| YouTube Channel

तारं (tAraM)

 
शब्दकल्पद्रुमः
Sanskrit
तारं,
क्ली,
(तार्य्यते विस्तार्य्यते इति तॄ + णिच् +घञ् ।) रूप्यम् इति मेदिनी ते, ४३
(“दग्धोत्तीर्णं सुशीतं यन्निर्म्मलं कुन्दसन्निमम् ।गुरुस्निग्धकुमारञ्च तारसुत्तममिष्यते
”अशुद्धस्यामृतस्यास्य गुणा यथा, --“आयुः शुक्रं बलं हन्ति रोगसंघं करोति ।अशुद्धञ्चामृतन्तारं शुद्धमार्य्यमतो बुधैः
”अस्य मारणं यथा, --“कण्टवेघ्यं तारपत्रं दिह्याद्द्विगुणहिङ्गुलम् ।पातयन्त्रे रसो ग्राह्यो रजतं मृतमुच्यते
”इति वैद्यकरसेन्द्रसारसंग्रहे जारणमारणा-धिकारे
) मुक्ता इति राजनिर्घण्टः
(यथा, रसेन्द्रसारसंग्रहे त्रैलोक्यचिन्तामणि-वटिकायाम् ।“हारं सुवर्णं सुमृतञ्च तारम्
”“तारं मौक्तिकम् तारशब्देनात्र मौक्तिक-मेवोच्यते तु रजतम् ।” इति तट्टीका
गौणसिद्धिभेदः यथा, “विहन्यमानस्य दुःखस्यत्रित्वात् तद्विघातास्त्रय इति इमा मुख्यास्त्रिस्रःसिद्धयस्तदुपायतया त्वितरा गौण्यः पञ्चसिद्धय-स्तत्रापि हेतुमत्तया तिस्रः हेतुतया पञ्चव्यवस्थिताः तास्वाद्या अध्ययनादिलक्षणाःसिद्धयो हेतवः मुख्यास्तु हेतुमत्यः विधिवद्-गुरुमुखादध्यात्मविद्यानां अक्षरस्वरूपग्रहण-मध्ययनं प्रथमसिद्धिस्तारमुच्यते
इति तत्त्व-कौमुदी
अक्षिमध्यम् इति मेदिनी रे, ४३
)