| YouTube Channel

तिथिकृत्य (tithikRtya)

 
Shabdartha Kaustubha
Kannada
तिथिकृत्य
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಆಯಾ ತಿಥಿಗಳಲ್ಲಿ ಮಾಡಬೇಕಾದ ಕಾರ್ಯ
व्युत्पत्तिः - > तिथिषु कृत्यम्
वाचस्पत्यम्
Sanskrit
तिथिकृत्य
न०
त० तिथिविहिते कार्य्ये “तिथिकृत्ये चकृष्णादिर्व्रते शुक्लादिरेव विवाहादौ स्मृतः सौरःशेषेषु सावनो मतः” मल० त० तिथिविशेषे कृत्यानिच तिथितत्त्वे कालमाधवीयनिर्णयसिन्धुग्रन्थप्रभृतिनिव-न्धेषु दृश्यानि ।तिथिभेदेषु कृत्याकृत्यानि पी० धा० वसिष्ठोक्तानि यथा“नोद्वाहयात्रोपनयप्रतिष्ठासीमन्तचौलाखिलवास्तुकर्म्म ।गृहप्रवेशाखिलमङ्गलाद्यं कार्य्यं हि मासाद्यतिर्थकदाचित्” मासाद्यतिथौ शुक्लपक्षपतिपदि अतएकृष्णपक्षप्रतिपद्येतानि कर्म्माणि सुखेन भवन्तीत्यर्थःयद्येषोऽभिप्रायोऽसम्मतः स्यात्तदा पक्षाद्यतिथाविति-ब्रूयात् “सप्ताङ्गचिह्नानि नृपस्य वास्तुव्रतप्रतिष्ठाखिल-मङ्गलानि यात्राविवाहाखिलभूषणाद्यं कार्य्यं द्विती-यादिवसे सदैव सङ्गीतविद्याखिलशिल्पकर्म्मसीमन्त-चौलान्नगृहप्रवेशम् कार्य्यं द्वितीयादिवसे यदुक्तं सदागृतीयादिवसेऽपि कार्य्यम् रिक्तासु विद्युद्बधबन्धशस्त्र-विषाग्निघातादि याति सिद्धिम् यन्मङ्गलन्तासु कृतंविमूढैर्विमाशमायाति तदाशु नूनम्” रिक्तासु चतुर्थीन-वमीचतुर्दशीषु १४ “शुभानि कार्य्याणि चरस्थिराणिचोक्तान्यनुक्तान्यपि यानि तानि सिद्धिं प्रयान्त्याशु ऋण-प्रदानं विनाशदं नागतिथौ विधेयम् अभ्यङ्गयात्रा-पितूकर्म्मदन्तकाष्ठं विना पौष्टिकमङ्गलानि षष्ठ्यांविधेयानि रणीपयोग्यशिल्पानि वस्त्वम्बरभूषणानि ।द्वितीयायां तृतीयायां पञ्चम्यां कथितान्यपि तानिसिघ्यन्ति कार्य्याणि सप्तम्यां निखिलान्यपि संग्रामयो-ग्याखिलवास्तुशिल्पनृपप्रमोदाखिललेखनानि स्त्रीरत्न-कार्य्याखिलभूषणानि कार्य्याणि कार्य्याणि महेशति-थ्याम् द्वितीयायां तृतीयायां पञ्चम्यां सप्तमीतिथौ ।उक्तानि यानि सिध्यन्ति दशम्यां तानि सर्वदा व्रतो-पवासाऽखिलधर्मकृत्यं सुणोत्सवाद्याऽखिलवास्तुकर्म्म सं-ग्रामयोग्याखिलवास्तुकर्म्म विश्वे तिथौ सिध्यति शि-ल्पकर्म्म पृथिव्यां यानि कर्म्माणि घर्म्मपुष्टिः शुभानिच चरस्थिराणि द्वादश्यां यात्रां नवगृहं विना ।विधातृगौरीभुजगभान्वन्तकदिनेषु उक्तानि तानि सि-ध्यन्ति त्रयोदश्यां विशेषतः यज्ञक्रियापौष्टिकम-ङ्गलानि संग्रामयोग्याखिलवास्तुकर्म्म उद्वाहशिल्पाऽ-खिलभूषणाद्यं कार्य्यं प्रतिष्ठा खलु पौर्णमास्याम् ।सदैव दर्शे पितृकर्म्ममुक्त्वा नान्यद्विधेयं शुभपौष्टिकाद्यम् ।मूढैः कृतं तत्र शुभोत्सवाद्यं विनाशमायात्यचिराद्भृशंतत्” पी० धा० वसिष्ठवचनम्