| YouTube Channel

तीर्थं (tIrthaM)

 
Apte 1890
English
तीर्थं [तॄ-थक् Uṇ. 2. 7] 1 A passage, road, way, ford.
2 A descent into a river, the stairs of a landingplace
(Mar. घाट)
विषमोपि विगाह्यते नयः कृततीर्थः पयसामिवाशयः Ki. 2. 3. (where तीर्थ means ‘a remedy or means also)
तीर्थं सर्वविद्यावताराणां K. 44.
3 A place of water.
4 A holy place, place of pilgrimage, a shrine &c, dedicated to some holy object (especially on or near the bank of a sacred river &c.)
शुचि मनो यद्यस्ति तर्थिन किं Bh. 2. 55
R. 1. 85.
5 A channel, medium, means
तदनेन तीर्थेन घटेत &c. Māl. 1.
6 A remedy, expedient.
7 A sacred or holy personage, worthy person, an object of veneration, a fit recipient
क्व पुनस्तादृशस्य तीर्थस्य साधोः संभवः U. 1
Ms. 3. 136
H. 2. 8, R. 5. 15.
8 A sacred preceptor, a teacher
मया तीर्थादभिनयविद्या शिक्षिता M. 1.
9 Source, origin.
10 A sacrifice.
11 A minister.
12 Advice, instruction.
13 Right place or moment.
14 The right or usual manner.
15 Certain parts of the hand sacred to deities, Manes &c.
16 A school of philosophy.
17 Pudendum muliebre.
18 Menstrual courses of a woman.
19 A Brāhmaṇa.
20 (In liturgical language) The path to the altar between the चात्वाल and उत्कर q. q. v. v.
21 Fire.
22 Ascertainment of a disease.
23 A science (शास्त्र).
24 An auxiliary, a help
a person or official connected with the king and being in close attendance on him
(the number being 15 on one's side and 18 on the enemy's side)
cf. Pt. 3. 69.
र्थः An honorary affix added to the names of ascetics, saints &c.
e. g. आनंदतीर्थ.
Comp.
उदकं holy water
तीर्थोदकं वह्निश्च नान्यतः शुद्धिमर्हतः U. 1. 13.
कमंडलु m. n. a pot filled with water from a holy place.
करः {1} a Jaina Arhat, sanctified teacher or saint of the Jainas
(also तीर्थंकर in this sense). {2} an ascetic. {3} the founder of a new religious or philosophical school. {4} N. of Viṣṇu.
काकः,
ध्वांक्षः,
वायसः ‘a crow at a sacred bathing-place’, i. e. a very greedy person
(लोलुप).
देवः an epithet of Śiva.
पाद् m. an epithet of Kṛṣṇa.
भूत a. sacred, holy.
यात्रा a visit to a holy place, a pilgrimage.
राजः N. of Prayāga.
राजिः,
जी f. an epithet of Benaras.
वाकः the hair of the head.
विधिः rites observed at a place of pilgrimage, (such as क्षौर).
शिला the stone-steps leading to a bathing-place.
सेविन् a. a pilgrim. (
m.) a crane.
शब्दकल्पद्रुमः
Sanskrit
तीर्थं,
क्ली,
(तरति पापादिकं यस्मात् तॄ +“पातॄतुदिवचीति ।” उणां इतिथक् ।) पुण्यस्थानादि तीर्थतोयस्य स्नानेपुण्यत्वं यथा, --“नदीदेवनिखातेषु तडागेषु सरःसु ।स्नानं समाचरेन्नित्यं गर्त्तप्रस्रवणेषु
निपानादुद्धृतं पुण्यं ततः प्रस्रवणादिकम् ।ततोऽपि सारसं पुण्यं ततो नादेयमुच्यते
तीर्थतोयं ततः पुण्यं गङ्गातोयं ततोऽधिकम्
”इत्याद्ये वह्निपुराणे स्नानविधिर्नाम अध्यायः
जलसमीपस्थारत्निमात्रस्थानम् यथा, आदित्य-पुराणे ।“अरत्निमात्रं जलं त्यक्त्वा कुर्य्याच्छौचमनुद्धृते ।पश्चाच्च शोधयेत्तीर्थमन्यथा शुचिर्भवेत्
तस्मिन् देशे शौचं कर्त्तव्यं यस्मादरत्निमात्रव्यव-हितं जलं तत् स्थलमेव तीर्थं जलसमीपत्वात् ।”इत्याह्निकाचारतत्त्वम्
*
विप्रचरणयोस्तीर्थवासस्थानत्वं ब्राह्मणशब्देद्रष्टव्यम्
*
विप्रदक्षिणकर्णस्य तीर्थवास-स्थानत्वं यथा पराशरः ।“प्रभासादीनि तीर्थानि गङ्गाद्याः सरितस्तथा ।विप्रस्य दक्षिणे कर्णे वसन्ति मनुरब्रवीत्
”इत्याह्निकाचारतत्त्वम्
हस्तस्थिततीर्थानि यथा, --“अङ्गुल्यग्रे तीर्थं दैवं स्वल्पाङ्गुल्योर्मूले कायम् ।मध्येऽङ्गुष्ठाङ्गुल्योः पैत्रं मूले ह्यङ्गुष्ठस्य ब्राह्मम्
”इत्यमरः ५१
(यथा च, मार्कण्डेये ३४ १०३ -- १०९ ।“कुर्य्यात् कर्म्माणि तीर्थेन स्वेन स्वेन यथाविधि ।देवादीनां तथा कुर्य्याद् ब्राह्मेणाचमनक्रियाम्
अङ्गुष्ठोत्तरतो रेखा पाणेर्या दक्षिणस्य तु ।एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै
तर्ज्जन्यङ्गुष्ठयोरन्तः पैत्रं तीर्थमुदाहृतम् ।पितॄणां तेन तोयादि दद्यान्नान्दीमुखादृते
अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः ।तीर्थं कनिष्ठिका मूले कायं तेन प्रजापतेः
एवमेभिः सदा तीर्थैर्देवानां पितृभिः सह ।सदा कार्य्याणि कुर्व्वीत नान्यतीर्थन कर्हिचित्
ब्राह्मेणाचमनं शस्तं पित्र्यं पैत्रेण सर्व्वदा ।देवतीर्थेन देवानां प्राजापत्यं निजेन
नान्दीमुखानां कुर्व्वीत प्राज्ञः पिण्डोदकक्रियाम् ।प्राजापत्येन तीर्थेन यच्च किञ्चित् प्रजापतेः
”)तीर्थं त्रिविधम् यथा जङ्गमम् मानसम् २स्थावरम् तथा ।“ब्राह्मणा जङ्गमं तीर्थ निर्म्मलं सार्व्वकामिकम् ।येषां वाक्योदकेनैव शुद्ध्यन्ति मलिनो जनाः
अगस्तिरुवाच ।शृणु तीर्थानि गदतो मानसानि ममानघे ! ।येषु सम्यक् नरः स्नात्वा प्रयाति परमां गतिम्
सत्यं तीर्थं क्षमा तीर्थं तीर्थमिन्द्रयनिग्रहः ।सर्व्वभूतदया तीर्थं सर्व्वत्रार्ज्जवमेव
दानं तीर्थं दमस्तीर्थं सन्तोषस्तीर्थमुच्यते ।ब्रह्मचर्य्यं परं तीर्थं तीर्थञ्च प्रियवादिता
ज्ञानं तीर्थं धृतिस्तीर्थं पुण्यं तीर्थमुदाहृतम् ।तीर्थानामपि तत्तीर्थं विशुद्धिर्म्मनसः परा ।एतत्ते कथितं देवि ! मानसं तीर्थलक्षणम्
भौमानामपि तीर्थानां पुण्यत्वे कारणं शृणु ।यथा शरीरस्योद्देशाः केचिन्मेध्यतमाः स्मृताः ।तथा पृथिव्यामुद्देशाः केचित्पुण्यतमाः स्मृताः
प्रभावादद्भुताद्भूमेः सलिलस्य तेजसा ।परिग्रहान्मुनीनाञ्च तीर्थानां पुण्यता स्मृता
तस्माद्भौमेषु तीर्थेषु मानसेषु नित्यशः ।उभयेष्वपि यः स्नाति याति परमां गतिम्
”तीर्थागमने दोषो यथा, --“अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य ।अदत्वा काञ्चनं गाञ्च दरिद्रो नाम जायते
”तीथगमने फलं यथा, --“अग्निष्टोमादिभिर्यज्ञैरिष्टा विपुलदक्षिणैः ।न तत्फलमवाप्नोति तीर्थाभिगमनेन यत्
*
तीर्थान्यनुस्मरन् धीरः श्रद्दधानः समाहितः ।कृतपापो विशुध्येत किं पुनः शुद्धकर्म्मकृत्
तिर्य्यग्योनिं वै गच्छेत् कुदेशे जायते ।न दुःखी स्यात् स्वर्गभाक् मोक्षोपायञ्च विन्दति
तीर्थफलभागिनो यथा, --यस्य हस्तौ पादौ मनश्चैव सुसंयतम् ।विद्या तपश्च कीर्त्तिश्च तीर्थफलमश्नुते
प्रतिग्रहादुपावृत्तः सन्तुष्टो येन केनचित् ।अहङ्कारविमुक्तश्च तीर्थफलमश्नुते
अदाम्भिको निरारम्भो लघ्वाहारो जितेन्द्रियः ।विमुक्तः सर्व्वसङ्गैर्यः तीर्थफलमश्नुते
अकोपनोऽमलमतिः सत्यवादी दृढव्रतः ।आत्मोपमश्च भूतेषु तीर्थफलमश्नुते
अश्रद्दधानः पापात्मा नास्तिकोऽच्छिन्नसंशयः ।हेतुनिष्ठश्च पञ्चैते तीर्थफलभागिनः
”इति काशीखण्डम्
*
तीर्थयात्राविधानं यथा, --“यो यः कश्चित्तीर्थयात्रान्तु गच्छेत्सुसंयतः पूर्व्वं गृहे स्वे ।कृतोपवासः शुचिरप्रमत्तःसंपूजयेद्भक्तिनम्रो गणेशम्
देवान् पितॄन् ब्राह्मणांश्चैव साधून्धीमान् प्रीणयन् वित्तशक्त्या प्रयत्नात् ।प्रत्यागतश्चापि पुनस्तथैवदेवान् पितॄन् ब्राह्मणान् पूजयेच्च
एवं कुर्व्वतस्तस्य तीर्थे यदुक्तंफलं तत् स्यान्नात्र सन्देह एव
”इति ब्रह्मपुराणम्
*
“प्रयागे तीर्थयात्रायां पितृमातृवियोगतः ।कचानां वपनं कुर्य्यात् वृथा विकचो भवेत्
”इति भविष्यपुराणम्
*
“तीर्थयात्रासमारम्भे तीर्थात् प्रत्यागमेऽपि ।वृद्धिश्राद्धं प्रकुर्व्वीत बहुसर्पिःसमन्वितम्
”इति कूर्म्मपुराणम्
*
“ऐश्वर्य्यलाभमाहात्म्यात् गच्छेद्यानेन यो नरः ।निष्फलं तस्य तत्तीर्थं तस्माद्यानं विवर्ज्जयेत्
”इति मत्स्यपुराणम्
*
“संवत्सरं द्बिमासोनं पुनस्तीर्थं व्रजेद्यदि ।मुण्डनञ्चोपवासञ्च तदा यत्नेन कारयेत्
”इति गङ्गावाक्यावली
*
तीर्थप्राप्त्यानन्तरविधानं यथा, --“न परीक्ष्यो द्विजस्तीर्थेष्वन्नार्थी भोज्य एवहि ।सक्तुभिः पिण्डदानञ्च चरुणा पायसेन
कर्त्तव्यमृषिभिर्दृष्टं पिण्याकेन गुडेन ।श्राद्धं तत्र तु कर्त्तव्यमर्घ्यावाहनवर्ज्जितम्
अकालेऽप्यथवा काले तीर्थश्राद्धन्तु तर्पणम् ।अविलम्बेन कर्त्तव्यं नैव विघ्नं समाचरेत्
यदह्नि तीर्थप्राप्तिः स्यात्ततोऽह्नः पूर्व्ववासरे ।उपवासश्च कर्त्तव्यः प्राप्तेऽह्नि श्राद्धदो भवेत्
तीर्थोपवासः कर्त्तव्यः शिरसो मुण्डनं तथा ।शिरोगतानि पापानि यान्ति मुण्डनतो यतः
तीर्थं प्राप्य प्रसङ्गेन स्नानं तीर्थे समाचरेत् ।स्नानजं फलमाप्नोति तीर्थयात्राश्रितं तु
”इति काशीखण्डम्
“मुण्डनञ्चोपवासश्च सर्व्वतीर्थेष्वयं विधिः ।वर्ज्जयित्वा गयां गङ्गां विशालां विरजान्तथा
”इति स्कान्दम्
*
“षोडशांशं लभतें यः परार्थेन गच्छति ।अर्द्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति
”इति पैठीनसिः
“स्नापयेत् स्निग्धमित्रादीन् ज्ञातींस्तीर्थे नरोत्तमः ।अन्यथापहरन्त्येते बलात्तीर्थभवं फलम्
”इति स्कान्दम्
“मातरं पितरं जायां म्रातरं सुहृदं गुरुम् ।यमुद्दिश्य निमज्जेत अष्टभागं लभेत सः
”इति प्रायश्चित्ततत्त्वे मार्कण्डेयपुराणम्
*
कलौ तीर्थानां पृथिव्यां स्थितिकालो यथा, “सरस्वती पुण्यक्षेत्रमाजगाम भारतम् ।गङ्गा शापेन कलया स्वयं तस्थौ हरेः पदे
पश्चाद्भगीरथानीता महीं भागीरथी शुभा ।समाजगाम कलया वाणी शापेन नारद !
पद्मा जगाम कलया सा पद्मावती नदी ।भारतं भारती शापात् स्वयं तस्थौ हरेः पदेकलेः पञ्चसहस्रञ्च वर्षं स्थित्वा भारते ।जग्मुस्ताश्च सरिद्रूपं विहाय श्रीहरेः पदम्
यानि सर्व्वाणि तीर्थानि काशीं वृन्दावनं विना ।यास्यन्ति ताभिः सार्द्धञ्च वैकुण्ठमाज्ञया हरेः
”तीर्थप्रतिग्रहे दोषो यथा, --“तत्र नारायणक्षेत्रे कुरुक्षेत्रे हरेः पदे ।वाराणस्यां वदर्य्याञ्च गङ्गासागरसङ्गमे
पुस्करे भास्करक्षेत्रे प्रभासे रासमण्डले ।हरिद्वारे केदारे सोमे वदरपाचने
सरस्वतीनदीतीरे पुण्ये वृन्दावने वने ।गोदावर्य्याञ्च कौशिक्यां त्रिवेण्याञ्च हिमालये
एतेष्वन्येषु यो दानं प्रतिगृह्णाति कामतः ।स तीर्थप्रतिग्राही कुम्भीपाकं प्रयाति
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम्
*
यानादिना गमने दोषो यथा, --“पुण्यार्द्धं हरते याने तदर्द्धं छत्रपादुके ।तदर्द्धं तैलमांसाभ्यां सर्व्वं हरति मैथुने
”इति कर्म्मलोचनम्
*
युगभेदे तीर्थविशेषस्य श्रेष्ठत्वं पाद्मे ।“कृते तु पुष्करं तीर्थं त्रेतायां नैमिषन्तथा ।द्बापरे तु कुरुक्षेत्रं कलौ गङ्गां समाश्रयेत्
”तीर्थसंख्या यथा, --“तिस्रः कोठ्योऽर्द्धकोटी तीर्थानां वायुरब्रवीत् ।दिवि भुव्यन्तरीक्षे तानि ते सन्ति जाह्नवि !
”अथ भूमण्डलस्य प्रादक्षिण्येन तीर्थानि यथा ।पुष्करम् तत्तु ब्रह्मणः स्थानं तीर्थराजेति नाम्नाख्यातं तत्र त्रिसन्ध्यं दशकोटितीर्थान्यायान्ति ।तस्य फलं अश्वमंधतुल्यंब्रह्मलोकगमनञ्च
जम्बू-मार्गः तस्य फलं अश्वमेधतुल्यं विष्णुप्राप्तिश्च
तण्डुलिकाश्रमः तस्य फलं दुर्गतिविनाशःब्रह्मलोकप्राप्तिश्च
अगस्त्यसरः तत्र त्रिरात्रो-पवासेन वाजपेयतुल्यं फलं शाकाहारेण कौमार-लोकप्राप्तिश्च
घर्म्मारण्यम् तत्तु कण्वाश्रमःतस्य फलं प्रवेशमात्रेण पापक्षयः देवपितृपूजनेनअश्वमेधतुल्यं फलं विबुधलोकप्राप्तिश्च
ययाति-पतनम् तत्र गमनेन अश्वमेधयज्ञतुल्यं फलम्
कोटितीर्थम् तत्र महाकालस्तिष्ठति स्नानेनअश्वमेधतुल्यं फलम्
भद्रवटः तत्र उमापति-स्तिष्ठति तं दृष्ट्वा गोसहस्रदानफलं दर्शकस्यगाणपत्यञ्च भवति
नर्म्मदा नदी तत्र पितृदेव-तर्पणात् अग्निष्टोमतुल्यं फलम् दक्षिणसिन्धुः१० तत्र ब्रह्मचर्य्येण अग्निष्टोमतुल्यं फलं त्रिदिव-प्राप्तिश्च चर्म्मण्वती नदी ११ तत्रेन्द्रियसंयमनेनज्योतिष्टोमफलम् हिमवत्सुतार्व्वुदः १२ तत्रवशिष्ठाश्रमः तस्मिन्नेकरात्रवासेन गोसहस्रदान-फलम् पिङ्गतीर्थम् १३ तत्रेन्द्रियसंयमनेनसवत्स-शतकपिलादानफलम् प्रभासः १४ तत्र हुता-शनस्तिष्ठति तत्र स्नानेन अग्निष्टोमातिरात्रयोःफलम् सरस्वतीसागरसङ्गमः १५ तत्र स्नानेनगोसहस्रदानफलं त्रिरात्रोपवासेन पितृदेवतर्प-णेन अश्वमेघफलम् वरदानम् १६ यत्र विष्णवेदुर्व्वाससा वरो दत्तः तत्र स्नानेन गोसहस्र-दानफलम् द्बारवत्यां पिण्डारकतीर्थम् १७तत्र पद्मचिह्नयुक्ता मुद्राः शूलचिह्नितानि पद्मानिअद्यापि दृश्यन्ते महादेवस्तिष्ठति स्नानेन बहु-सुवर्णयज्ञफलम् समुद्रसिन्धुसङ्गमः १८ तत्रस्नानेन पितृदेवतर्पणेन वरुणलोकप्राप्तिः ।द्रिमीतीर्थम् १९ तत्र महादेवस्तिष्ठति तत्रस्नानेनाश्वमेघफलं महादेवदर्शनार्च्चनाभ्यां सर्व्व-पापनाशः वसुधारा २० तस्या दर्शनेन अश्व-मेधफलं स्नानतर्पणाभ्यां विष्णुलोकप्राप्तिः सिन्धू-त्तमम् २१ तत्र स्नानेन बहुसुवर्णयज्ञफलम् ।यदुतुङ्गम् २२ तत्र गमनेन ब्रह्मलोकप्राप्तिः ।कुमारिकाशक्रतीर्थम् २३ तत्र स्नानेन विमलत्वंभवति पञ्चनदः २४ तत्र पञ्चयज्ञफलम् भीमा-स्थानम् २५ तत्र स्नात्वा नरो देवीपुत्त्रो भवतिगोसहस्रदानफलञ्च लभते गिरिकुञ्जम् २६ तत्रब्रह्मा तिष्ठति तस्य नत्या गोसहस्रदानफलम् ।विमलतीर्थम् २७ अद्यापि तत्र सौवर्णराजत-मत्स्या दृश्यन्ते तत्र स्नानपानाभ्यां वाजपेय-फलम् वितस्ता नदी २८ तत्र तर्पणेन वाज-पेयफलं स्वर्गप्राप्तिश्च काश्मीरे वितस्ताख्यंतक्षकनागसदनम् २९ तत्र स्नानेन वाजपेयफलंविष्णुलोकप्राप्तिश्च शमपरा ३० तत्र सायं-सन्ध्यायां स्नानेन सप्तार्च्चिषे चरुनिवेदनेन चअश्वमेधसहस्राधिकफलम् रुद्रास्पदम् ३१ तत्रमहादेवदर्शनात् अश्वमेधफलम् मणिमान्पर्व्वतः ३२ तत्र त्रिरात्रोपवासेन ज्योतिष्टोम-फलम् देविका नदी ३३ तत्र महादेवस्थानम्तत्र स्नानमहादेवदर्शनाभ्यां महादेवाय चरु-निवेदनेन सर्व्वकामप्राप्तिर्देवलोकप्राप्तिश्च ।देविकायां रुद्रतीर्थं तत्र स्नानात् सिद्धिप्राप्तिः ।एवं देविकायां यजनयाजनब्रह्मबालुकपुष्पन्यास-संज्ञकानि तीर्थानि तेषु स्नानात् मरणभय-विनाशः दीर्घसत्रम् ३४ तत्र गमनादेव दीर्घसत्र-फलप्राप्तिः राजसूयाश्वमेधफलप्राप्तिश्च विन-शनम् ३५ मेरुपृष्ठे अन्तर्हिता सरस्वती यत्र यातिसा चमसतीर्थे एवं शिरोद्भेदे नागोद्भेदे दृश्यतेचमसे स्नानात् वाजपेयफलं नागोद्भेदे स्नानात्नागलोकप्राप्तिः शशपानतीर्थम् ३६ तत्र स्नानात्शिववद्दीप्तिः गोसहस्रदानफलप्राप्तिश्च कुमार-कोटी ३७ तत्र स्नानेन पितृदेवपूजनेन गवा-मययागफलप्राप्तिः रुद्रकोटी ३८ यत्र कोटि-रृषयो मिलिता अहमग्रे रुद्रं द्रक्ष्यामीतिप्रस्थितानां तेषां सन्तोषार्थं एको रुद्रः कोटि-मूर्त्तयोऽभवत् तत्र स्नानात् अश्वमेधफलप्राप्तिःकुलोद्धरणञ्च सरस्वतीसङ्गमः ३९ तत्र जना-र्द्दनस्तिष्ठति तत्र स्नानात् बहुसुवणयागफल-प्राप्तिः सयावसानम् ४० तत्र गमनात् गोसहस्र-दानफलप्राप्तिः कुरुक्षेत्रम् ४१ तत्र गमनात्सर्व्वपापक्षयः ततो मचक्रुकद्वारपालस्य नम-स्कारेण गोसहस्रदानफलप्राप्तिः विष्णुस्थानं४२ तत्र स्नानात् विष्णुदर्शनात् अश्वमेधफलंविष्णुलोकप्राप्तिश्च परिपल्लवम् ४३ तत्र अग्नि-ष्टोमातिरात्रयागफलप्राप्तिः पृथिवीतीर्थम् ४४तत्र गोसहस्रदानफलम् शालूकिनीतीर्थम् ४५तत्र दशाश्वमेधिके स्नानात् गोसहस्रदानफलम् ।सर्पिर्द्दर्व्वी ४६ सा नागतीर्थं तत्र गमनेन अग्नि-ष्टोमफलं नागलोकप्राप्तिश्च अवर्णकद्बारपालः४७ तत्रैकरात्रवासात् गोसहस्रदानफलप्राप्तिः ।पञ्चनदम् ४८ तत्र कोटितीर्थे स्नानात् अश्वमेध-फलम् अश्वितीर्थम् ४९ तत्र रूपप्राप्तिः वराह-तीर्थम् ५० यत्र वराहरूपी विष्णुः स्थितः तत्रस्नानात् अग्निष्टोमफलप्राप्तिः जयन्त्यम् ५१ तत्रसोमतीर्थे स्नानात् राजसूयफलप्राप्तिः एक-हंसतीर्थम् ५२ तत्र गोसहस्रदानफलप्राप्तिः ।कृतशौचम् ५३ तत्र गमनात् पुण्डरीकयज्ञफल-प्राप्तिः मुञ्जावटतीर्थम् ५४ तत्तु महादेवस्थानंतत्रैकरजनीवासात् गाणपत्यप्राप्तिः तत्रैव विशा-लाक्षीयक्षीदर्शनात् सर्व्वकामप्राप्तिः जाम-दग्न्याहृतपुष्करतीर्थम् ५५ तत्र स्नानपूजनाभ्यांहयमेधफलम् रामह्नदः ५६ यत्र रामेण क्षात्त्र-मुत्साद्य तेषां रक्तेन पञ्च ह्रदाः कृताः तेषुस्नानतर्पणाभ्यां पितृगणाद् वरप्राप्तिः बहुसुवर्ण-यज्ञफलप्राप्तिश्च वंशमूलकम् ५७ तत्र स्नानात्स्वकुलोद्धरणम् कायशोधनम् ५८ तत्र स्नानात्देहशुद्धिः लोकोद्धारः ५९ तत्र स्नानात्स्वकीयलोकोद्धारः श्रीतीर्थम् ६० तत्र गमनात्उत्तमश्रीप्राप्तिः कपिलातीर्थम् ६१ तत्र स्नान-देवपितृपूजनाभ्यां कपिलासहस्रदानफलम् ।सूर्य्यतीर्थम् ६२ तत्र स्नानोपवासपितृपूजनैरग्नि-ष्टोमफलं देवलोकप्राप्तिश्च गवां भवनम् ६३तत्राभिषेकेण गोसहस्रदानफलम् शङ्खिनी-तीर्थम् ६४ तत्र स्नानात् उत्तमवीर्य्यप्राप्तिः ।ब्रह्मावर्त्तः ६५ तत्र स्नानात् ब्रह्मलोकप्राप्तिः ।सुतीर्थकम् ६६ तत्र पितृदेवानां सान्निध्यं तत्रस्नानपितृदेवपूजनैरश्वमेधफलं पितृलोकप्राप्तिश्च ।अम्बुमती ६७ तत्र काशीश्वरतीर्थे स्नानात् सर्व्व-रोगनाशः ब्रह्मलोकप्राप्तिश्च तत्रैव मातृतीर्थंतत्र स्नानात् सन्तानवृद्धिः श्रीप्राप्तिश्च
शीत-वनम् ६८ तत्र केशाभ्युक्षणेन प्वित्रता
श्वान-लोमापहः ६९ तत्र स्नानात् परमगतिप्राप्तिः ।दशाश्वमेधिकम् ७० तत्र स्नानात् निश्चलगति-प्राप्तिः
मानुषतीर्थम् ७१ तत्र व्याधपीडिताःकृष्णमृगा विगाह्य मानुषत्वं प्राप्ताः तत्र स्नानात्सर्व्वपापमुक्तिः स्वर्गवसतिश्च
आपगानदी ७२तत्र देवपित्रुद्देशेनैकब्राह्मणभोजनेन कोटि-ब्राह्मणभोजनसिद्धिः
प्लक्षोडुम्बरः ७३ तत्र ब्रह्मातिष्ठति तत्र सप्तर्षिकुण्डे स्नानात् सर्व्वपापनाशोब्रह्मलोकप्राप्तिश्च कपिलस्य केदारम् ७४ तत्रतपसा सर्व्वपापनाशः अन्तर्धानप्राप्तिश्च सर-कम् ७५ तत्र वृषध्वजप्रणामेन सर्व्वकामशिव-लोकयोः प्राप्तिः इलास्पदम् ७६ तत्र स्नान-देवपितृपूजनाभ्यां दुर्गतिविनाशः वाजपेयफल-प्राप्तिश्च किन्दानम् ७७ तत्र स्नानादप्रमेय-दानफलम् किंजप्यम् ७८ तत्र स्नानात् अप्र-मेयजपफलम्
अनाजन्मतीर्थम् ७९ तत्नारदस्थानं तत्र प्राणत्यागात् अनुत्तमलोक-प्राप्तिः
वैतरणी नदी ८० तत्र स्नानशूल-पाणिपूजनाभ्यां सर्व्वपापमुक्तिः परमपद-प्राप्तिश्च फलकींतीर्थम् ८१ फलकीवने देवा-स्तपश्चरन्ति
मिश्रकम् ८२ तत्र नारदेन सर्व्व-तीर्थानि मिश्रितानि तत्र स्नानात् सर्व्वतीर्थ-स्नानफलम्
मधुवटी ८३ सा देवीस्थानं तत्रस्नानदेवपितृपूजनाभ्यां गोसहस्रदानफलप्राप्तिःकौशिकीदृषद्वतीसङ्गमः ८४ तत्र स्नानात् सर्व्व-पापमुक्तिः किन्दत्तकूपः ८५ तत्र तिलप्रस्थ-दानात् ऋणत्रयमुक्तिः परमसिद्धिप्राप्तिश्च ।वेदीतीर्थम् ८६ तत्र स्नानात् गोसहस्रदानफल-प्राप्तिः
अहः सुदिनं तीर्थद्बयम् ८७ तयोःस्नानात् सूर्य्यलोकप्राप्तिः नृगधूमः ८८ तत्रविष्णु पदे स्नानात् वामनपूजनाच्च सर्व्वपाप-मुक्तिः रविलोकप्राप्तिश्च
सरस्वत्यास्तीर्थंश्रीकुञ्जम् ८९ तत्र स्नानात् स्वर्गवसतिः
नैमिषकुञ्जम् ९० तस्मिन् स्नानात् हयमेधफल-प्राप्तिः कन्यातीर्थम् ९१ तत्र स्नानात् ज्योति-ष्टोमफलप्राप्तिः ब्रह्मस्थानम् ९२ तत्र स्नानात्शूद्रस्यापि ब्राह्मणत्वं ब्राह्मणस्य परमगतिः
सोमतीर्थम् ९३ तत्र स्नानात् सोमयागफल-प्राप्तिः
सप्तसारस्वततीर्थम् ९४ तत्र स्नान-जपाभ्यां ब्रह्मलोकप्राप्तिः
औशनसकम् ९५तत्र त्रिसन्ध्यं कार्त्तिकेयस्य सन्निधानम् कपाल-मोचनम् ९६ तत्र स्नानात् सर्व्वपापनाशः
अग्नितीर्थम् ९७ तत्र स्नानात् वह्निलोकप्राप्तिःकुलोद्धरणञ्च विश्वामित्रतीर्थम् ९८ तत्रस्नानात् ब्रह्मण्यप्राप्तिः ब्रह्मयोनिः ९९ तत्रस्नानात् ब्रह्मलोके वासः पृथूदकम् १०० तत्कार्त्तिकेयस्थानं तत्राभिषेकात् अश्वमेधफल-प्राप्तिः पापिनामपि स्वर्गप्राप्तिः मधुस्रवम्१०१ तत्र स्नानात् गोसहस्रदानफलप्राप्तिः
सरस्वत्यरुणासङ्गमः १०२ तत्र त्रिरात्रोपवास-स्नानाभ्यां ब्रह्महत्यापापनाशः अवकीणम्१०३ तत् दर्भिमुनिनिर्म्मितं दर्भिणा चत्वारःसमुद्रा आनीताः तत्र स्नानात् दुर्गतिविनाशः ।शतसहस्रकम् १०४ साहस्रकम् १०५ उभयत्रस्नानात् गोसहस्रदानफलं दानोपवासौ सहस्र-गुणौ भवेत्
रेणुकातीर्थम् १०६ तत्राभिषेक-पितृदेवपूजनाभ्यां सर्व्वपापनाशः अग्निष्टोमफल-प्राप्तिश्च विमोचनम् १०७ तत्र स्नानात् सर्व्व-प्रतिग्रहकृतपापनाशः पञ्चवटतीर्थम् १०८तत्र गमनात् महापुण्यप्राप्तिः स्वर्गगमनञ्च
तैजसम् १०९ यत्र ब्रह्मादिभिः सैनापत्ये कार्त्ति-केयोऽभिषिक्तः कुरुतीर्थम् ११० तत्र स्नानात्रुद्रलोकप्राप्तिः स्वर्गद्वारम् १११ तत्र गम-नात् स्वर्गलोकाग्निष्टोमफलप्राप्तिः अनरकम्११२ तत्र स्नानात् दुर्गतिनाशः अस्थिपुरम्११३ तत्र पितृदेवतर्पणात् अग्निष्टोमफलप्राप्तिः ।गङ्गाह्रदकूपः ११४ तत्र स्नानात् ब्रह्मलोक-प्राप्तिः स्थाणुवटतीर्थम् ११५ तत्र स्नानैक-रात्रवासाभ्यां रुद्रलोकप्राप्तिः वदरीपाचनम्११६ तत्तु वशिष्ठाश्रमः तत्र त्रिरात्रोपवास-वदरभक्षणाभ्यां अश्वमेधफलम् हरलोक-प्राप्तिश्च इन्द्रमार्गम् ११७ तत्राहोरात्रोप-वासात् इन्द्रलोकप्राप्तिः आदित्याश्रमः ११८तत्र स्नानात् सूर्य्यलोकप्राप्तिः सोमतीर्थम्११९ तत्र स्नानात् सोमलोकप्राप्तिः कन्या-श्रमः १२० तत्र त्रिरात्रवासोपवासाभ्यां कन्या-शतप्राप्तिः ब्रह्मलोकगमनञ्च दधीचतीर्थम्१२१ तत्र स्नानात् वाजपेयफलप्राप्तिः सन्नि-हितातीर्थम् १२२ तत्र अमावस्यायां सर्व्वाणितीर्थान्यायान्ति एवं सूर्य्यग्रहणे स्नानात् शता-श्वमेधफलप्राप्तिः स्नानदानाभ्यां स्वर्गलोक-प्राप्तिश्च तत्रामावस्यायां सूर्य्यग्रहणे स्नान-श्राद्धाभ्यां अश्वमेधसहस्रफलप्राप्तिः स्नान-मात्रात् सर्व्वपापनाशः ब्रह्मलोकप्राप्तिश्च
गङ्गाह्नदः १२३ तत्र स्नानात् राजसूयाश्वमेघ-फलप्राप्तिः कुरुक्षेत्रम् १२४ तत् तरन्तुकार-न्तुकयोः एवं रामह्रदमचक्रुकयोरन्तरं एतत्स्यमन्तपञ्चकं पितामहस्योत्तरबेदिः
धर्म्म-तीर्थम् १२५ तत्र स्नानादासप्तमकुलोद्धरणम्
कारापचनम् १२६ तत्र स्नानात् अग्निष्टोम-फलं विष्णुलोकप्राप्तिश्च सौगणिकवनम् १२७यत्र ब्रह्मादयो देवाः प्रत्यहमायान्ति तद्वन-प्रवेशमात्रेण सर्व्वपापनाशः
प्लक्षसरस्वती१२८ तत्र स्नानपितृदेवपूजनाभ्यां अश्वमेधफल-प्राप्तिः ईशानाध्युषितम् १२९ तत्र शाक-म्भरी देवी तत्र त्रिरात्रोपवासशाकाहाराभ्यांद्बादशवर्षशाकाहांरफलप्राप्तिः सवर्णाख्यम्१३० तत्र शिवस्तिष्ठति तस्य पूजनात् अश्व-मेधफलगाणपत्ययोः प्राप्तिः धूमावती १३१तत्र त्रिरात्रोपवासात् मनस्कामप्राप्तिः धूमा-वती दक्षिणार्द्धे रथावर्त्तः १३२ तत्रारोहणेनमहादेवप्रसादात् परमगतिप्राप्तिः धारा १३३तत्र स्नानात् शोकनाशः गङ्गाद्वारम् १३४तत्र कोटितीर्थे स्नानात् पुण्डरीकयागफल-प्राप्तिः कुलोद्धरणं एकरात्रवासेन गोसहस्रदान-फलप्राप्तिश्च सप्तगङ्गम् १३५ त्रिगङ्गम् १३६सप्तावर्त्तः १३७ एतेषु पितृदेवतर्पणात् पुण्य-लोकप्राप्तिः गङ्गायमुनासङ्गमः १३८ तत्रस्नानात् दशाश्वमेधफलप्राप्तिः कुलोद्धरणञ्च ।कनखलः १३९ तत्र स्नानत्रिरात्रोपवासाभ्यांवाजिमेधफलब्रह्मलोकयोः प्राप्तिः
कपिला-वटः १४० तत्रैकरात्रवासेन गोसहस्रदानफल-प्राप्तिः कपिलनागराजः १४१ तत्राभिषेकात्कपिलासहस्रदानफलप्राप्तिः ललितिका १४२सा शान्तनुतीर्थं तत्र स्नानात् दुर्गतिविनाशः
सुगन्धा १४३ तत्र गमनात् सर्व्वपापविशुद्धिःब्रह्मलोकप्राप्तिश्च रुद्रावर्त्तः १४४ तत्र स्नानात्ब्रह्मलोकप्राप्तिः
गङ्खासरस्वतीसङ्गमः १४५तत्र स्नानात् अश्वमेधफलप्राप्तिः स्वर्गगमनञ्च
भद्रकर्णह्रदः १४६ तत्र स्नानशङ्करपूजनाभ्यांदुर्गतिनाशः विष्णुलोकप्राप्तिश्च कुब्जाम्रकम्१४७ तत्र गमनात् स्वर्गप्राप्तिः अरुन्धती-वटः १४८ तत्रैकरात्रवासात् गोसहस्रदान-फलप्राप्तिः कुलोद्धरणञ्च सामुद्रकम् १४९ तत्रत्रिरात्रोपवासेन गोसहस्रदानफलं कुलोद्धर-णञ्च
ब्रह्मावर्त्तः १५० तत्र गमनात् अग्नि-ष्टोमफलं ब्रह्मलोकप्राप्तिश्च यमुनाप्रभवः १५१तत्र स्नानात् अश्वमेधफलस्वर्गलोकयोः प्राप्तिः
दर्व्वीसंक्रमणम् १५२ तत्र गमनात् वाजिमेध-फलप्राप्तिः ब्रह्मलोकगमनञ्च सिन्धुप्रभवः १५३तत्र पञ्चरात्रवासात् बहुसुवर्णयज्ञफलप्राप्तिः
अर्थवेदी १५४ तत्र गमनात् अश्वमेधफल-स्वर्गयोः प्राप्तिः
वाशिष्ठी नदी तत्रैव ऋषि-कुल्या १५५ वाशिष्ठी गमनात् सर्व्ववर्णानांद्बिजत्वप्राप्तिः ऋषिकुल्यायां स्नानैकमासवास-शाकाहारैः ऋषिलोकप्राप्तिः
भृङ्गतुङ्गम्१५६ तत्र गमनात् वाजिमेधफलप्राप्तिः
वीर-प्रमोक्षः १५७ तत्र गमनात् सर्व्वपापप्रणाशः
सन्ध्या सा विद्यातीर्थम् १५८ तत्र स्नानात् यत्रतत्रैव विद्याप्राप्तिः
महाश्रमः १५९ तत्रैक-कालनिराहारात् शुभलोकप्राप्तिः
महालयः१६० तत्र षष्ठकालोपवासेनैकमासवासात्आत्मना सहैकविंशतिपुरुषोद्धारः तत्रैव महे-श्वरदर्शनात् सर्व्वपापमरणभययोर्विनाशः बहु-सुवर्णयागफलप्राप्तिश्च
वेतसीका १६१ तत्रगमनात् अश्वमेधफलं औशनसगतिप्राप्तिश्च
सुन्दरिका १६२ तत्र गमनात् रूपप्राप्तिः
ब्राह्मणिका १६३ तत्र गमनात् ब्रह्मलोकप्राप्तिः ।नैमिषम् १६४ तत्र ब्रह्मा तिष्ठति तत्र प्रवेशात्सर्व्वपापनाशः स्नानात् गवामययागफलप्राप्तिःसप्तकुलोद्धारः उपवासेन प्राणत्यागात् स्वर्ग-प्राप्तिश्च
गङ्गोद्भेदः १६५ तत्र त्रिरात्रोप-वासात् वाजिमेधफलप्राप्तिः विष्णुलोकवासश्च
सरस्वती १६६ तत्र पितृदेवतर्पणात् सारस्वत-लोकवासः
बाहुदा नदी १६७ तत्रैकरात्रि-वासात् ब्रह्मलोकप्राप्तिः गोप्रचारतीर्थम् १६८तत्तु सरयूतीरं तत्र स्नानात् सर्व्वपापनाशःदेवलोकप्राप्तिश्च
गोमत्यां रामतीर्थम् १६९तत्र स्नानात् अश्वमेधफलप्राप्तिः निजकुलपाव-नञ्च साहस्रवम् १७० तत्र गमनात् राज-सूयाश्वमेधफलप्राप्तिः राजगृहम् १७१ तत्रस्नानात् कुवेरवदाह्लादप्राप्तिः मणिनागः१७२ तत्र गमनात् गोसहस्रदानफलप्राप्तिःएवं तत् समीपे नित्यकर्म्मकरणात् सर्पविषभय-नाशः एकरात्रवासात् सर्व्वपापनाशश्च गोतम-वनम् १७३ तत्र अहल्याह्रदे स्नानात् परम-गतिप्राप्तिः श्रीदेवी १७४ तत्र गमनात्श्रीप्राप्तिः उदपानम् १७५ तत्राभिषेकात्वाजिमेधफलप्राप्तिः जनकराजकूपः १७६तत्राभिषेकात् विष्णुलोकप्राप्तिः
विनशनम्१७७ तत्र गमनात् वाजपेयफलप्राप्तिः ।विशल्या १७८ सा सर्व्वतीर्थजलोद्भवा तत्रगमनात् वाजपेयफलप्राप्तिः रविलोकगमनञ्च
तपोवनम् १७९ तत्राधिवासात् गुह्यकलोक-वासः कम्पना नदी १८० सा सिद्धनिषेवितातत्र गमनात् पुण्डरीकयागफलप्राप्तिः विशल्यानदी १८१ तत्र गमनात् अग्निष्टोमफलं देव-लोके चिरवासश्च माहेश्वरी १८२ तत्र गम-नात् अश्वमेधफलप्राप्तिः स्वकुलोद्धरणञ्च ।दिवौकःपुष्करिणी १८३ तत्र गमनात् दुर्गति-विनाशः वाजिमेधफलप्राप्तिश्च रामपदम् १८४तत्र गमनात् अश्वमेधफलम् माहेश्वरपदम्१८५ तत्र स्नानात् अश्वमेधफलं तत्र तीर्थ-कोटी तत्र स्नानात् पुण्डरीकयागफलप्राप्तिः ।नारायणस्थानम् १८६ यत्र शालग्रामनामाहरिस्तिष्ठति तत्र गमनात् अश्वमेधफलं विष्णु-लोकगमनञ्च तत्रैव उदपानं यत्र चत्वारःसमुद्राः सन्निहिताः तत्र स्नानात् दुर्गतिनाशःतत्र महादेवस्तिष्ठति तत्र गमनात् अश्वमेध-फलप्राप्तिः इन्द्रलोकवासश्च
जातिस्मरः १८७तत्र स्नानात् जातिस्मरत्वप्राप्तिः वटेश्वरपुरम्१८८ तत्र केशवस्य दर्शनपूजनाभ्यामुपवासेनच वाच्छितकामप्राप्तिः वामनतीर्थम् १८९तत्र गमनात् दुर्गतिविनाशः विष्णुलोक-प्राप्तिश्च तत्र कौशिकी तिष्ठति तस्याः सेव-नात् राजसूययज्ञफलप्राप्तिः चम्पकारण्यम्१९० तत्रैकरात्रवासात् गोसहस्रदानफल-प्राप्तिः गोष्ठीनम् १९१ तत्रैकरात्रोपवासात्अग्निष्टोमफलप्राप्तिः तत्र देव्या सह विश्वे-श्वरस्तिष्ठति तस्य दर्शनात् मित्रावरुणलोक-वासः
कन्यासंवेद्यम् १९२ तत्राहारजयात्मनुलोकप्राप्तिः तत्रान्नदानमक्षयं भवति
निश्चीरा नदी १९३ तत्र गमनात् अश्वमेध-फलप्राप्तिः स्वकुलोद्धरणञ्च निश्चीरासङ्गमेअन्नदानेन ब्रह्मलोकगमनम् तत्र वशिष्ठा-श्रमः तत्राभिषेकात् वाजपेयफलप्राप्तिः
देव-कूटम् १९४ तत्र गमनात् वाजिमेधफलप्राप्तिःकुलोद्धरणञ्च
कौशिकमुनिह्रदः १९५ तत्रमासवासात् अश्वमेधफलप्राप्तिः
सर्व्वतीर्थवर-ह्रदः १९६ तत्र वासात् बहुसुवर्णयागफल-प्राप्तिः दुर्गतिविनाशश्च
वीराश्रमः १९७ तत्रकुमारस्तिष्ठति तत्र गमनात् अश्वमेधफलप्राप्तिः ।अग्निधारा १९८ तत्र गमनात् अश्वमेधफल-प्राप्तिः कुलोद्धरणञ्च
पितामहसरः १९९ तत्रशैलराजप्रतिष्ठितौ शिवविष्णू तिष्ठतः तत्रा-भिषेकात् अग्निष्टोमफलप्राप्तिः तत्रैव कुमार-धारा तत्र स्नानात् कृतार्थता त्रिकालोपवासेनब्रह्महत्यानाशः
गौरीशिखरम् २०० तत्रा-रोहणात् शुद्धता तत्र कुण्डे स्नानपितृदेवार्च्च-नाभ्यां अश्वमेधफलप्राप्तिः स्वर्गगमनञ्च ताम्रा-रुणा २०१ तत्र गमनात् वाजिमेधफलप्राप्तिःशक्रलोकगमनञ्च
नन्दिनी २०२ तत्र त्रिदश-सेवितः कूपः तत्र गमनात् नरमेधफलप्राप्तिः
कौशिक्यारुणसङ्गमः २०३ तत्र त्रिरात्रोप-वासात् सर्व्वपापमुक्तिः
उर्व्वशीतीर्थम् २०४सोमाश्रमः २०५ कुम्भकर्णाश्रमः २०६ तेषुस्नानात् अश्वमेधफलप्राप्तिः स्वर्गगमनञ्च
कोकामुखम् २०७ तत्र स्नानात् जातिस्मर-त्वम्
नन्दा २०८ तत्र गमनात् कृतार्थतासर्व्वपापनाशः स्वर्गगमनञ्च ऋषभद्बीपः २०९तत्र क्रौञ्चनिसूदनसेवनात् सरस्वत्यां स्नानाच्चविमाने विराजः
औद्दालकतीर्थम् २१०तत्राभिषेकात् सर्व्वपापनाशः ब्रह्मतीर्थम् २११तत्र गमनात् वाजपेयफलप्राप्तिः चम्पा २१२तत्र गमनात् गोसहस्रदानफलप्राप्तिः नरे-तिका २१३ तत्र गमनात् वाजपेयफलं विमान-प्राप्तिश्च संविद्यतीर्थम् २१४ तत्र स्नानात्विद्याप्राप्तिः लौहित्यम् २१५ तत्र गमनात्बहुसुवर्णयागफलप्राप्तिः करतोया २१६ तत्रत्रिरात्रोपवासात् वृषभैकादशदानफलप्राप्तिः
कोशलायां कालतीर्थम् २१७ तत्र गमनात्गोसहस्रदानफलप्राप्तिः स्वर्गगमनञ्च गङ्गा-सागरसङ्गमः २१८ तत्र गमनात् शताश्वमेध-फलप्राप्तिः गङ्गायाः परद्वीपः २१९ तत्रस्नानत्रिरात्रोपवासाभ्यां सर्व्वकामप्राप्तिः वैत-रणी २२० तत्र गमनात् सर्व्वपापनाशः
विरजम् २२१ तत्र गमनात् चन्द्रवद्दीप्तिः
प्रभवः २२२ तत्र गमनात् सर्व्वपापनाशःगोसहस्रदानफलस्वकुलपावनञ्च शोणज्योती-रथीसङ्गमः २२३ तत्र पितृदेवतर्पणात् अग्नि-ष्टोमफलप्राप्तिः
शोण्प्रभवः २२४ नर्म्मदा-प्रभवः २२५ वंशगुल्मः २२६ तत्र स्नानात्वाजिमेधफलप्राप्तिः ऋषभः २२७ तत्र गम-नात् गोसहस्रदानफलप्राप्तिः पुष्पवती २२८तत्र स्नानत्रिरात्रोपवासाभ्यां गोसहस्रदानफल-प्राप्तिः कुलोद्धरणञ्च
वदरिकम् २२९ तत्रस्नानात् दीर्घायुष्ट्वप्राप्तिः स्वर्गगमनञ्च महेन्द्र-पर्व्वतः २३० तत्र रामतीर्थे स्नानात् वाजि-मेधफलप्राप्तिः मतङ्गकेदारम् २३१ तत्रस्नानात् स्वर्गलोकप्राप्तिः श्रीपर्व्वतः २३२ तत्रनदीतीरे स्नानात् अश्वमेधफलं परमसिद्धि-प्राप्तिश्च तत्र महादेवो देव्या सह तिष्ठति तत्रदेवह्रदे स्नानात् अश्वमेधफलप्राप्तिः शिवलोक-गमनञ्च पाण्ड्यदेशे ऋषभपर्व्वतः २३३ तत्रगमनात् वाजपेयफलप्राप्तिः स्वर्गगमनञ्च
कावेरी २३४ तत्र गमनात् गोसहस्रदानफलम् ।समुद्रतीरे कन्यातीर्थम् २३५ तत्र स्नानात्सर्व्वपापनाशः समुद्रमध्ये गोकर्णतीर्थम् २३६तत्र शिवस्तिष्ठति तस्य पूजनात् त्रिरात्रोप-वासाच्च दशाश्वमेधतुल्यफलङ्गाणपत्यप्राप्तिः ।द्वादशरात्रोपवासात् कृतार्थता तत्रगायत्त्रीस्थानं तत्र त्रिरात्रोपवासात् गोसहस्र-दानफलप्राप्तिः ब्राह्मणस्य गायत्त्रीपाठात् सदासम्पन्नता अब्राह्मणस्य पाठात् तस्या विनाशः
सम्बर्त्तवापी २३७ तत्र गमनात् रूपसौभाग्य-प्राप्तिः वेण्वा २३८ तत्र पितृदेवतर्पणात्मयूरहंसयुक्तविमानप्राप्तिः
गोदावरी २३९तत्र गमनेन गवामययज्ञफलप्राप्तिः वायुलोक-गमनञ्च वेण्वासङ्गमः २४० तत्र स्नानात्सर्व्वपापनाशः वरदासङ्गमः २४१ तत्र स्नानात्वाजिमेधफलप्राप्तिः ब्रह्मस्थूणा २४२ तत्रत्रिरात्रोपवासात् गोसहस्रदानफलप्राप्तिः स्वर्ग-गमनञ्च कुशप्लवनम् २४३ तत्र स्नानत्रिरा-त्रोपवासाभ्यां चन्द्रलोकप्राप्तिः देवह्रदः २४४कृष्णवेण्वासमुद्भववनम् २४५ ज्योतिर्मात्रह्रदः२४६ कन्याश्रमः २४७ तेषु गमनात् अग्नि-ष्टोमफलप्राप्तिः देवह्रदे स्नानात् गोसहस्र-दानफलप्राप्तिः ज्योतिर्मात्रह्रदे स्नानात् जाति-स्मरत्वम्
पयोष्णी नदी २४८ तत्र स्नानतर्प-णाभ्यां गोसहस्रदानफलप्राप्तिः दण्डकारण्यम्२४९ तत्र महाराजे जलस्पर्शात् गोसहस्रदान-फलप्राप्तिः शरभङ्गाश्रमः २५० कुशाश्रमः २५१तत्र गमनात् दुर्गतिनाशः कुलपवित्रता
सूर्पारकम् २५२ तत्तु रामतीर्थम् तत्र स्नानात्बहुसुवर्णयज्ञफलप्राप्तिः सप्तगोदावरम् २५३तत्र स्नानात् महापुण्यप्राप्तिः देवलोकगमनञ्च ।देवपथम् २५४ तत्र गमनेन देवसत्रफलप्राप्तिः
तुङ्गकारण्यम् २५५ तत्र प्रवेशात् सद्यः पाप-नाशः मासवासात् स्वकुलस्य पवित्रता ब्रह्म-लोकगमनञ्च मेधाविकम् २५६ तत्र पितृ-देवतर्पणात् अग्निष्टोमफलस्मृतिमेघानां प्राप्तिः
कालञ्जरपर्व्वतः २५७ तत्र देवह्रदे स्नानात्सूर्य्यलोकप्राप्तिः त्रिकूटपर्व्वतः २५८ तत्रमन्दाकिन्यां स्नानपितृदेवतर्पणाभ्यां अश्वमेध-फलप्राप्तिः परमगतिलाभश्च
भर्त्तृस्थानम् २५९तत्र कार्त्तिकेयस्तिष्ठति तत्र गमनात् सर्व्वकाम-प्राप्तिः कोटितीर्थे स्नानात् गोसहस्रदानफल-प्राप्तिः ज्येष्ठस्थानम् २६० तत्र महादेव-स्तिष्ठति तद्दर्शनात् चन्द्रवद्दीप्तिः तत्र कूपेचत्वारः समुद्रास्तिष्ठन्ति तत्र स्नानप्रदक्षिणाभ्यांपरमगतिप्राप्तिः शृङ्गवेरपुरम् २६१ यत्ररामो गङ्गामुत्तीर्णः तत्र स्नानात् सर्व्वपाप-नाशः विष्णुलोकप्राप्तिश्च मुञ्जावटः २६२ तत्रमहादेवस्तिष्ठति तस्य पूजनप्रदक्षिणाभ्यां गाण-पत्यप्राप्तिः तत्तीर्थे जाह्नवीस्नानात् सर्व्वपापनाशः
प्रयागः २६३ तत्र त्रीण्यग्निकुण्डानितत्र यमुनया गङ्गा सङ्गता यत्र ब्रह्मादयो देवासिद्धाः पितरः सनत्कुमारमुखा ऋषयो नाग-सुपर्णसिद्धक्रतुगन्धर्व्वाप्सरसस्तिष्ठन्ति एवं वेदायज्ञाश्च मूर्त्तिमन्तः ब्रह्माणमुपासते सर्व्व-तीर्थेभ्योऽधिकः तस्य नामसङ्कीर्त्तनश्रवण-मृत्तिकालभनैः सर्व्वपापनाशः तत्र स्नानात्त्रिलोके एवं वेदविद्यासु यत् पुण्यं तत्प्राप्तिःराजसूयाश्वमेधफलप्राप्तिश्च तत्र वपनं महत्
भोगवती नाम वासुकितीर्थम् २६४ तत्राभि-षेकात् अश्वमेधफलप्राप्तिः
*
“अयोध्या मथुरा माया काशी काञ्चीअवन्तिका ।पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः
तासु वासं प्रकुर्व्वन्ति ये मृता वा नराः परम् ।लभन्ते पुनर्जन्म मातृगर्भेषु कुत्रचित्
”इति पाद्मे भूमिखण्डम्
शास्त्रम् अध्वरः क्षेत्रम् उपायः (यथा, महाभारते १२५ २६ ।“वासुदेवेन तीर्थेन तात ! गच्छस्व संशमम्
”“तीर्थेन उपायेन ।” इति तट्टीकायां नील-कण्ठः
अवसरः यथा, भागवते १९ ।“स तदा लब्धतीर्थोऽपि ववाधे निरायुधम् ।मानयन् मृधे धर्म्मं विष्वक्सेनं प्रकोपयन्
”)नारीरजः अवतारः ऋषिजुष्टाम्बु (यथा, रामायणे ।“अकर्द्दममिदं तीर्थं भरद्बाज ! निशामय ।रमणीयं प्रसन्नाम्बु सन्मनुष्यमनो यथा
”)पात्रम् (यथा, मनुः १३० ।“दूरादेव परीक्षेत ब्राह्मणं वेदपारगम् ।तीर्थन्तद्धव्यकव्यानां प्रदाने सोऽतिथिः स्मृतः
”)उपाध्यायः (यथा, महाभारते ४० १८ ।“शिक्षितो ह्यसि सारथ्ये तीर्थतः पुरुषर्षभ !
”“तीर्थतो गुरुतः ।” इति नीलकण्ठः
)मन्त्री इति मेदिनी थे,
(मन्त्रि-प्रभृत्यष्टादशराष्ट्रसम्पत् यथा, महाभारते ।२ ३८ ।“कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च ।त्रिभिस्त्रिभिरविज्ञातैर्वेत्सितीर्थानि चारकैः
”“तीर्थानि मन्त्रिप्रभृतीन्यष्टादश यान्यवगाह्यराजाकृतकृत्यो भवति तानि चोक्तानि नीति-शास्त्रे यथा, --‘मन्त्री पुरोहितश्चैव युवराजश्च भूपतिः ।पञ्चमो द्बारपालश्च षष्ठोऽन्तर्वंशिकस्तथा
कारागाराधिकारी द्रव्यसञ्चयकृत्तथा ।कृत्याकृत्येषु चार्थानां नवमो विनियोजकः
प्रदेष्टा नगराध्यक्षः कार्य्यनिर्म्माणकृत्तथा ।धर्म्माध्यक्षः सभाध्यक्षो दण्डपालस्त्रिपञ्चमः
षोडशो दुर्गपालश्च तथा राष्ट्रान्तपालकः ।अटवीपालकान्तानि तीर्थान्यष्टादशैव तु
चारान् विचारयेत्तीर्थे स्वात्मनश्च परस्य ।पाषण्डादीनविज्ञातानन्योन्यमितरेष्वपि
मन्त्रिणं युवराजञ्च हित्वा स्वेषु पुरोहितम्
’इत्येषां तीर्थशब्दवाच्यत्वम्
हलायुधः ।योनौ जलावतारे मन्त्र्याद्यष्टादशस्वपि ।पुण्यक्षेत्रे तथा पात्रे तीर्थं स्यात् दर्शनेष्वपि
”इति तट्टीकायां नीलकण्ठः
)योनिः दर्शनम् घट्टः इति हेमचन्द्रः
विप्रः आगमः निदानम् अग्निः इतिसंक्षिप्तसारे उणादिवृत्तिः
(पुण्यकालः ।इति स्वामी
यथा, भागवते १२ १४ ।“हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् ।प्रादात् स्वन्नञ्च विप्रेभ्यः प्रजातीर्थे तीर्थवित्
”पुं, सन्न्यासिनामुपाधिविशेषः यथा, प्राण-तोषिण्यां अवधूतप्रकरणे ।“त्रिवेणीसङ्गमे तीर्थे तत्त्वमस्यादिलक्षणे ।स्नायात्तत्त्वार्थभावेन तीर्थनामा उच्यते
”)