| YouTube Channel

तालः (tAlaH)

 
Apte
English
तालः [tālḥ], [तल् एव अण्]
The palmyra tree,
Bhāg.*
8.2.12
विधिवशात्तालस्य मूलं गतः
Bh.*
2.9
R.*
15.23.
A banner formed of the palm.
Slapping or clapping the hands together, the noise made by it
तलतालांश्च वादयन्
Mb.
* 3.178.17
Māl.
5.23.
Flapping in general
विस्तारितः कुञ्जरकर्णतालैः
R.*
7.39.
Flapping of the ears of an elephant.
Beating time (in music)
करकिसलयतालैर्मुग्धया नर्त्यमानम्
U.*
3.1
Me.*
81.
A musical instrument made of bell-metal,
Bhāg.*
8.15.21
उषसि गजयूथकर्णतालैः पटुपटहध्वनिभिर्विनीतनिद्रः
R.*
9.71.
The palm of the hand.
A lock, bolt.
The hilt of a sword.
An epithet of Śiva.
(In prosody) A trochee.
A particular measure of height
Rām.*
6.
A short span
a span measured by the thumb and the middle finger.
A dance
S. D.* 6.
लम् The nut of the palmyra tree.
Yellow orpiment.
Comp.
अङ्कः
N.
of Balarāma
तालाङ्को मुसली हली Ak. ततः शिवमहीपालस्तालाङ्कानुज- बुद्धिमान् Parṇāl.5.47.
the plam-leaf used for writing.
a book.
a saw.
N.
of Śiva.
a man endowed with every fortunate mark or sign. -अव (प) चरः a dancer, an actor
Rām.*
2.3.17.-केतुः an epithet of Bhīṣma. -क्षीरकम्, -गर्भः the exudation of the palm
toddy. -जटा -प्रलम्बः the fibres of the palm tree (Mar. काथ्या). -ज्ञ
a.
knowing the measure (in music)
Y.*
3.115. -धारकः a dancer.-ध्वजः, -भृत्
m.
an epithet of Balarāma. -नवमी The 9th day of the bright half of भाद्रपद.
पत्रम् the palmleaf used for writing.
a kind of ear-ornament (hollow cylinder of gold thrust through the lobe of the ear). -पत्री
f.
A widow
L.
D. B. -फलम् the fruit of the plam tree
तालफलादपि गुरुमतिसरसम् किं विफलीकुरुषे कुचकल- शम्
Gīt.*
9.2. -बद्ध, -शुद्ध
a.
measured, rhythmical, regulated by musical time. -भङ्गः The loss of the measure (in music). -मर्दलः a kind of musical instrument, a cymbal.
यन्त्रम् a kind of surgical instrument.
a lock, a lock and key. -रेचनकः a dancer, an actor. -लक्षणः an epithet of Balarāma. -वनम् a grove of trees. -वृन्तम् a fan
Ś.*
3.21
Ku.*
2.35
तालवृन्तेन किं कार्यं लब्धे मलयमारुते Udb. also तालवृन्तकः.
Apte 1890
English
तालः [तल् एव अण्] 1 The palmyra tree
Bh. 2. 90
R. 15. 23.
2 A banner formed of the palm.
3 Slapping or clapping the hands together, the noise made by it
Māl. 5. 23.
4 Flapping in general.
5 Flapping of the ears of an elephant.
6 Beating time (in music)
करकिसलयतालैर्मुग्धया नर्त्यमानं U. 3. 10
Me. 79.
7 A musical instrument made of bell-metal
R. 9. 71.
8 The palm of the hand.
9 A lock, bolt.
10 The hilt of a sword.
11 An epithet of Śiva.
12 (In prosody) A trochee.
13 A particular measure of height.
14 A short span.
लं 1 The nut of the palmyra tree.
2 Yellow orpiment.
Comp.
अंकः {1} N. of Balarāma. {2} the palm-leaf used for writing. {3} a book. {4} a saw. {5} N. of Śiva. {6} a man endowed with every fortunate mark or sign.
अवचरः a dancer, an actor.
केतुः an epithet of Bhīṣma.
क्षीरकं,
गर्भः the exudation of the palm.
जटा,
प्रलंबः the fibres of the palm tree.
ध्वजः,
भृत् m. an epithet of Balarāma.
पत्रं {1} the palm-leaf used for writing. {2} a kind of ear-ornament (hollow cylinder of gold thrust through the lobe of the ear).
बद्ध,
शुद्ध a. measured, rhythmical, regulated by musical time.
मर्दलः a kind of musical instrument, a cymbal.
यंत्रं {1} a kind of surgical instrument. {2} a lock, a lock and key.
रेचनकः a dancer, an actor.
लक्षणः an epithet of Balarāma.
वनं a grove of trees.
वृंतं a fan
Ś. 3. 21, Ku. 2. 35
also तालवृंतकः.
Hindi
Hindi
ताला (पु)
Apte Hindi
Hindi
तालः
पुं*
- तल + अण्
ताड का वृक्ष
तालः
पुं*
- -
ताड का बना हुआ झण्डा
तालः
पुं*
- -
तालियाँ बजाना
तालः
पुं*
- -
फटफटाना
तालः
पुं*
- -
हाथी के कानों का फड़फड़ाना
तालः
पुं*
- -
"टेक देना, नियत मात्राओं पर ताली बजाना"
तालः
पुं*
- -
कांसे का बना एक वाद्ययन्त्र
तालः
पुं*
- -
हथेली
तालः
पुं*
- -
"ताला, कुण्डी"
तालः
पुं*
- -
तलवार की मूठ
तालः
पुं*
- तल्+अण्
ताड़ का वृक्ष
तालः
पुं*
- तल्+अण्
तालियाँ बजाना
तालः
पुं*
- तल्+अण्
फट-फट करना
तालः
पुं*
- तल्+अण्
हाथ की हथेली
तालः
पुं*
- तल्+अण्
तलवार की मूठ
तालः
पुं*
- तल्+अण्
"ताला, चटखनी"
Wordnet
Sanskrit
Synonyms:
वारङ्गः, त्सरुः, तालः
noun
खड्गस्य मुष्टिः।
"अस्य खड्गस्य वारङ्गः खण्डितः।"
Synonyms:
तालः
noun
कालस्य एकद्वित्रिमात्राद्युच्चारणनियमितस्य क्रियायाः परिस्यन्दात्मिकायाः परिच्छेदहेतुस्तालः
सङ्गीते तालस्य मात्रायाः विशेष्यत्वेन लक्ष्यते।"/ "गौरीहरयोर्नृत्येन तालो बभूवः"[श.क]"
Synonyms:
केका, केकाबलः, केकी, तालः, नेमिः, शिखण्डी
noun
मयूरवाणी।
"मयूरस्य केकां श्रुत्वा मयुर्यः संम्मिलिताः।"
Synonyms:
तालः
noun
कालेन नर्तनगानवादनादिक्रियाणां मानम्।
"नर्तकी वादकाय नृत्यस्य तालं पाठयति।"
Synonyms:
तालः, तालद्रुमः, पत्री, दीर्घस्कन्धः, ध्वजद्रुमः, वृक्षराजः, मधुरसः, मदाढ्यः, दीर्घपादपः, चिरायुः, तरुराजः, दीर्घपत्रः, गुच्छपत्रः, आसवद्रुः, लेख्यपत्रः, महोन्नतः
noun
स्थाणुवत् शाखाविहीनः दीर्घपर्णयुक्तः वृक्षः।
"सः तालात् तालजतरुणतोयम् उद्गृह्णाति।"
Synonyms:
तालः, करर्द्धिः
noun
सङ्गीते तालवाद्यप्रकारः यस्य द्वयोः पुटकयोः आघातेन नादं कुर्वन्ति।
"मन्दिरे तालं वादयति।"
Synonyms:
तालयन्त्रम्, तालकम्, तालः, अर्गलम्, वितण्डः, द्वारकीलः
noun
धातुनिर्मितं द्वारयन्त्रम्।
"कुञ्चिकायाः अलाभात् मया सन्दुकं भिद्यते।"
Synonyms:
तालः
noun
एका जातिः
"तालस्य उल्लेखः बृहत्संहितायां वर्तते"
Synonyms:
तालः
noun
एकः नरकः
"तालस्य उल्लेखः विष्णुपुराणे वर्तते"
Tamil
Tamil
தால: : பனை மரம், கை கொட்டுதல், தாளம் போடுதல், ஜால்ரா, உள்ளங்கை, பூட்டு, தாழ்ப்பாள், வாளின் கைப்பிடி.
अमरकोशः
Sanskrit
Word: तालः
Root: ताल
Gender: पुं
Number: all
Meaning(s):
lock
bolt
ziva
dance
melody
cymbal
rhythm
trochee
palm tree
goldsmith
palmyra tree
hilt of a sword
cadence [music]
made of palmyra wood
musical time or measure
palmyra tree or fan-palm
flapping of an elephant's ears
span measured by the thumb and middle finger
slapping the hands together or against one's arm
Shloka(s):
1|7|9|2 तालः कालक्रियामानं लयः साम्यमथास्त्रियाम्॥ (नाट्यवर्गः)
Synonym(s):
1|7|9|2 तालः (ताल) (पुं) lock, bolt, ziva, dance, melody, cymbal, rhythm, trochee, palm tree, goldsmith, palmyra tree, hilt of a sword, cadence [music], made of palmyra wood, musical time or measure, palmyra tree or fan-palm, flapping of an elephant's ears, span measured by the thumb and middle finger, slapping the hands together or against one's arm
1|7|9|2 कालक्रियामानम् (कालक्रियामान) (नपुं)
Related word(s):
परा_अपरासंबन्धः तालभेदः
जातिः ध्वन्यात्मकः
शब्दकल्पद्रुमः
Sanskrit
तालः,
पुं,
(तलत्यत्र तल + “हलञ्च ।” १२२ ।इति घञ् ।) वृक्षविशेषः तत्पर्य्यायः ताल-द्रुमः पत्री दीर्घस्कन्धः ध्वजद्रुमः तृण-राजः मधुरसः मदाढ्यः दीर्घपादपः ९चिरायुः १० तरुराजः ११ दीर्घपत्रः १२ गुच्छ-पत्रः १३ आसवद्रुः १४ इति राजनिर्घण्टः
लेख्यपत्रः १५ महोन्नतः १६ इति भाव-प्रकाशः
अस्य गुणाः मधुरत्वम् शीत-त्वम् पित्तदाहश्रमापहत्वञ्च
*
अस्यरसगुणः कफपित्तदाहशोफनाशित्वम् मद-कारित्वञ्च
*
तत्फलगुणाः शीतलत्वम् ।बल्यत्वम् स्निग्धत्वम् स्वादुरसत्वम् गुरु-त्वम् विष्टम्भित्वम् वातपित्तास्रक्षतदाहक्षय-नाशित्वञ्च इति राजनिर्घण्टः
पित्तरक्त-श्लेष्मविवर्द्धनत्वम् दुर्ज्जरत्वम् बहुमूत्रत्वम् ।तन्द्राभिष्यन्दिशुक्रदातृत्वञ्च इति भावप्रकाशः
वातकृमिकुष्ठरक्तपित्तनाशित्वम् बृंहणत्वम् ।वृष्यत्वम् स्वादुत्वञ्च इति राजवल्लभः
*
तद्वीजस्य अर्थात् तालशस्यस्य गुणाः मूत्र-करत्वम् मिष्टत्वम् वातपित्तहरत्वम् गुरु-त्वञ्च
*
तदस्थिमज्जगुणाः मधुरत्वम् ।मूत्रलत्वम् शीतलत्वम् गुरुत्वञ्च
*
तालाम्बुगुणाः पित्तनाशित्वम् शुक्रस्तन्य-वृद्धिकारित्वम् गुरुत्वञ्च इति राजनिर्घण्टः
तालजतरुणतोयगुणः अतिशयमदकारित्वम् ।तदेवाम्लीभूतं पित्तवातदोषकृत् इति भाव-प्रकाशः
कफकृमिहरत्वम् रुच्यत्वम् वात-लत्वम् दुर्ज्जरत्वञ्च इति राजवल्लभः
*
तालप्रलम्बगुणः रूक्षत्वम् क्षतरोगनाशि-त्वञ्च इति राजनिर्घण्टः
*
तालतरुण-मज्जगुणाः किञ्चिन्मदकरत्वम् लघुत्वम् ।श्लेष्मकारित्वम् वातपित्तनाशित्वम् सस्नेह-त्वम् मधुरत्वम् सारकत्वञ्च इति भाव-प्रकाशः
*
तालशिरोगुणाः स्वादुत्वम् ।तिक्तत्वम् कषायत्वम् मूत्रातङ्करोगनाशि-त्वम् बलप्राणशुक्रवृद्धिकारित्वञ्च इति ।राजवल्लभः
*
गीतकालक्रियामानम् अयं स्वर इयत् कालंगेयः इयत् कालं विलम्बितं इयत् कालं द्रतंइयत् कालं मध्यमिति बोधयितुं ईदृशै-र्हस्तैरङ्गुल्याकुञ्चन प्रसारणादिक्रियाभिर्नर्त्तितव्यंगातव्यञ्चेति कालक्रिययोः प्रमाणं तालः
साञ्जेइदमियत् कालं गेयमिति कालेनाङ्गुल्याद्याकुञ्च-नादिक्रियामानं ताल इति
कालस्य एकद्वि-त्रिमात्राद्युच्चारणनियमितस्य क्रियायाः परि-स्पन्दात्मिकायाः परिच्छेदहेतुस्ताल इति मधुः
कालेन नर्त्तनगलवादनक्रियाणां मानं तालः ।तारादेककालमेषां विरामस्ताल इत्यन्ये इत्य-मरटीकायां भरतः
*
तस्योत्पत्तिर्यथा ।गौरीहरयोर्नृत्येन तालो ब्रभूव तस्य कार-णम् क्रियाकालश्च हरनृत्यस्य ताण्डवं गौर्य्यनृत्यस्य लास्यं इति संज्ञा अर्थात् पुरुषनृत्यस्यताण्डवं नार्य्या नृत्यस्य लास्यमिति नाम ।ताण्डवस्याद्याक्षरेण लास्यस्याद्याक्षरेण चमिलित्वा ताल इति संज्ञा जाता इतिसङ्गीतशास्त्रम्
*
तस्य भेदा यथा, --“चच्चत्पुट श्चाचपुटः षट्पितापुत्त्रकस्तथा ।उद्घट्टकः सन्निपातः कङ्कणः कोकिलारवः
राजकोलाहलो रङ्गविद्याधर शचीप्रियौ १० ।पार्व्वतीलोचनो ११ राजचूडामणि १२ जय-श्रियौ १३
वादकाकुल १४ कन्दर्प १५ नलकूवर १६ दर्पणाः १७ ।रतिलीलो १८ मोक्षपतिः १९ श्रीरङ्गः २० सिंह-विक्रमः २१
दीपको २२ मल्लिकामोदो २३ गजलीलश्च २४चर्च्चरी २५ ।कुहक्को २६ विजयानन्दो २७ वीरविक्रम २८टेङ्किके २९
रङ्गाभरण ३० श्रीकीर्त्ति ३१ वनमालि ३२ चतु-र्म्मुखाः ३३ ।सिंहनन्दन ३४ नन्दीश ३५ चन्द्रविम्ब ३६ द्बिती-यकाः ३७
जयमङ्गल ३८ गन्धर्व्व ३९ मकरन्द ४० त्रिभ-ङ्गयः ४१ ।रतितालो ४२ वसन्तश्च ४३ जगझम्पो ४४ ऽथगारुणिः ४५
कविशेखर ४६ घोषौ ४७ हरवल्लभ ४८भैरवौ ४९ ।गतप्रत्यागतो ५० मल्लतालो ५१ भैरवमस्तकः ५२
सरस्वतीकण्ठाभरणः ५३ क्रीडा ५४ निःसारु-रेव ५५ ।मुक्तावली ५६ रङ्गराज ५७ भरतानन्दा ५८दितालकाः ५९
सम्पक्वेष्टाक ६० इत्यादि ताला भरतसंमताः ।संक्षेपतो निगदिता अथैषां लक्षणं यथा
*
अर्द्धमात्रं द्रुतं ज्ञेयमेकमात्रं लघु स्मृतम् ।द्बिमात्रन्तु गुरु ज्ञेयं त्रिमात्रन्तु प्लुतं मतम्
ताले चच्चत्पुटे ज्ञेयं गुरुद्बन्द्बं लघुः प्लुतः ।गुरुर्लघुः प्लुतश्चैव भवेच्चाचपुटाभिधे
गलगालगलाश्चैव षट्पितापुत्त्रके मताः ।उद्घट्टके तु गमनाः सन्निपाते गुरुर्म्मतः
चतुर्व्विधः परिज्ञेयस्तालः कङ्कणनामकः ।पूर्णः खण्डः समश्चैव विषमश्चैव कथ्यते
लचतुष्क गलौ पूर्णे खण्डे बिन्दुद्वयं गुरुः ।यगणस्तु समे ज्ञेयस्तगणो विषमे भवेत्
खचतुष्कं सयत्यन्तं गुरुर्बिन्दुचतुष्टयम् ।सयत्यन्तं लघुश्चैव तालोऽयं कोकिलारवः
लचतुष्कं सयत्यन्तं खत्रयं खत्रयं लघुः ।लघुर्बिन्दुद्बयञ्चेति राजकोलाहलाभिधे
खद्वयं द्वौ प्लुतौ यत्र रङ्गविद्याधरः तु ।लघूनि त्रीणि यत्र स्युर्गुरूणि त्रीणि यत्र वै
प्लुतद्वयञ्च यत्रास्ति तालः स्याच्छचीप्रियः
१०
खद्वयं गुरुलौ बिन्दुर्गौ प्लुतौ गौ प्लुतौ पुनः ।यत्र तालः विज्ञेयः पार्व्वतीलोचनाभिधः
११
राजचूडामणौ बिन्दुर्लश्च बिन्दुर्लगौ मतौ
१२
रगणो नो गुरुश्चैव जयश्रीरिति कथ्यते
१३
प्लुतौ लघुचतुष्कञ्च मौ नौ द्रुतयुगं लघुः ।लचतुष्कंविना शब्दं तालः स्याद्वादकाकुलः
१४
द्रुतद्वयं यकारश्च कन्दर्पेपि प्रकीर्त्तितः
१५
चत्वारो गुरवो यत्र चत्वारः प्लुतका अपि ।लघ्वक्षराणि चत्वारि तालोऽयं नलकूवरः
१६
बिन्धुद्बयं गुरुश्चैव भवेद्यत्र दर्पणः
१७
रतिलीले विधातव्यं लघुद्वन्द्वं गुरुद्वयम्
१८
आदौ षोडशगुरवो द्वात्रिंशल्लघवस्ततः ।चतुःषष्टिर्द्रुता यत्र सोऽयं मोक्षपतिर्मतः
१९
श्रीरङ्गसंज्ञके ताले मगणाल्लघुप्लुतौ मतौ
२०
सिंहविक्रमताले तु मगणो नखगाः खगौ
२१
प्लुतो लघुः प्लुतश्चैव ताले दीपकनामनि
२२
ताले स्यान्मल्लिकामोदे लद्बयं खचतुष्टयम्
२३
लचतुष्कं विरामान्तं गजलीले प्रकीर्त्तितम्
२४
अष्टकृत्वस्तु चर्च्चर्य्यां विरामान्ते द्रुतौ लघुः
२५
द्रुतद्वन्द्वं भवेत्ताले कुहक्काख्ये लघुद्बयम्
२६
भवेयुर्विजयानन्दे लत्रयञ्च लघुत्रयम्
२७
वीरविक्रमताले तु द्रुतौ लगौ ततः प्लुतः
२८
टेङ्किका रगणेन स्यादेकेनैव कृतास्पदे
२९
भगणो गप्लुतौ स्यातां रङ्गाभरणनामके
३०
श्रीकीर्त्तिसंज्ञके ताले गुरुद्वन्द्वं लघुद्वयम्
३१
चतुर्द्रुता लघू द्बौ तु द्रुतो गो वनमालिनि
३२
चतुर्मुखाभिधे ताले यगणानन्तरं प्लुतः
३३
भगणः प्लुतो लगौ बिन्दुद्बयं गौ नः प्लुतस्तथा ।लघुः प्लुतो द्रुतश्चैको लघुद्बयमथापि
निःशब्दं लचतुस्कञ्च ताले स्यात् सिंहनन्दने
३४ ।गो लघुर्गौ लघुः प्लुतस्ताले नन्दीश्वरे मताः
३५
गो द्रुतौ नौ प्लुतद्बन्द्बं चन्द्रविम्बे प्रकीर्त्तितम्
३६
द्रुतद्बन्द्बं लघुश्चैकस्ताले स्यात्तु द्बितीयके
३७
सकारश्च यकारश्च जयमङ्गलनामनि
३८
चत्वारो गुरवो बिन्दूश्चत्वारश्च प्लुता अपि ।बिन्दवो दशषट् लाश्च ताले गन्धर्व्वसंज्ञके
३९
मकरन्दे द्रुतद्वन्द्वं लघुद्वन्द्वमथो गुरुः
४०
गुरुर्लघुः प्लुतश्चैव त्रिभङ्गिः परिकीर्त्तितः
४१
अत्र रतितालस्य लक्षणं पतितम्
४२
वसन्तताले कर्त्तव्यो नगणो मगनस्तथा
४३
जगझम्पे गुरुश्चैको विरामान्तञ्च खद्वयम्
४४
गप्लुतौ लौ द्रुतौ लश्च प्लुतो गारुणि ४५ ।शेखरे
४६
प्लुतः शून्ये नगौ लश्च खद्बयञ्च ततो लघुः
खचतुष्कं विना शब्दं यत्र घोषः उच्यते ४७ ।हरवल्लभताले प्लुतो लो गौ खद्वम्
४८
भगणः प्लुतौ गनौ गयौ प्लुतो लघुश्च भैरवे ४९ ।गतप्रत्यागते ताले लो मौ गौ नौ प्रकीर्त्तितौ
५०
चतुर्लघुर्मल्लताले विरामान्तं द्रुतद्वयम् ।लगौ गौ नो नगौ गश्च खद्बयं लद्बयं पुनः
५१
नचतुष्कं विना शब्दं ताले भैरवमस्तके ५२ ।सरस्वतीकण्ठाभरणे गौ लघुश्च द्रुतद्बयम्
५३
एक एव प्लुतो यत्र क्रीडातालः उच्यते
५४
द्रुतद्वयं विरामान्तं ताले निःसारुके मतम् ५५ ।खत्रयं सविरामान्तं नौ पुनः खत्रयन्तथा
प्लुतौ गः खयुगं गश्च यत्र मुक्तावली तु सां ५६ ।लगौ बिन्दुयुगं गौ लो रङ्गराजे प्रकीर्त्तितः
५७
खद्वयं सविरामान्तं गुरुः प्लुतद्बयं लघुः ।यत्र ताले विज्ञेयो भरतानन्दसंज्ञकः
५८
आदिताले लगुश्चैक इत्याह भरतो मुनिः ५९ ।मगणश्च प्लुताद्यन्तः संपक्वेष्टाकतालके
६०
एकाघिकशते ताले षष्टिर्मुख्यतमा इमे
*
अथ प्रस्तारः ।“गुरुः प्लुताधोभागे तु गुर्व्वधोभागतो लघुः ।द्रुतं लघोरधोभागे तुल्ये तुल्या तु पङ्क्तिका
उद्धृत्ता कला पश्चादित्थं प्रस्तारणक्रमः ।सर्व्वप्लु तात् समारभ्य मात्रानिवहनिर्म्मितात्
तावत् प्रस्तारयेदन्ते यावत् सर्व्वं द्रुतं भवेत्
”अत्र तालप्रस्तारे पिङ्गलवन्नष्टोद्दिष्टमेरुपताका-दयः सन्ति बाहुल्यभयान्नोक्ताः
*
अथ प्लुतादिमात्राभेदेन तालघातनम् ।“ताले निष्टातहस्तः प्लुतमनुघटयेद्घातमेकंसशब्दंतत्पश्चात् द्वौ घातौ निनदविरहितौ दर्शयेदूर्द्धतोऽधः ।शून्यत्वात् फक्वतालाविति जगति पुनः सूत्रसिद्धौसनन्दा-वित्थं घातत्रयं तत् त्रिकलतनुवहिर्वर्द्धयेद्दुर्ल-कारम्
एको घातः सशब्दो द्विकल इह गुरौ शब्दहीन-स्तथान्यःसोऽप्यूर्द्ध्वं याति लीलावलयवलयितोत्तान-हस्ताङ्गुलीभिः ।किञ्चोच्चैकैकमात्रा समुदयिनि लधौ घात एकोनिनादीघात्यो मात्रार्द्धभाजि द्रुतवपुषि लधोरर्द्धनादेनघातः
इति तालघातनप्रकारः
*
श्रीरङ्गो मणिबन्धकङ्कणवहो मुक्तावलीमण्डनःक्रीडाहेतुवसन्तरक्तहृदयो गन्धर्व्वलीलारतः ।साक्षान्मोक्षपतिश्चतुर्मुखनतो यो राजचूडामणिःसोऽयं तालमयस्तृणेढुतृणवत् संसारबन्धं हरिः
अपि ।नन्दीशोऽर्द्धतनुर्मुखेन वनतस्तच्चन्द्रविम्बोदयःकन्दर्पो नलकूवरश्च तुलितौ यस्यातिरूपे तुले ।कण्ठान्तः किल कोकिलारवभवो बाहौ जय-श्रीरहोतालात्मा मुरजिच्छिनत्तु सगुणः संसारपाशा-वलीम्
ख्यातो यः कविचक्रवर्त्तिपदतो विद्याचनैरञ्चितःसौभद्रेयमिमं यमर्ज्जुनयशाः सोऽजीजनत्श्रीधरः ।तस्य श्रीलशुभङ्करस्य भणितौ भङ्गीतदामोदरेतालाद्यः स्तवकोच्युतस्तवकृतौ यातस्तृतीयःपटुः
*
अन्यच्च ।“आदावष्टस्तथा रुद्रो ब्रह्म इन्द्रश्चतुर्द्दशः ।दशावतारबन्धादि नृत्यनाट्यं ततः परम्
अथाष्टतालभेदाः आडः दोजः ज्योतिः ३चन्द्रशेखरः गञ्जनम् पञ्चतालः रूप-कम् समतालः
अथ रुद्रतालस्य भेदाः ।वीरविक्रमः विषमसमुद्रः धरणम् वीर-दशकः मण्डूकः कन्दर्पः डाँशपाहिडः ७ध्रुवचरणम् दशकोषी गजेन्द्रगुरुः १०छटका ११ अथ ब्रह्मतालभेदाः ब्रह्म विराम-ब्रह्म षट्कला सप्तमात्रा
अथेन्द्रताल-भेदाः देवसारः देवचाली मदनदोला ३गुरुगन्धर्व्वः पञ्चाली इन्द्रभाषः
अथ चतुर्द्दशतालभेदाः चिह्नतालः चन्द्र-मात्रा देवमात्रा अर्द्धज्योतिका स्वर्ग-सारः क्षमाष्टः धराधरा वसन्तवाक् ८काककला कीरशब्दा १० ताण्डवी ११ हर्ष-घारिका १२ भाषा १३ अर्द्धमात्रा १४
तेषां लक्षणानि यथा, --एकतालस्ततः शून्यं युगलं तालिका परे ।सङ्गीतः प्रथमः सार आडतालः प्रकीर्त्तितः
एकतालञ्च शून्यञ्च क्रमेणापि त्रिधा भवेत् ।शेषशून्यं कलाभेदे दोजाख्यश्च भवेत् पृथक्
प्रथमं युगलं तालं एक एकस्तथापरे ।कलाभेदे गानभेदं ज्योतिश्च परिकीर्त्तितम्
चन्द्रश्चन्द्रस्तथा युग्मं तथा चन्द्रस्तथापरे ।षट् ताला निभवन्त्येवं चन्द्रशेखरभाषितः
एकतालो भवेच्छ्रेष्ठः क्रमेणापि चतुष्टयम् ।शेषशून्यं गञ्जनञ्च सर्व्वतो मुनिभाषितम्
प्रथमं युगलञ्चैव तत्परं तालमेककम् ।शेषे युग्मं तथा शून्यं पञ्चतालं प्रकीर्त्तितम्
युगलं प्रथमं तालं तत्परन्त्वेकशून्यकम् ।शेषे युगलं तालं रूपकं परिकीर्त्तितम्
एकतालं तथा शून्यं क्रमेण द्विविधं भवेत् ।शेषे युगलतालञ्च समतालं भवेत् परम्
एकतालं तथा शून्यं क्रमेण त्रिविधं भवेत् ।तत्परं युगलं तालमित्येवं वीरविक्रमः
युग्मतालं तथा शून्यं तत्परं द्वयतालकम् ।शेषे युगलं तालं समुद्रविषमं स्मृतम्
युग्मतालञ्च शून्यञ्च एकतालञ्च तत्परे ।शेषैकत्र त्रिशून्यञ्च विषमं धरणं भवेत्
एकतालं तथा शून्यं क्रमेणापि त्रिधा भवेत् ।युगलं युगलं पश्चात् वीरदशकः स्मृतः
प्रथमं एकतालञ्च तत्परं शून्यमेककम् ।शेषैकत्र त्रितालञ्च मण्डूकस्य गतिर्यथा
समतालं यथा दृष्टं तथा कन्दर्पसंज्ञितम् ।समताले भवेत् शून्यं कन्दर्पे नास्ति तत् पुनः
पञ्चतालात् परं शून्यं डाँशपाहिडमुत्तमम् ।अत्यूर्द्ध्वञ्च भवेत् त्रस्तं संग्रामस्य यथा गतिः
एकतालं तथा शून्यं क्रमेणापि द्विधा भवेत् ।शेषैकत्र त्रितालञ्च ध्रुवचरणभाषितम्
एकतालमेकशून्यमित्येवञ्च भवेत् क्रमात् ।विरामं एकतालञ्च वाग्भेदे दशकोषिका
युगलं युगलं पश्चात् तदन्तेऽप्येकतालकम् ।शेषे युग्मशून्यञ्च गजेन्द्रगुरुभाषितम् १०
युग्मशून्यं विरामे एकतालं भवेत् क्रमे ।छुटकाख्यानकं धीर सङ्गीतपरिनिष्ठितम् ११
युग्मञ्च त्रस्तं प्रथमैकतालंकिञ्चिद्बिरामे पुनरेकतालम् ।ब्रह्मस्य तालञ्च सङ्गीतमध्येयथा कपोती हि करोति शब्दम्
युग्मतालं भवेत्रस्तं एकतालञ्च तत्परे ।शेषे द्वितीयशून्ये विरामब्रह्मतालकम्
प्रथमञ्चैकतालञ्च युग्मशून्यं तथा परे ।शेषैकत्र त्रितालेति षट्कला खलु कथ्यते
आदौ युग्मं तथा युग्मं त्रितालञ्च तथा परे ।सप्तमात्रा भवत्येषा ब्रह्मतालान्तरे शुभे
सविरामं त्रितालञ्च एकं शून्यन्तथापरे ।शेषे त्रस्तं त्रितालञ्च देवसार इतीर्य्यते
द्वितयशून्यं विरामे भवति ततश्च त्रितालानि ।शेषेण द्विशून्यमित्येवं देवचाली
प्रथममेव युग्मतालं तत्पश्चादेकशून्यं विरामे ।शेषे त्रितयतालं भवतीति मदनदोला
युग्मतालं समारभ्य पञ्चतालं भवेत्तथा ।अत्यूर्द्ध्वञ्च तथा त्रस्तं गुरुगन्धर्व्व ईरितः
श्रावणस्य यथा धारास्तथा तालो भवेद्घनः ।पञ्चतालान्तराणीति पञ्चालीति प्रकीर्त्तिता
सविरामं चतुस्तालं त्रितालं शून्यमन्ततः ।मेधारम्भे यथा केका रूयन्ते इन्द्रभाषितः
एकतालञ्च शून्यञ्च क्रमेण त्रितयं ततः ।शेषे चतुष्टयं त्रस्तं चिह्नताल इतीर्य्यते
एकचन्द्रस्तथा युग्मं तालं प्रत्येकतस्त्रयम् ।शेषे त्रीणि शून्यानि चन्द्रमात्रा भवेत् परा
प्रथमं षट्कवालञ्च अत्यूर्द्ध्वन्तु भवेत् क्रमे ।शेषे युग्मं तथा शून्यं देवमात्रा सोच्यते
चन्द्रशून्यं त्रितालञ्च विरामेण क्रमेण तु ।अत्यूर्द्ध्वन्तु भवत्येवं अर्द्धज्योतिरिति स्थितिः
एकैकतालान्तरयुग्मतालात्शून्यत्रयं तत्परमेकतालम् ।कलाभिदा शून्यभिदा समाख्यास स्वर्गसाराख्यनवीनतालः
युग्मशून्यं विरामेण देवतालमिति क्रमात् ।क्षमाष्टाख्योऽन्तरे शून्यं इति सर्व्वत्र भाषितम्
नवाम्बुदे दामिनि शीघ्रयानंतथा सुसम्बद्धसुतालभानम् ।युग्मं सत्रस्तं क्रमतश्च तालंशेषे त्रितालञ्च धराधराख्या
एकतालञ्च शून्यञ्च क्रमेणापि चतुष्टयम् ।क्रमात्तालत्रयञ्चैव वसन्तवागुदाहृतः
सविरामं द्वयं तालं युग्मतालं तथा परे ।शेषैकत्र त्रितालञ्च भवेत् काककलेति सा
त्रितालञ्च भवेत्त्रस्तं तत्परं त्वेकतालकम् ।शेषेऽपि त्रितालञ्चेत् कीरशब्दा प्रचक्ष्यते १०
युग्मं युग्मं तथा युग्मं तालन्त्वेकं भवेत् क्रमात् ।शेषशून्यं कलाभेदे ताण्डवीति भवेत् पृथक् ११
सविरामं द्वयं तालं युग्मशून्यञ्च तत्परम् ।शेषोर्द्ध्वन्तु त्रितालञ्च हर्षधारा प्रकीर्त्तिता १२
चन्द्रशून्यं विरामेण द्वयं तालं भवेत् क्रमात् ।अत्यूर्द्ध्वन्तु भवेत्रस्तं भाषाख्यं तालमुत्तमम् १३
अत्यूर्द्ध्वन्तु त्रितालञ्च द्वयं तालं विरामकम् ।इत्यर्द्धमात्रा विज्ञेवा सङ्गीतभुवि सर्व्वतः
”इति सङ्गीतदामोदरः
दशावतारप्रबन्धलक्षणं प्रबन्धशब्दे नित्यनाट्य-प्रबन्धवाद्यलक्षणं वाद्यशब्दे द्रष्टव्यम्
*
करतलम् अङ्गुष्ठमध्यमाभ्यां सम्मितम् करा-स्फालः (यथा, मेघदूते ७९ ।“तालैः सिञ्चद्बलयसुभगैर्नर्त्तितः कान्तया मेयामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः
”)कांस्यनिर्म्मितवाद्यभाण्डम् त्सरुः इतिमेदिनी ले, २४
(महादेवः यथा, महा-भारते १३ १७ १२८ ।“तलस्तालः करस्थाली ऊर्द्ध्वसंहननो महान्
”)