तिमिर (timira)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishतिमिर - timira - - dark
तिमिर - timira - - gloomy
तिमिर - timira - - sort of aquatic plant
तिमिर - timira - - darkness
तिमिर - timira - - partial blindness
तिमिर - timira - - darkness of the eyes
तिमिर - timira - - iron-rust
तिमिर timira dark
तिमिर timira gloomy
तिमिर timira darkness
तिमिर timira sort of aquatic plant
तिमिर timira partial blindness
तिमिर timira darkness of the eyes
तिमिर timira iron-rust
Wilson
EnglishApte
Englishतिमिर [timira], [तिम्-किरच्] Dark
विन्यस्यन्तीं दृशौ तिमिरे पथि 5
बभूवुस्तिमिरा दिशः
रः, रम् Darkness
तन्नैशं तिमिरमपाकरोति चन्द्रः 6.3
4.II
4.57.
Blindness
तेजोमयं तिमिरदोषहतं हि चक्षुः Rāj. T.4.314.
Iron-rust. -अरिः, -नुद्, , -रिपुः the sun
तिमिरारिस्तमो हन्ति प्रातः स्ववधभीरवः Udb.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
Englishतिमिर तिमिर, अस्, आ, अम् (said to be fr. rt.
तिम्, but rather related to तमस् fr. rt. तम्), dark,
gloomy
(अम्), n. darkness
darkness of the eyes,
blindness
a class of morbid affections of the eyes
seated in the पटल or coats of the eye
gutta
serena, total blindness from affection of the optic
nerve
iron-rust
a sort of aquatic plant [cf. तिमीर
and तिमिष]
(अम्, आ), n. f., N. of two towns.
—तिमिर-नुद्, त्, त्, त्, dispelling darkness
(त्), m.
the sun
the moon.
—तिमिर-प्रतिषेध, अम्, n.,
N. of a chapter of the Uttara-tantra or sixth book
of the Aṣṭāṅga-hṛdaya-saṃhitā by Vāg-bhaṭa,
treating of medicine.
—तिमिर-मय, अस्, ई, अम्,
consisting of darkness
(अस्), m. an epithet of Rāhu
(who creates darkness), or an eclipse in general.
—तिमिर-रिपु, उस्, m. ‘the enemy of darkness, ’ the
sun.
—तिमिरारि (°र-अरि), इस्, m. ‘the enemy of
darkness, ’ the sun.
—तिमिरोद्घाट (°र-उद्°), N.
of a treatise in verse connected with the Śaiva
dogmas.
Macdonell
EnglishBenfey
Englishतिमिर तिमिर (akin to तमस्, per-
haps for original तम् + इर),
I. ,
रा, Dark, Rām. 6, 16, 104.
II. and
1. Darkness, Rām. 2, 28, 18.
2. A
class of diseases of the eye, Suśr. 1, 32,
4.
3. A certain plant, Varāh. Bṛh. S.
54, 11.
III. The name of a town,
Rām. 4, 40, 26.
--
निस्-, and वि-,
clear, MBh. 12, 6817
Indr. 1, 3.
Hindi
Hindiअंधेरा
Apte Hindi
Hindiतिमिर
वि* - तिस + किंरच्
अन्धकारमय
तिमिरः
- -
अन्धकार
तिमिरः
- -
अन्धापन
तिमिरः
- -
"जंग, मुर्चा"
तिमिरम्
- -
अन्धकार
तिमिरम्
- -
अन्धापन
तिमिरम्
- -
"जंग, मुर्चा"
Shabdartha Kaustubha
Kannadaतिमिर
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಅಂಧಕಾರ /ಕತ್ತಲೆ
निष्पत्तिः - > तिम (आर्द्रीभावे) - "किरच्" (उ० १-५१)
प्रयोगाः - > "लेखया विमलविद्रुमभासा सन्ततं तिमिरमिन्दुरुदासे"
उल्लेखाः - > किरा० १९-२२
तिमिर
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಒಂದು ವಿಧ ನೇತ್ರರೋಗ
L R Vaidya
EnglishEdgerton Buddhist Hybrid
Englishअभिधानचिन्तामणिः
Sanskritउच्चन्द्रस्त्वपररात्रस्तमिस्रं तिमिरं तमः ॥ १४५ ॥
ध्वान्तं भूछायान्धकारं तमसं समवान्धतः ।
उच्चन्द्र (पुं), अपररात्र (पुं), तमिस्र (क्ली), तिमिर (क्ली), तमस् (क्ली), ध्वान्त (क्ली), भूच्छाया (स्त्री), अन्धकार (पुंक्ली), सन्तमस (क्ली), अवतमस (क्ली), अन्धतमस (क्ली)
अभिधानरत्नमाला
Sanskritअवतमस्
अवतमस्, अन्धतमस्, संतमस्, ध्वान्त, अन्धकार, तिमिर, तमस्, तमिस्रा, तमिस्र, भूछाया
अवतमसमन्धतमसं संतमसं ध्वान्तमन्धकारं च ।
तिमिरं तमस्तमिस्रां तमिस्रमिच्छन्ति भूछायाम् ॥ ११० ॥
verse 1.1.1.110
page 0014
नाममाला
Sanskritतमस्, अन्धकार, तिमिर, ध्वान्त, संतमस्, तम
तमोऽन्धकारं तिमिरं ध्वान्तं संतमसं तमम् ॥ १४८ ॥
verse 0.1.1.148
page 0072
शीतल, तिमिर, याथ, मन्द, विलम्बित
शीतलं तिमिरं याथं मन्दं विद्धि विलम्बितम् ॥ १८४ ॥
verse 0.1.1.184
page 0088
शब्दकल्पद्रुमः
Sanskritतिमिरं, (तिम्यतीति । तिम + “इषिमदि-मुदीति ।” उणां । १ । ५२ । इति किरच् ।)अन्धकारः । इत्यमरः । १ । १० । ३ ॥
(यथा, रामायणे । २ । २८ । १८ ।“अतीववातस्तिमिरं बुभुक्षा चास्ति नित्यशः ।भयानि च महान्त्यत्र अतो दुःखतरं वनम् ॥
”)नेत्ररोगविशेषः । तस्य लक्षणमाह माधवकरः ।“तिमिराख्यः स वै दोषश्चतुर्थं पटलं गतः ।रुणद्धि सर्व्वतो दृष्टिं लिङ्गनाशमतः परम् ॥
”(अस्य लक्षणानि यथा, --“दोषे मण्डलसंस्थाने मण्डलानीव पश्यति ।द्विधैकं दृष्टिमध्यस्थे बहुघा बहुधास्थिते ॥
दृष्टेरभ्यन्तरगते ह्रस्ववृद्धविपर्य्ययम् ।नान्तिकस्थमधःसंस्थे दूरगं नोपरिस्थितम् ॥
पार्श्वे पश्येन्न पार्श्वस्थे तिमिराख्योऽयमामयः ।प्राप्नोति काचतां दोषे तृतीयपटलाश्रिते ॥
तेनोर्द्धमीक्षते नाधस्तनुचेलावृतोपमम् ।यथा वर्णञ्च रज्येत दृष्टिर्हीयेत च क्रमात् ॥
तथाप्युपेक्षमाणस्य चतुर्थं पटलं गतः ।लिङ्गनाशं मलः कुर्व्वन् छादयेद्दृष्टिमण्डलम् ॥
तत्र वातेन तिमिरे व्याविद्धमिव पश्यति ।चलाविलारुणाभासं प्रसन्नञ्चेक्षते मुहुः ॥
जालानि केशान् मशकान् रश्मींश्चोपेक्षितेऽत्र च ।काचीभूते दृगरुणा पश्यत्यास्यमनासिकम् ॥
चन्द्रदीपाद्यनेकत्वं वक्रमृज्वपि मन्यते ।वृद्धः काचो दृशं कुर्य्याद्रजोधूमावृतामिव ॥
स्पष्टारुणाभां विस्तीर्णां सूक्ष्मां वा हतदर्शनाम् ।सलिङ्गनाशो वाते तु सङ्कोचयति दृक्शिराः ॥
दृङ्मण्डलं विशत्यन्तर्गम्भीरादृगसौ स्मृता ।पित्तजे तिमिरे विद्युत् खद्योतद्योतदीपितम् ॥
शिखितित्तिरिपिच्छाभं प्रायो नीलञ्च पश्यति ।काचे दृक्काचनीलाभा तादृगेव च पश्यति ॥
अर्केन्दुपरिवेषाग्निमरीचीन्द्रधनुंषि च ।भृङ्गनीला निरालोका दृक्स्निग्धा लिङ्गनाशतः ॥
दृष्टिः पित्तेन ह्रस्वाख्या सा ह्रस्वा ह्रस्वदर्शना ।भवेत् पित्तविदग्धाख्या पीता पीताभदर्शना ॥
कफेन तिमिरे प्रायः स्निग्धं श्वेतञ्च पश्यति ।शङ्खेन्दूकुन्दकुसुमैः कुमुदैरिव चाचितम् ॥
काचे तु निष्प्रभेन्द्वर्क प्रदीपाद्यैरिवाचितम् ।सिताभा सा च दृष्टिः स्याल्लिङ्गनाशे तु लक्ष्यते ॥
मूर्त्तः कफो दृष्टिगतः स्निग्धो दर्शननाशनः ।बिन्दूर्जलस्येव चलः पद्मिनीपुटसंस्थितः ॥
उष्णे सङ्कोचमायाति छायायां परिसर्पति ।शङ्खकुन्देन्दूकुमुदस्फटिकोपमशुक्लिमा ॥
रक्तेन तिमिरे रक्तं तमोभूतञ्च पश्यति ।काचेन रक्ता कृष्णा वा दृष्टिस्तादृक् च पश्यति ॥
लिङ्गनाशेऽपि तादृक्दृङ्निष्प्रभा हतदर्शना ।संसर्गसन्निपातेषु विद्यात् सङ्कीर्णलक्षणान् ॥
तिमिरादीनकस्माच्च तैः स्याद्ब्यक्ताकुलेक्षणम् ।तिमिंरे शेषयोर्दृष्टौ चित्रो रागः प्रजायते ॥
”इति वाभटेनोत्तरस्थाने द्बादशेऽध्याये उक्तम् ॥
अस्य चिकित्सा यथा, --“तिमिर काचतां याति काचोऽप्यान्ध्य-मुपेक्षया ।नेत्ररोगेष्वतो घोरं तिमिरं साधयेद्द्रुतम् ॥
तुलां पचेत जीवन्त्या द्रोणेऽपां पादशेषितैः ।तत्क्वाथे द्विगुणं क्षीरं घृतप्रस्थं विपाचयेत् ॥
प्रपौण्डरीककाकोली पिप्पली लोध्रसैन्धवैः ।शताह्वा मघुकद्राक्षा सितादारुफलत्रयैः ॥
कार्षिकैर्निशि तत् पीतं तिमिरापहरं परम् ॥
”“पटोलनिम्बकटुका दार्व्वीसेव्यवरावृषम् ।सधन्वयासत्रायन्ती पर्पटं पालिकं पृथक् ॥
प्रस्थमामलकानाञ्च क्वाथयेन्नल्वणेऽम्भसि ।तदाढकेऽर्द्धपलिकैः पिष्टैः प्रस्थं घृतात् पचेत् ॥
मुस्तभूनिम्बषष्ट्याह्वकुटजोदीच्यचन्दनैः ।सपिप्पलीकैस्तत्सर्पिर्घ्राणकर्णास्यरोगजित् ॥
विद्रधिज्वरदुष्टारुर्विसर्पापचिकुष्ठनुत् ।विशेषाच्छुक्रतिमिरनक्तान्ध्योष्णाम्लदाहनुत् ॥
”“त्रिंशद्भागा भुजङ्गस्य गन्धपाषाणपञ्चकम् ।शुल्वतालकयोर्द्वौ द्वौ वङ्गस्यैकोऽञ्जनात्रयम् ॥
अन्धमूषीकृतं ध्मातं पक्वं विमलमञ्जनम् ।तिमिरान्तकरं लोके द्वितीय इव भास्करः ॥
गोमूत्रे छगलरसेऽम्लकाञ्जिके चस्त्रीस्तन्ये हविषि विषे च माक्षिके च ।यत्तुत्थं ज्वलितमनेकशो निषिक्तंतत्कुर्य्यात् गरुडसमं नरस्य चक्षुः ॥
”“रसेन्द्रभुजगौ तुल्यौ तयोस्तुल्यमथाञ्जनम् ।ईषत् कर्पूरसंयुक्तमञ्जनं नयनामृतम् ॥
”“सामान्यं साधनमिदं प्रतिदोषमतः शृणु ।वातजे तिमिरे तत्र दशमूलाम्भसा घृतम् ॥
क्षीरे चतुर्गुणे श्रेष्ठाकल्कपक्वं पिबेत्ततः ॥
”“पित्तजे तिमिरे सर्पिर्जीवनीयफलत्रयैः ।विपाचितं पाययित्वा स्निग्धस्य व्यधयेच्छिराम् ॥
श्लेष्मोद्भवेऽमृताक्वाथवराकणशृतं घृतम् ।विध्येच्छिरां पीतवतो दद्याच्चानुविरेचनम् ॥
”“रक्तजे पित्तवत्सिद्धिः शीतैश्चास्रं प्रसादयेत् ।”“दद्यादुशीरनिर्य्यूहचूर्णितं कणसैन्धवम् ॥
तत् शृतं सघृतं भूयः पचेत् क्षौद्रं घने पिबेत् ।शीते चास्मिन् हितमिदं सर्व्वजे तिमिरेऽञ्जनम् ॥
”“चक्षूरक्षायां सर्व्वकालं मनुष्यै-र्यत्नः कर्त्तव्यो जीविते यावदिच्छा ।व्यर्थो लोकोऽयं तुल्यरात्रिन्दिवानांपुंसामन्धानां विद्यमानेऽपि वित्ते ॥
”इति चोत्तरस्थाने त्रयोदशेऽध्याये वाभटे-नोक्तम् ॥
“सौवीरमञ्जनन्तुत्थन्ताप्यो धातुर्म्मनःशिला ।चक्षुष्यं मधुकं लोहा मणयः पौष्यमञ्जनम् ॥
सैन्धवं शौकरीदंष्ट्रा कतकञ्चाञ्जनं शुभम् ।तिमिरादिषु चूर्णं वा वर्त्तिर्व्वेयमनुत्तमा ॥
”“वदने कृष्णसर्पस्य निहितं मासमञ्जनम् ।ततस्तस्मात् समुद्धृत्य सशुष्कं चूर्णयेद्बुधः ॥
सुमनःक्षारकैः शुष्कैरर्द्धांशैः सैन्धवेन च ।एतन्नित्याञ्जनं कार्य्यं तिमिरघ्नमनुत्तमम् ॥
”इति चरके चिकित्सास्थाने २६ अध्याये ॥
)
तिमिरः, (तिम्यति क्लिद्यति चक्षुरनेन । तिम +“इषिमदिमुदीति ।” उणां । १ । ५२ । इति किरच् ।)चक्षूरोगविशेषः । तस्य निदानादि यथा ।चतुर्थपटलगतदोषमाह ।“तिमिराख्यः स यो दोषश्चतुर्थपटलं गतः ।रुणद्धि सर्व्वतो दृष्टिं लिङ्गनाश इति क्वचित् ॥
अस्मिन्नपि तमोभूते नातिरूढे महागदे ।चन्द्रादित्यौ स नक्षत्रावन्तरीक्षे च विद्यतः ॥
निर्म्मलानि च तेजांसि भ्राजिष्णूनि च पश्यति ।स एव लिङ्गनाशस्तु नीलिकाकाचसंज्ञितः ॥
यो दोषः दोषोऽत्र रोगः चतुर्थपटलं वाह्य-पटलं गतः स तिमिराख्यः । तिमिरदर्शनेनतिमिरमस्यास्तीति तिमिरः अर्श आदित्वात् ।तस्य लक्षणमाह रुणद्धीत्यादि । स तिमि-राख्यः । सर्व्वतः सर्व्वत्र । लिङ्गनाश इतिक्वचित् तन्त्रान्तरे लिङ्गनाशसंज्ञः । तस्य निरु-क्तिश्च । लिङ्ग्यते चिह्न्यते अनेनेति लिङ्गं दृष्टि-तेजः तस्य नाशोऽस्मिन् इति लिङ्गनाशः ।अस्मिन्नपि तिमिरेऽपि तमोभूते तमस्तुल्ये ।अत्र तु भूतशब्दस्तुल्यार्थः । भूतं प्राण्यतीतेसमे त्रिष्वित्यमरवचनात् । नातिरूढे अप्रौढे ।चन्द्रादित्यौ नक्षत्राणि च पश्यति । अन्तरीक्षेअन्तरीक्षस्य प्रकाशमयत्वेन तमोऽभिभावात् ।तेजांसि अग्न्यादेः । भ्राजिष्णूनि रत्नसुवर्णा-दीनि । अस्मिन् प्रौढे नीरजे च चन्द्रादित्यादीन्नपश्यतीत्यन्वयः । नीलिकाकाचसंज्ञितः नीलिका-काचेति नामान्तराभ्यां युक्तः ॥
* ॥
दृष्टिरोगाणां सङ्ख्यानामानि चाह ।दृष्ट्याश्रया षट् च षडेव रोगाःषड्लिङ्गनाशा हि भवन्ति तत्र ।वातेन पित्तेन कफेन सर्व्वै-रुक्तात् परिम्लाय्य विधिश्च षष्ठः ॥
दृष्ट्याश्रया षट् च षडेव रोगाः षट् षट् द्बादशे-त्यर्थः । तत्र लिङ्गनाशाः षट् तान् विवृ-णोति वातेनेत्यादि ॥
* ॥
तथा नरः पित्तविदग्धदृष्टिःकफेन चान्यस्त्वथ धूमदर्शी ।यो ह्रस्वजात्यो नकुलान्ध्यसंज्ञोगम्भीरसंज्ञा च तथैव दृष्टिः ॥
पित्तविदग्धदृष्ट्यादयः षट् । एवं दृष्ट्यादयश्चषट् । एवं दृष्ट्याश्रया द्वादशरोगाः ॥
* ॥
तत्र द्वावन्यौ चाह ।तत्रैवान्यौ गदौ बद्धौ सनिमित्तानिमित्तकौ ॥
तेषु वातजस्य लिङ्गनाशस्य लक्षणमाह ।वातेन खलु रूपाणि भ्रमन्तीव च पश्यति ।आविलान्यरुणाभानि व्याविद्धानीव मानवः ॥
आविलानि कलुषाणि । अरुणानि अव्यक्त-लौहित्ययुक्तानि । आविद्धानीव कुटिलानीव ॥
*पैत्तिकमाह ।पित्तेनादित्यखद्योतशक्रचापतडिद्गुणान् ।नृत्यतश्चैव शिखिनः सर्व्वं नीलञ्च पश्यति ॥
आदित्यादीनां गुणान् रूपाणि ॥
* ॥
श्लैष्मिकमाह ।कफेन पश्येद्रूपाणि स्निग्धानि च सितानि च ।सलिलप्लावितानीव जालकानीव मानवः ॥
* ॥
सन्निपातजमाह ।सन्निपातेन चित्राणि विपरीतानि पश्यति ।बहुधापि द्विघा वापि सर्व्वाण्येव समन्ततः ॥
हीनाधिका सान्यथा वा ज्योतींष्यपि चपश्यति ॥
चित्राणि नानावर्णानि । विपरीतानि वैपरीत्यंविवृणोति बहुधेत्यादि ॥
* ॥
रक्तजमाह ।पश्येद्रक्तेन रक्तानि तमांसि विविधानि च ।हरितान्यथ कृष्णानि पीताश्वपि च मानवः ॥
* ॥
परिम्लायिनमाह ।रक्तेन मूर्च्छितं पित्तं परिम्लायिनमाचरेत् ।तेन पीता दिशः पश्येदुद्यन्तमिव भास्करम् ॥
विकीर्य्यमाणान् खद्योतैर्वृक्षांस्तेजांसि चैव हि ॥
विकीर्य्यमाणान् व्याप्यमानान् अग्न्यादिभिरिव ॥
वातादिजनितैर्नेत्रवर्णैरपि स षड्विधः ।लिङ्गनाशो निगदितो वर्णो वातादितो यथा ॥
रागारुणो मारुततः प्रदिष्टोम्लायी च नीलश्च तथैव पित्तात् ।कफात् सितः शोणिततः सरक्तःसमस्तदोषप्रभवो विचित्रः ॥
* ॥
वातादिना हेतुभूतेन जनिते नेत्रविषये मण्डलेरूपविशेषमाह ।अरुणं मण्डलं वाताच्चञ्चलं परुषं तथा ।पित्ततो मण्डलं नीलं कांस्याभं वा सपीतकम् ॥
श्वेतं पीतं वा कथमेतत् व्याधिप्रभावात् ॥
श्लेष्मणा बहलं स्निग्धं शङ्खकुन्देन्दुपाण्डरम् ।चलत्पद्मपलाशस्थशुक्लो बिन्दुरिवाम्भसः ।मृद्यमाने तु नयने मण्डलं तद्बिसर्पति ॥
बहलं स्थूलम् ।मण्डलं तु भवेच्चित्रं लिङ्गनाशे त्रिदोषजे ।प्रवालपद्मपत्राभं मण्डलं शोणितात्मकम् ॥
चित्रं वातादिवर्णम् ।रक्तजं मण्डलं दृष्टौ स्थूलकाचारुणप्रभम् ।परिम्लायिनि रोगे स्यात् म्लानं नीलमथापि वा ॥
दोषक्षयात् स्वयं तत्र कदाचित् स्यात्तु दर्शनम् ॥
रक्तजं पित्तानुगामिरक्तजम् । स्थूलकाचारुण-प्रभं स्थूलकाचस्येवारुणा प्रभा यस्य तत् । एतेनस्थौल्यमरुणत्वञ्च बोध्यते । दोषक्षयादित्यादि ।तत्र परिम्लायिनि कालान्तरेण दोषक्षयात्कदाचित् स्वयमेव दर्शनं स्यात् ॥
* ॥
अनुक्त-व्यथादाहगौरवादिदोषलिङ्ग-संग्रहणार्थमाह ।यथास्वं दोषलिङ्गानि सर्व्वेष्वेव भवन्ति हि ॥
* ॥
पत्तविदग्धदृष्टेर्लक्षणमाह ।पित्तेन दुष्टेन गतेन दृष्टिंपीता भवेद्यस्य नरस्य दृष्टिः ।पीतानि रूपाणि च तेन पश्येत्सर्व्वो नरः पित्तविदग्धदृष्टिः ॥
पित्तेन गतेन दृष्टिं दृष्टावपि प्रथमद्बितीयेपटले गतेनेति बोद्धव्यम् । तेन व्याधिना ॥
* ॥
तस्मिन्नेव पित्ते दृष्टौ तृतीयं पटलं गते रूप-विशेषमाह ।प्राप्ते तृतीयं पटलं तु दोषेदिवा न पश्येन्निशि वीक्षते सः ।रात्रौ स शीतानुगृहीतदृष्टिःपित्ताल्पभावात् सकलानि पश्येत् ॥
दोषेऽत्र पित्ते ॥
* ॥
अथ श्लेष्मविदग्धदृष्टि-लक्षणमाह ।तथा नरः श्लेष्मविदग्धदृष्टि-स्तान्येव शुक्लानि हि मन्यते तु ।अत्रापि श्लेष्मणो दृष्टौ प्रथमद्वितीयपटलगतस्यै-तल्लिङ्गं बोद्धव्यम् ॥
* ॥
स एव श्लेष्मा दृष्टौपटलत्रयं गतो नक्तान्ध्यं करोतीत्याह ।त्रिपु स्थितो यः पटलेषु दोषोनक्तान्ध्यमापादयति प्रसह्य ।दिवा स सूर्य्यानुगृहीतदृष्टिःपश्येत्तु रूपाणि कफाल्पभावात् ॥
दोषोऽत्र कफस्तस्योपक्रान्तत्वात् । नक्तान्ध्यस्यश्लेष्मविदग्धदृष्टावन्तर्भूतत्वाच्च पृथग्गणना ॥
* ॥
धूमदर्शिनमाह ।शोकज्वरायाः सशिरोऽभितापै-रव्याहता यस्य नरस्य दृष्टिः ।धूम्रांस्तु यः पश्यति सर्व्वभावात्स धूमदर्शीति नरः प्रदिष्टः ॥
शिरोऽभितापः शिरसि घर्म्मादिना सन्तापः ।एतस्य पित्तदोषो बोद्धव्यः ॥
* ॥
ह्नस्वजात्यमाह ।यो वासरे पश्यति कष्टतोऽथरूपं महच्चापि निरीक्षतेऽल्पम् ।रात्रौ पुनर्यः प्रकृतानि पश्येत्स ह्नस्वजात्यो मुनिभिः प्रदिष्टः ॥
* ॥
नकुलान्ध्यमाह ।विद्योतते यस्य नरस्य दृष्टि-र्दोषाभिपन्ना नकुलस्य यद्वत् ।चित्राणि रूपाणि दिवा स पश्येत्स वै विकारो नकुलान्ध्यसंज्ञः ॥
* ॥
गम्भीरकमाह ।दृष्टिर्व्विरूपा श्वसनोपसृष्टासङ्कुच्य याभ्यन्तरतः प्रयाति ।रुजावगाढा च तमक्षिरोगंगम्भीरकेति प्रवदन्ति तज्ज्ञाः ॥
विरूपा विकृता । श्वसनोपसृष्टा वातोपहता ।रुजावगाढा गम्भीरवेदनान्विता ॥
* ॥
वाह्यौ पुनर्द्वावपि संप्रदिष्टौनिमित्ततश्चाप्यनिमित्ततश्च ।निमित्ततस्तस्य शिरोऽभितापात्ज्ञेयस्त्वभिष्यन्दनिदर्शनैः सः ॥
वाह्यौ सुश्रुतोक्तद्बादशसंख्येभ्योऽधिकौ तत्रनिमित्तत आह शिरोऽभितापात् शिरोऽभि-ताप्यते येन विषकुसुमगन्धवहपवनस्पर्शेन सशिरोऽभितापस्तस्मात् । अभिष्यन्दनिदर्शनैःरक्ताभिष्यन्दलिङ्गैरिति गदाधरः ॥
सन्निपाता-भिष्यन्दलिङ्गैरिति कार्त्तिकः ॥
* ॥
अनिमित्तत आह ।सुरर्षिगन्धर्व्वमहोरगाणांसन्दर्शनेनापि च भास्करस्य ।हन्येत दृष्टिर्म्मनुजस्य तस्यस लिङ्गनाशस्त्वनिमित्तसंज्ञः ॥
अनुपलभ्यमानानां सुरादीनां दर्शननिमित्त-मप्यनिमित्तं मन्यते ॥
* ॥
अनिमित्ततो लिङ्गनाशस्य लक्षणमाह ।तत्राक्षिविस्पष्टमिवावभातिषैदूर्य्यवर्णा विमला च दृष्टिः ।विस्पष्टं ज्योतिर्युक्तम् । वैदूर्य्यवर्णा श्यामाविमला निर्म्मला । इति दृष्टिरोगाः ॥
* ॥
अथ तिमिरचिकित्सा ।“भुक्त्वा पाणितलं घृष्ट्वा चक्षुषोर्यदि दीयते ।अचिरेणैव तद्वारि तिमिराणि व्यपोहति ॥
* ॥
शङ्खनाभिर्विभीतस्य पथ्यामज्जा मनःशिला ।पिप्यली मरिचं कुष्ठं वचा चेति समांशकम् ॥
छागीक्षीरेण संपिष्य वटीं कुर्य्याद्यवोन्मिताम् ।हरेणुमात्रां संघृष्य जलेनाञ्जनमाचरेत् ॥
तिमिरं मांसवृद्धिञ्च काचं पटलमर्व्वुदम् ।रात्र्यन्धं वार्षिकं पुष्पं वटी चन्द्रोदया हरेत् ॥
”इति चन्द्रोदया वटी ॥
* ॥
कणा सलवणोषणा सहरसाञ्जना साञ्जनासरित्पतिकफः सिता सितपुनर्न्नवा सम्भवा ।रजन्यरुणचन्दनं मधु च तुत्थपथ्याशिलाअरिष्टदलसावरस्फुटिकशङ्खनाभीन्दवः ॥
इमानि तु विचूर्णयेन्निविडवाससा शोधये-त्तथायसि विमर्द्दयेत् समधुताम्रखण्डेन तत् ।इदं मुनिभिरीरितं नयनशोणनामाञ्जनंकरोति तिमिरक्षयं पटलपुष्पनाशं बलात् ॥
लवणं सैन्धवम् । अञ्जनं सुरमा इति लोके ।सरित्पतिकफः समुद्रफेनः । शिला मनःशिला ।सावरो लोध्रः । स्फुटिकः फट्करी । इन्दूःकर्पूरः । नयनशोणं तिमिरे नूतनकुसुमे नूतन-पटले च ॥
* ॥
हरीतकी वचा कुष्ठं पिप्पली मरिचानि च ।विभीतकस्य मज्जा च शङ्खनाभिर्म्मनःशिला ॥
सर्व्वमेतत् समं कृत्वा गव्यक्षीरेण पेषयेत् ।नाशयेत्तिमिरं कण्डुं पटलाण्यर्व्वुदानि च ॥
अपि त्रैवार्षिकं शुक्रं मासेनैकेन नाशयेत् ।अधिकानि च मांसानि रात्रावन्धत्वमेव च ॥
चन्द्रोदया वटी पुष्पे तिमिरे च ॥
* ॥
रजनी निम्बपत्राणि पिप्पली मरिचानि च ।विडङ्गं भद्रमुस्तञ्च सप्तमी त्वभया स्मृता ॥
अजामूत्रेण संपिष्य छायायां शोषयेद्बटीम् ।वारिणा तिमिरं हन्ति गोमूत्रेण तु पिष्टिकाम् ॥
मधुना पटलं हन्ति नारीक्षीरेण पुष्पकम् ।एषा चन्द्रप्रभावर्त्तिः स्वयं रुद्रेण निर्म्मिता ॥
इति चन्द्रप्रभावर्त्तिः ॥
* ॥
कणा छागयकृन्मध्ये पक्वा तद्रसपेषिता ।अचिराद्धन्ति नक्तान्ध्यं तद्बत् सक्षौद्रमूषणम् ॥
त्रिफलाया रसं प्रस्थं प्रस्थं भृङ्गरजस्य च ।वृषस्य च रसं प्रस्थं शतावर्य्याश्च तत्समम् ॥
गुडूच्या आमलक्याश्च रसं छागीपयस्तथा ।प्रस्थं प्रस्थं समाहृत्य सर्व्वैरेभिर्घृतं पचेत् ॥
कल्कः कणा सिता द्राक्षा त्रिफला नीलमुत्-पलम् ।मधुकं क्षीरकाकोली मधुपर्णी निदिग्धिका ॥
तत्साधुसिद्धं विज्ञाय शुभे भाण्डे निधापयेत् ।ऊर्द्ध्वं पानमधःपानं मध्ये पानं प्रशस्यते ॥
यावन्तो नेत्रजा रोगास्तान् पानादपकर्षति ।सुरक्ते रक्तदुष्टे च रक्ते वा विश्रुते तथा ॥
नक्तान्ध्ये तिमिरे काचे नीलिका पटलार्व्वुदे ।अभिष्यन्देऽधिमन्थे च यक्ष्मकोपे सुदारुणे ॥
नेत्ररोगेषु सर्व्वेषु दोषत्रयकृतेष्वपि ।परं हितमिदं प्रोक्तं त्रिफलाद्यं महाघृतम् ॥
भृङ्गरजः भृङ्गराजः भङ्गगरा इति लोके ।क्षीरकाकोल्या अलाभे अश्वगन्धामूलं ग्राह्यम् ॥
मधुपर्ण्यत्र जलजं यष्टीमधु चक्षुष्यत्वात् । तद-लाभे सामान्यं यष्टीमधु ग्राह्यं तूल्यगुणत्वात् ॥
त्रिफलाद्यं घृतम् ॥
* ॥
शतमेकं हरीतक्या द्विगुणञ्च विभीतकम् ।चतुर्गुणं त्वामलकं वृषमार्कवयोः समम् ॥
चतुर्गुणोदकं दत्त्वा शनैर्म्मृद्वग्निना पचेत् ।भागं चतुर्थं संरक्ष्य क्वाथं तमवतारयेत् ॥
शर्करा मधुकं द्राक्षा मधुयष्टिर्न्निदिग्धिका ।काकोली क्षीरकाकोली त्रिफला नागकेशरम् ॥
पिप्पली चन्दनं मुस्तं त्रायमाणामथोत्पलम् ।घृतप्रस्थसमं क्षीरं कल्कैरेतैः शनैः पचेत् ॥
हन्यात् सतिमिरं काचं नक्तान्ध्यं शुक्रमेव च ।तथा स्रावञ्च कण्डूञ्च श्वयथुञ्च कषायताम् ॥
कलुषत्वञ्च नेत्रस्य विधर्म्मपटलान्वितम् ।बहुनात्र किमुक्तेन सर्व्वान् नेत्रामयान् हरेत् ॥
यस्य चोपहता दृष्टिः सूर्य्याग्निभ्यां प्रपश्यतः ।तस्यैतद्भेषजं प्रोक्तं मुनिभिः परमं हितम् ॥
मार्ज्जितं दर्पणं यद्वत् परां निर्म्मलतां व्रजेत् ।तद्वदेतेन पीतेन नेत्रं निर्म्मलतामियात् ॥
वारिद्रोणद्वयं चात्र वृषमार्कवयोस्तुले ।काकोलीयुगलालाभे अश्वगन्धामूलं ग्राह्यम् ॥
द्वितीयं त्रिफलाद्यं घृतम् ॥
* ॥
वासाविश्वामृतादार्व्वीरक्तचन्दनचित्रकैः ।भूनिम्बनिम्बकटुकापटोलत्रिफलाम्बुदैः ॥
निशाकलिङ्गकुटजैः क्वाथः सर्व्वाक्षिरोगहा ।वैस्वर्य्यं पीनसं श्वासं कासं नाशयति ध्रुवम् ॥
वासादिक्वाथः ।इति नेत्ररोगाधिकारः ।” इति भावप्रकाशः ॥
* ॥
किञ्च । गारुडे १९८ अध्याये ।“कतकस्य फलं शङ्खं सैन्धवं त्र्युषणं वचा ।फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला ॥
एषां वर्त्तिर्हन्ति कासं तिमिरं पटलं तथा ॥
”
वाचस्पत्यम्
SanskritBurnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
