तिथियुग्म (tithiyugma)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritतिथियुग्म तिथ्योस्तिथिविशेपयोर्युग्मम् । द्वितीयादितिथि-सप्तकयोगरूपे युग्मे तानि च सप्त युगमानि निगमे उक्तानियथा “युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः । रुद्रेणद्वादशीयुक्ता चतुर्दश्या च पूर्णिमा! प्रतिपदाप्यमा-वास्या तिथ्योर्युग्मं महाफलम् । एतद्व्यस्तं महादोषंहन्ति पुण्यं पुराकृतमिति” । युग्मं द्वितीया । अग्नि-स्तृतीया । युगं चतुर्थी । भूतं पञ्चमी । षड् षष्ठी ।मुनिः सप्तमी । वसुरष्टमी । रन्ध्रं नवमी । रुद्रएकादशी । अत्र युग्माग्न्यादिषु सप्तसु युग्मेषु पूर्वतिथि-रुत्तरविद्धा ग्राह्या उत्तरा तु पूर्वविद्धेत्युक्तं भवति ।वेधश्चात्र त्रिमूर्त्तयोरेव तदुक्तं कालमा० “अत्र तिथीनांवेधः पैठीनसिना दर्शितः । “पक्षद्वयेऽपि तिथयस्तिथिंपूर्वां तथोत्तराम् । त्रिमिर्मूहूर्त्तैर्विध्यन्ति सामान्योऽयंविधिः स्मृतः” इति पूर्वेद्युरुदयानन्तरममावास्या त्रिमुहूर्त्ताचैत् सा प्रतिपदं विध्यति । परेद्युरस्तमयात् प्राक्द्वितीया त्रिमुहूर्त्ता चेत् सापि पूर्वां प्रतिपदं विध्यतित्रिमुहूर्त्तव्याप्तिः स्कन्दपुराणे दर्शिता । “यां तिथिंसमनुप्राप्य यात्यस्तं पद्मिनीप्रियः । सा तिथिस्तद्दिनेप्रोक्ता त्रिमुहूर्त्ता च या भवेदिति” । शिवरहस्यसौर-पुराणयोरपि “या प्राप्यास्तमुपैत्यर्कः सा चेत् स्यात्त्रिमुहूर्त्तिका । धर्मकृत्येषु सर्वेषु संपूर्णान्तां विदुर्बुधाः”इति । वृहद्वसिष्ठोऽपि “यस्यां तिथावस्तमियात्सूर्य्यस्तु त्रिमुहूर्त्तकैः । यागदानजपादिभ्यस्तामेवोपक्र-मेत्तिथिमिति” । एवं पैठीनस्यादिवाक्ये त्रिमुहूर्त्तत्वेनैववेधस्थितेः वङ्गानां योगमात्रेणैव वैधोक्तिः साहस-मात्रम् । वेधकतिथेस्त्रिमूहूर्त्तत्वेऽपि विद्धतिथेर्मुहूर्त्ता-दिव्यापित्वेऽपि ग्राह्यता कालमाधवीये निर्णीता यथा ।“देवलः “यां तिथिं समनुप्राप्य उदयं याति भास्करः ।सा तिथिः सकला ज्ञेया स्नानदानजपादिष्विति” ।व्यासोऽपि “उदयन्नेव सविता यां तिथिं प्रतिपद्यते ।सा तिथिः सकला ज्ञेया दानाध्ययनकर्मस्विति” ।भविष्योत्तरपुराणेऽपि “व्रतोपवासनियमे घटिकैकायदा भवेत् । सा तिथिः सकला ज्ञेया पित्र्यर्थे चाऽप-राह्णिकीति” पद्मपुराणेऽपि “व्रतोपवासनियमेघटिकैका यदा भवेत् । उदये सा तिथिस्तत्र विपरीतातु पैतृके” इति स्कन्दपुराणेऽपि “व्रतोपवासदा-नादौ घटिकैका यदा भवेत् । उदये सा तिथिर्ग्राह्याविपरीता तु पैतृके” इति विष्णुधर्म्मोत्तरेऽपि “व्रतो-पवासस्नानादौ घटिकैका यदा भवेत् । उदये सातिथिर्ग्राह्या श्राद्धादावस्तगामिनीति” बौधायनोऽपि“आदित्योदयवेलायां याल्पापि च तिथिर्भवेत् । पूर्णाइत्येव मन्तव्या प्रभूता नोदयं विनेति” नन्वस्त्वेवं कृत्स्न-दिवसाभ्यनुज्ञा तथाप्युत्तरविद्धायास्तिथेर्ग्रहणे कियत्-परिमाणमुदये अपेक्षणीयमिति विवेचनीयम् । तत्रबौधायनेनाल्पापीत्यभिधानात् निमेषमात्रं प्रति-भाति तथा व्यासवाक्येऽपि प्रतिभाति “उदयन्नेवे-त्यभिधानात् । भविष्योत्तरपुराणादिवचनेषु घटिका-मात्रं प्रतीयते । वचनान्तरे तु विष्णुधर्मोत्तरबौधा-यनप्रोक्ते घटिकाचतुष्टयं भासते । तथा च पठ्यते“उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ । द्विमुहूर्त्तंत्रिरह्नश्च सा तिथिर्हव्यकव्ययोरिति” । अस्यार्थः ।भानावुदिते सत्य्त्तरकालेऽह्नो मुहूर्त्तद्वयं दैवतम् ।तस्मिंश्चास्तमिते ततः पूर्वकालीनमह्नो मुहूर्त्तत्रयं पितृदैवत्यम् । अतस्तावत्कालव्यापिनी या तिथिर्भवतिसैव क्रमेण हव्यकव्ययोर्ग्राह्या । अत्रोच्यते । पौर्वा-ह्णिकी इति वचनेन दैवे पूर्वाह्णव्याप्त्यभिधानात् ।पूर्वाह्णस्य पञ्चधा विभक्तस्य मुख्यत्वादुदिते भानौत्रिमुहूर्त्ता तिथिर्ग्रहीतव्या । यत्तु दक्षेणीक्तम् । त्रिमु-हूर्त्ता न कर्त्तव्या या तिथिः क्षयगामिणी “द्विमुहू-र्त्तापि कर्त्तव्या या तिथिर्वृद्धिगामिनीति” । तन्न त्रिमु-हूर्त्तव्याप्तेर्वाधकं प्रत्युतोपोद्वलकमेव । तथा हि प्रति-षेधः सर्वत्र प्रसक्तिपूर्वकः प्रसक्तिश्चात्र यथोक्तरीत्यापौर्वाहणिकवाक्यात् त्रिमुहूर्त्तविधायिपठीनसिवाक्याद्वाभवति । तच्च प्रसक्तं त्रिमुहूर्त्तत्वं समतिथौ वाधका-भावात्तथैव व्यवतिष्ठते । तिथिक्षये त्वधिकव्याप्तिविधित्-सया प्रतिषिध्यते । अतस्तत्र चतुर्थमुहूर्त्तस्पर्शिनी तिथिर्ग्राह्या । तिथिसाम्यवत्तिथिवृद्धावपि मुहूर्त्तत्रयमेवमुख्यम् । मुहूर्त्तद्वयं त्वनुकल्पः । अतएवं सूचयितुंद्विमुहूर्त्तापीत्यपिशब्दः पठ्यते ।” अत्राप्येक मुहूर्त्तव्याप्ति-र्निकृष्टेत्यर्थसिद्धम्“द्वितीयादिकयुग्मानां पूज्यता नियमादिषु” व्यासः । अत्रप्रतिसवः । “भगवत्याः प्रवेशादिविसर्गान्ताश्च याः क्रियाः ।रवेरुदयमीक्षन्ते न तत्र तिथियुग्मता” । “युगाद्या वर्ष-वृद्धिश्च सप्तमी पार्वतीप्रिया । रवेरुदयमीक्षन्ते नतत्र तिथियुग्मता” ति० त० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
