तिथिः (tithiH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishतिथिः [tithiḥ], or [अत्-इथिन् पृषो˚ वा ङीप् 4.2]
A lunar day
तिथिरेव तावन्न शउद्ध्यति 5
6.93, 7.1.
The number '15'. -अर्धः, -र्धम् (half the तिथि), a Karaṇa. -ईशः the regent of a lunar day.
क्षयः the day of new moon.
the day on which a tithi begins and ends without one sunrise or between two sunrises. -पत्री an almanac.-पालनम् observance of the rites prescribed for the several lunar days. -प्रणीः (-णिः) the moon
सायंतनीं तिथिप्रण्यः पङ्कजानां दिवातनीम् 5.65. -प्रलयः (pl. ) difference between solar and lunar days in any particular period
Aryabhaṭṭa 3.6. -वृद्धिः the day in which a tithi is completed under two suns (one which comprises two sunrises).
Apte 1890
Englishतिथिः m. or f. [अत्-इथिन् पृषो° वा ङीप् cf. Uṇ. 4. 2] 1 A lunar day
तिथिरेव तावन्न शुद्ध्यति Mu. 5
Ku. 6. 93, 7. 1.
2 The number ‘15’.
Comp.
ईशः the regent of a lunar day.
क्षयः {1} the day of new moon. {2} the day on which a tithi begins and ends without one sunrise or between two sunrises.
पत्री an almanac.
पालनं observance of the rites prescribed for the several lunar days.
प्रणीः the moon.
वृद्धिः f. the day in which a tithi is completed under two suns (one which comprises two sunrises).
Apte Hindi
Hindiतिथिः
- "अत् + इथिन्, पृषो* वा ङीप्"
चान्द्र दिवस्
तिथिः
- -
१५ की संख्या
तिथिः
- "अत्+इथिन्, पृषो*"
चान्द्रदिवस
तिथिः
- "अत्+इथिन्, पृषो*"
पन्द्रह की संख्या
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit तिथिः
चन्द्रकलाक्रियोपलक्षितः कालः।
"प्रतिपत्तः अमावस्यापर्यन्तम् पौर्णिमापर्यन्तं पञ्चदश तिथयः सन्ति।"
दिनाङ्कः, तिथिः
आङ्ग्लमासस्य दिनगणना।
"अहं प्रार्थनापत्रे दिनाङ्कं लेखितुं विस्मृतवान्।"
दिवसः, दिनम्, अहः, द्यु, घस्रः, तिथिः, वस्तोः, भानुः, वासरम्, स्वसराणि, उस्रः
कालविशेषः, (सौरकालगणनायाम्) भानोर् उदयाद् उदयपर्यन्तं कालः, सूर्यकिरणावच्छिन्नकालः, (चान्द्रकालगणनायाम्) चन्द्रमसः उदयाद् उदयपर्यन्तं कालः।
"एकस्मिन् दिने चतुर्विंशति भागाः सन्ति/ कम् अपि मङ्गलं दिवसं निश्चित्य शुभकार्याणि आरम्भणीयानि इति मन्यते/ दिवसस्य अन्ते पक्षिणः स्वनीडं उच्चैः रावैः सह निर्वर्तयन्ति"
वैजयन्तीकोषः
SanskritWord: तिथिः
Root: तिथि
Gender: पुं
Number: all
अर्थः ⇒ चन्द्रकलाक्रियोपलक्षितः कालः
Meaning(s):
⇒ A lunar day
Shloka(s):
2|1|69|2 ► तिथिर्न षण् कर्मवाटी प्रतिपत्त्वेकपक्षतिः॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|69|2 ⇢ तिथिः (तिथि) (पुं) ⇒ A lunar day ⇒ चन्द्रकलाक्रियोपलक्षितः कालः
➠ 2|1|69|2 ⇢ तिथिः (तिथि) (स्त्री) ⇒ A lunar day ⇒ चन्द्रकलाक्रियोपलक्षितः कालः
➠ 2|1|69|2 ⇢ कर्मवाटी (कर्मवाटी) (स्त्री) ⇒ A lunar day ⇒ चन्द्रकलाक्रियोपलक्षितः कालः
Related word(s):
परा_अपरासंबन्धः ➡ रिक्तः
जातिः ➡ कालः
अमरकोशः
SanskritWord: तिथिः
Root: तिथि
Gender: स्त्री
Number: all
Meaning(s):
⇒ date [Com.]
Shloka(s):
1|4|1|2 ► प्रतिपद्द्वे इमे स्त्रीत्वे तदाद्यास्तिथयो द्वयोः॥ (कालवर्गः)
Synonym(s):
➠ 1|4|1|2 ⇢ तिथिः (तिथि) (स्त्री)
➠ 1|4|1|2 ⇢ तिथिः (तिथि) (पुं)
Related word(s):
परा_अपरासंबन्धः ➡ प्रतिपत्तिथिः
जातिः ➡ कालः
शब्दकल्पद्रुमः
Sanskritतिथिः, स्त्री (तनोति विस्तारयति चन्द्रकला-मिति । तन्यते चन्द्रकलयेति वा । तन + बाहु-लकात् इथिन् नादिलोपश्च । तदुक्तं “तन्यन्तेकलया यस्मात् तस्मात् तास्तिथयः स्मृताः ।”इति । यद्बा, अततीति । अत सातत्यगमने +“ऋतन्यञ्जीति ।” उणां । ४ । २ । इथिन् प्रत्य-येन अतिथिरिति सिद्धे बाहुलकात् अलोपः ।इति वर्णविवेकः ।) चन्द्रकलाक्रियारूपा । चन्द्र-कलाक्रियोपलक्षितः काल इति वा । तस्याःस्वरूपं यथा, --“अमादिपौर्णमास्यन्ता या एव शशिनः कलाः ।तिथयस्ताः समाख्याताः षोडशैव वरानने ! ॥
तत्र प्रथमकलाक्रियारूपां प्रतिपत् एवं द्बिती-यादिकलाक्रियारूपा द्वितीयादिः । सा च वृद्धि-रूपा चेत् शुक्ला ह्रासरूपा चेत् कृष्णा ॥
यथा, “तत्र पक्षावुभौ मासे शुक्लकृष्णक्रमेण हि ।चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः ॥
पक्षत्याद्यास्तु तिथयः क्रमात् पञ्चदश स्मृताः ।दर्शान्ताः कृष्णपक्षे ताः पूर्णिमान्ताश्च शुक्लके ॥
गोभिलोक्तामावास्याघटकोपर्य्यधोभावापन्नसम-सूत्रपातन्यायेन राश्येकावच्छेदेन सहावस्थान-युक्तार्कमण्डलाच्चन्द्रमण्डलस्य राशिद्वादशांश-द्वादशांशभोगात्मकनिर्गमरूपवियोगेन शुक्लायाःप्रतिपदादितत्तत्तिथेरुत्पत्तिः । एवं गोभि-लोक्तपौर्णमासीघटकसप्तमराश्यवस्थानरूपपरम-नियोगानन्तरमर्कमण्डलप्रवेशाय चन्द्रमण्डलस्यराशिद्वादशांशद्वादशांशभोगात्मकप्रवेशरूप-सन्निकर्षेण कृष्णायास्तत्तत्तिथेश्चोत्पत्तिरिति ।यथा, --अर्काद्बिनिःसृतः प्राचीं यद्यात्यहरहः शशी ।भागैर्द्बादशभिस्तत् स्यात्तिथिश्चान्द्रमसं दिनम् ॥
त्रिंशांशकस्तथा राशेर्भाग इत्यभिधीयते ।आदित्याद्विप्रकृष्टस्तु भागं द्बादशकं यदा ॥
चन्द्रमाः स्यात्तदा राम तिथिरित्यभिधीयते ॥
* ॥
सा देवकृत्ये पूर्व्वाह्णयुता ग्राह्या । एकादश्युपवासा-तिरिक्तस्थले सर्व्वत्र त्रिसन्ध्यव्यापिनी ग्राह्या ॥
* ॥
अथ प्रतिपत् ।सा च कृष्णा द्वितीयायुता ग्राह्या शुक्ला अमा-वस्यायुता ग्राह्या कृष्णाप्युपवासे द्बितीयायुता नग्राह्या । अत्र तैलाभ्यङ्गं कुष्माण्डभक्षणं क्षौरञ्चन कार्य्यम् ॥
* ॥
अथ द्बितीया ।सा च कृष्णा पूर्व्वयुता शुक्ला परयुता ग्राह्या ।भ्रातृद्बितीया तु अष्टधाविभक्तदिनपञ्चमांशयुतायाह्या उभयदिने तल्लाभे परयुता ग्राह्या । तत्रबृहतीभक्षणं न कार्य्यम् ॥
* ॥
अथ तृतीया ।सा च रम्भाव्रतेतरदेवकार्य्येषु चतुर्थीयुता ग्राह्यारम्भाव्रते तु द्बितीयायुता । तत्र मांसभक्षणंपटोलभक्षणञ्च न कार्य्यम् ॥
* ॥
अथ चतुर्थी ।सा च पञ्चमीयुता ग्राह्या । विनायकव्रतेतृतीयायुता ग्राह्या । मङ्गलवारे शुक्ला चतुर्थीअक्षया । अत्र मूलकभक्षणं क्षोरं प्रदोषेअध्ययनञ्च न कार्य्यम् । भाद्रमासे चतुर्थ्यांचन्द्रो न द्रष्टव्यः । प्रमादाद्दृष्ट्वा, --सिंहः प्रसेनमवधीत् सिंहो जाम्बवता हतः ।सुकुमारक ! मा रोदीस्तव ह्येष स्य मन्तकः ॥
अनेन मन्त्रेणाभिमन्त्रितं जलं पेयं आचारात्स्यमन्तकोपाख्यानञ्च श्रोतव्यम् ॥
* ॥
अथ पञ्चमी ।सा च चतुर्थीयुता ग्राह्या अत्र विल्वं न भोक्त-व्यम् ॥
* ॥
अथ षष्ठी ।सा सप्तमीयुता ग्राह्या । स्कन्दषष्ठी तु पञ्चमी-युता ग्राह्या अस्यां शिरोऽभ्यङ्गो निम्बभक्षणञ्चन कर्त्तव्यम् ॥
* ॥
अथ सप्तमी ।सा षष्ठीयुता ग्राह्या तत्र तालं न भक्षयेत् ।शुक्लपक्षस्य सप्तम्यां यदि रविवारो भवेत् साविजया सप्तमी । माघमासस्य शुक्लसप्तम्यां दिवा-करा रथमापुः तस्मात् सा रथसप्तमी ॥
सामन्वादिश्च । तस्यां अध्ययनं न कर्त्तव्यम् ॥
* ॥
अथाष्टमी ।सा शुक्ला नवमीयुता ग्राह्या कृष्णा सप्तमीयुता ।तत्राध्ययनं नारिकेलभक्षणञ्च न कर्त्तव्यम् ॥
शनिवारे अथवा मङ्गलवारे कृष्णाष्टमी पुण्य-तरा । बृहस्पतिवारे शुक्लाष्टमी अक्षया ।दूर्व्वाष्टमी पूर्व्वविद्धा ग्राह्या । जन्माष्टमीव्यवस्थातच्छब्दे द्रष्टव्या ॥
* ॥
अथ नवमी ।सा चाष्टमीयुता ग्राह्या । तत्रालावुभक्षणं नकर्त्तव्यम् । माघस्य शुक्ला नवमी महानन्दा ।रामनवमीव्यवस्था तच्छब्दे द्रष्टव्या ॥
* ॥
अथ दशमी ।सा च शुक्ला एकादश्या कृष्णा तु नवम्या युताग्राह्या । अत्र कलम्बीभक्षणं न कर्त्तव्यम् ॥
* ॥
एकादशीव्यवस्था श्रीविष्णोः शयनव्यवस्था चतत्तच्छब्दे द्रष्टव्या ॥
* ॥
अथ द्वादशी ।सा च एकादशीयुता ग्राह्या । अत्र पूतिका-भक्षणं न कर्त्तव्यम् । फाल्गुनस्य शुक्ला द्बादशीपुष्यनक्षत्रयुक्ता चेत् गोविन्दद्वादशी ॥
* ॥
अथ त्रयोदशी ।सा च शुक्ला द्वादशीयुता कृष्णा परयुता ग्राह्या ।अत्र वार्त्ताकीभक्षणं न कर्त्तव्यम् ॥
* ॥
अथ चतुर्द्दशी ।सा शुक्ला पूर्णिमायुता कृष्णा त्रयीदशीयुताग्राह्या । तत्र माषो न भोक्तव्यः । ज्यैष्ठकृष्ण-चतुर्द्दश्यां प्रदोषे सावित्रीव्रतं कर्त्तव्यम् । तत्रयदा त्रयोदशी दिवाभागे दण्डद्बयमात्रसत्त्वे-ऽपि चतुर्द्दशी भवेत् तद्दिने व्रतं कर्त्तव्यम् ।पूर्व्वाहे तद्विधत्वेऽपि पराहे त्रिसन्ध्यव्यापित्वेपराह एव । यदा तु पूर्व्वापरयोर्न तथाविधातदापि पराह एव । भाद्रे मासि कृष्णा चतु-र्द्दशी अघोरा । माघे कृष्णा चतुर्द्दशी रटन्ती ।शिवरात्रिव्यवस्था तच्छब्दे द्रष्ठव्या ॥
* ॥
अथ पौर्णमासी ।तत्र मांसं न भोक्तव्यम् । सा च चतुर्द्दशीयुताग्राह्या । सा तु मासर्क्षयुता चेत् तदा महती ।कार्त्तिकमासे कृत्तिकानक्षत्रयुता पौर्णमासीमहाकार्त्तिकी एवमन्यत्रापि । महाज्यैष्ठी-व्यवस्था तच्छब्दे द्रष्टव्या । कोजागरव्यवस्थातच्छब्दे द्रष्टव्या ॥
* ॥
अथामावस्या ।अत्र मांसं न भोक्तव्यम् । सा प्रतिपद्युताग्राह्या । मङ्गलवारे यदि अमावस्या भवेत्तदा अरुणोदयमारभ्य मौनी भूत्वा यो गङ्गायांस्नायात् स सहस्रगोदानजन्यफलमाप्नुयात् ।अमावस्याश्राद्धव्यवस्था श्राद्धशब्दे द्रष्टव्या ।पौषमाघयोरमावास्या यदि दिवारविवार-व्यतीपात-श्रवणनक्षत्रयुक्ता भवति तदा अर्द्धो-दययोगः स्यात् । अयं कोटिसूर्य्यग्रहतुल्यः अत्रतावज्जलं गङ्गोदकतुल्यं यत्किञ्चिद्दानं सेतु-सन्निभञ्च भवति । इति तिथ्यादितत्त्वम् ॥
तिथि-कृत्यं मासशब्दे द्रष्टव्यम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
