| YouTube Channel

तिलशैल (tilazaila)

 
वाचस्पत्यम्
Sanskrit
तिलशैल
पु०
दानार्थे कल्पिते दशसु अचलेषु अचलभेदे ।तिलाचलादयोऽप्यत्र तिलाचलश्च द्विविधः तिलमय-प्रधानमेरुः, धान्यशैलस्य पश्चात् कल्पितः तिलमयविष्कम्भ-गिरिश्च तत्र मेरुरूपतिलशैलदानविधिर्यथा“प्रथमो धान्यशैलः स्याद् द्वितीयो लवणाचलः गुडा-चलस्तृतीयस्तु चतुर्थो हेमपर्वतः पञ्चमस्तिलशैलः स्यात्षष्ठः कार्पासपर्वतः सप्तमो घृतशैलश्च रत्नशैलस्तथा-ष्टमः राजतो नवमस्तद्वद्दशमः शर्कराचलः वक्ष्येविधानमेतेषां यथावदनुपूर्वशः अयने विषुवे पुण्येव्यतोपाते दिनक्षये शुक्लपक्षे तृतीयायामुपरागे शशि-क्षये विवाहोत्सवयज्ञेषु द्वादश्यामथ वा पुनः ।शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः धान्यशै-लादयोयेऽपि देयाः शास्त्रं विजानता” इत्युपक्रमे ।“अतःपरं प्रवक्ष्यामि तिलशैलं विधानतः यत्प्रदाना-न्नरोयाति विष्णुलोकं सनातनम् उत्तमो दशभिर्द्रोणैर्मध्यमः पञ्चभिः स्मृतः त्रिभिः कनिष्ठो विप्रेन्द्र! तिल-शैलः प्रकीर्त्तितः पूर्ववच्चापरान् सर्वान् विष्कम्भा-नमितोगिरीन् दानमन्त्रान् प्रवक्ष्यामि यथावन्मुनि-पुङ्गव! यस्मान् मधुबधे विष्णोर्देहस्वेदसमुद्भवाः ।तिलाः कुशाश्च माषाश्च तस्माच्छन्नो भवत्विह हव्येकव्ये यस्माच्च तिला एवाभिरक्षणम् भवादुद्धर शैलेन्द्र!तिलाचल! नमोऽस्तु ते” इत्यामन्त्र्य यो दद्यात्तिलाचलमनुत्तमम् वैष्णवं पदं याति पुनरावृत्तिदुर्ल-भम् दीर्घायुष्यं समाप्तोति पुत्रपौत्रैश्च मोदते पितृ-भिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत्” मत्स्यपु० ८६ अ० ।विष्कुम्भरूपतिलाचलस्तु यथा “पश्चात्तिलाचलमनेकसुग-न्धिपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम् आकारयेद्र-जतपुष्पवनेन तद्वद्वज्रान्वितं दधिसितोदसरस्तथाग्रे”मत्०
पु०
८२ अ०