| YouTube Channel

तिका (tikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“कृती वेष्टने”@} 2 ‘कृणत्ति कृन्ततीत्येते वेष्टने च्छेदने क्रमात्।
कीर्तयेदिति संशब्दे--’ 3 इति देवः।
कर्तकः-र्तिका, कर्तकः-र्तिका, चिकृत्सकः-चिकर्तिषकः-षिका, चरीकृतकः- तिका
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककृतीधातुवत् 4 ज्ञेयानि।
शतरि कृन्तन्-ती, ‘रुधादिभ्यः श्नम्’ 5 इति श्नमि, ‘श्नसोरल्लोपः’ 6 इत्यल्लोपः, इति विशेषः।
प्रासङ्गिक्यः
01
=>
(२४९)
02
=>
(७-रुधादिः-१४४७। सक। सेट्। पर।)
03
=>
(श्लो। ९५)
04
=>
(२४८)
05
=>
(३-१-७८)
06
=>
(६-४-१११)
1 {@“युतृ भासने”@} 2 योतकः-तिका, योतकः-तिका, युयोतिषकः-युयुतिषकः-षिका, योयुतकः- तिका
योतिता-त्री, योतयिता-त्री, युयोतिषिता-युयुतिषिता-त्री, योयुतिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककोकतिवत् 3 ज्ञेयानि।
4 वियोयुतत् 5 -ती।
प्रासङ्गिक्यः
01
=>
(१३५३)
02
=>
(१-भ्वादिः-३१। अक। सेट्। आत्म।)
03
=>
(१९७)
04
=>
[[२। यङ्लुगन्ताच्छतरि रूपमेवम्। यङ्लुक्यपि द्विर्वचने कृते अभ्यासे गुणः। ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्रिषेधः।]]
05
=>
[[B। ‘पृदाकुजित् वेगमयत्नतो ययौ वियोयुतत्काननजोतिनाऽध्वना।।’ धा। का। १। ५।]]