तुलयतीत्यणिच्पक्षे कान्तात् (द्र0 31135) तुल-शब्दात् णिच् 62
धातुवृत्तिः
Sanskrit
तुलँ तुल (अर्थः) उन्माने
( तोलयति अतूतुलत् तुला ) इति णिचोऽनित्यत्वादिति मैत्रेयः अन्ये तु णिजभावे प्रमाणाभावात् "तुल्यार्थ'' इत्यादौ तुलेति निपातनादङि णिलुकि तुलेति ( तुलयति अतूतुलत् ) इति तुलाशब्दात् "प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च'' इति णिचि, "दीर्घो लघोः'' इति णौ चङ्यभ्यासस्य दीर्घत्वमग्लोपित्वान्न भवति तुला कृष्णस्यनास्ति "तुल्यार्थैः'' इति विधीयमाना तृतीया तत्रैवातुलोपमाभ्यामितिवचनान्न भवति तुलया सम्मितं ( तुल्यम् ) "नौवयोधर्म'' इति यत् तुलया सम्मितमिति व्युत्यत्तिमात्रं रूढशब्दस्त्वयं सदृशपर्यायः ( तुल्यश्वेतः ) "कृत्यतुल्याख्या अजात्या'' इति समानाधिकरणसमासः अयं पूर्वनिपातनियमबाधनार्थः तथा तुल्यमहानित्यत्र "सन्महत्'' इति महच्छब्दस्य प्राप्तपूर्वनिपातबाधार्थः ( कृष्णस्य तुल्यः, कृष्णेन वा ) "तुल्यार्थैः'' इति षष्ठीतृतीये 65
कृदन्तरूपमाला
Sanskrit
1 {@“तुल उन्माने”@} 2 तोलकः-लिका, तुतोलयिषकः-षिका
तोलयिता-त्री, तुतोलयिषिता-त्री
तोलयन्-न्ती, तुतोलयिषन्-न्ती
तोलयिष्यन्-न्ती-ती, तुतोलयिषिष्यन्- न्ती-ती
तोलयमानः, तुतोलयिषमाणः
तोलयिष्यमाणः, तुतोलयिषिष्य- माणः
प्रतोल्-प्रतोलौ-प्रतोलः
तोलितम्-तः-तवान्, तुतोलयिषितः- तवान्
तोलः, 3 तुलः 4 , तुतोलयिषुः
तोलयितव्यम्, तुतोलयिषितव्यम्
5 तोलनीयम्, तुतोलयिषणीयम्
तोल्यम्, तुतोलयिष्यम्
ईषत्तोलः-दुस्तोलः- सुतोलः
तोल्यमानः, तुतोलयिष्यमाणः
तोलः, तुतोलयिषः
तोलयितुम्, तुतोलयिषितुम्
तोलना- 6 तुलना, तुला, तुतोलयिषा
तोलनम्, तुतोलयिषणम्
तोलयित्वा, तुतोलयिषित्वा
प्रतोल्य, प्रतुतोलयिष्य
तोलम् २, तोलयित्वा २, तुतोलयिषम्
तुतोलयिषित्वा २।
प्रासङ्गिक्यः
01
=>
(७५७)
02
=>
(१०-चुरादिः-१५९९। सक। सेट्। उभ।)
03
=>
[[४। ‘चुरादिणिचोऽनित्यत्वात् तदभावः।’ इति धातुकाव्यव्याख्याने (३-२१) प्रोक्तम्।]]
04
=>
[[B। ‘दुर्दान्तचक् पशुपचुक्कनमप्यरौत्सीत् प्रक्षालितक्षितितलातुलवर्षरोधी।’ धा। का। ३। २१।]]
05
=>
[पृष्ठम्०६७५+ २६]
06
=>
[[१। बाहुलकाद् गुणाभावे रूपम्। ‘चिन्तिपूजि--’ (३-३-१०५) इत्यत्र चकारात् तुला’ इति क्षीरस्वामी। माधवधातुवृत्तौ तु-- ‘तुला इति ‘णिचो- ऽनित्यत्वात्’ इति मैत्रेयः। अन्ये तु ‘णिजभावे प्रमाणाभावात् ‘तुल्यार्थैः--’ (२-३-६२) इत्यादौ तुला इति निपातनादङि णिलुकि तुला इति।’ इत्युक्तम्।]]