| YouTube Channel

तिल्वकः (tilvakaH)

 
Wordnet
Sanskrit
Synonyms:
लोध्रः, गालवः, शाबरः, तिरीटः, तिल्वः, मार्जनः, लोधवृक्षः, भिल्लतरुः, तिल्वकः, काण्डकीलकः, लोध्रकवृक्षः, शम्बरः, हस्तिरोध्रकः, तिलकः, काण्डनीलकः, हेमपुष्पकः, भिल्ली, शावरकः
noun
वृक्षविशेषः।
"लोध्रस्य चर्म एवं काष्ठं औषधाय उपयुज्यते।"
शब्दकल्पद्रुमः
Sanskrit
तिल्वकः,
पुं,
(तिल्व + स्वार्थे कन् ।) लोध्रः ।इति राजनिर्घण्टः
(अस्य पर्य्याया यथा, --“तिल्वकस्तु मतो लोध्रो बृहत्पत्रस्तिरीटकः
”अस्य विशिष्टव्यवहारो यथा, --“तस्य मूलत्वचं शुष्कामन्तर्व्वल्कलवज्जिताम् ।चूर्णयेत्तु त्रिधा कृत्वा द्बौ भागौ श्च्योतयेत्ततः
लोध्रस्यैव कषायेण तृतीयं तेन भावयेत् ।भागं तं दशमूलस्य पुनः क्वाथेन भावयेत्
शुष्कं चूर्णं पुनः कृत्वा तत ऊर्द्ध्वं प्रयोजयेत् ।दधितक्रसुरामण्डमूत्रैर्व्वदरसीधुना
रसेनामलकानां वा ततः पाणितलं पिबेत्
”“तिल्वकस्य कषायेण दशकृत्वः सुभाविताम् ।मात्रां कम्पिल्लकस्यैव कषायेण पुनः पिबेत् ।चतुरङ्गुलकल्पेन लेहोऽन्यः कार्य्य एव
”“तिल्वकस्य कषायेण कल्केन सशर्करः ।सघृतः साधितो लेहः श्रेष्ठं विरेचनम्
”इति चरके कल्पस्थाने नवमेऽध्याये
)