| YouTube Channel

तामसकील (tAmasakIla)

 
वाचस्पत्यम्
Sanskrit
तामसकील
पु०
तामसः राहुसुतः कील इव वृ० स० अ० उक्तेराहुसुते केतुभेदे तन्निमित्तोत्पातभेदस्तत्रोक्तो यथा“तामसकीलसङ्ज्ञका राहुसुताः केतवस्त्रयस्त्रिंशत् ।वर्णस्थानाकारैस्तान्दृष्ट्रार्के फलं ब्रूयात् ते चार्क-मण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः ध्वाङ्क्षा-कबन्धप्रहरणरूपाः पापाः शशाङ्केऽपि तेषामुदयेरूपाण्यम्भः कलुषं रजोवृतं व्योम नगतरुशिख-रविमर्दी सशर्करो मारुतश्चण्डः ऋतुविपरीतास्त-रवो दीप्ता मृगपक्षिणो दिशां दाहः निर्घातम-हीकम्पादयो भवन्त्यत्र चोत्पाताः पृथक् फलानितेषां शिखिकीलकराहुदर्शनानि यदि तदुदयका-रणमेषां केत्वादीनां फलं ब्रूयात्” “यस्मिन् यस्मिन्देशे दर्शनमायान्ति सूर्यविम्बस्थाः तस्मिंस्तस्मिन्व्यसनं महीपतीनां परिज्ञेयम् क्षुत्प्रम्लानशरीरामुनयोऽप्युत्सृष्टधर्मसच्चरिताः निर्मांसवालहस्ताःकृच्छ्रेणायान्ति परदेशम् तस्करविलुप्तवित्ताः प्रदी-र्घनिःश्वासाकुलिताक्षिपुटाः सन्तः सन्नशरीराः शोको-द्भववाष्परुद्धदृशः क्षामा जुगुप्समानाः स्वनृपतिपर-चक्रपीडिता मनुजाः स्वनृपतिचरितं कर्म चपराकृतं प्रव्रुवन्त्यन्ये गर्भेष्वपि निष्पन्ना वारि-मुचो प्रभूतवारिमुचः सरितो यान्ति तनुत्वंक्वचित् क्वचिज्जायते सस्यम् दण्डे नरेन्द्रमृत्युर्व्या-धिभयं स्यात् कबन्धसंस्थाने ध्वाङ्क्षे तस्करभयंदुर्भिक्षं कीलकेऽर्कस्थे राजोपकरणरूपैश्छत्रध्वजचा-मरादिभिर्विद्धः राजान्यत्वकृदर्कः स्फुलिङ्गधूमादि-भिर्जनहा एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपते-र्विभाशाय सितरक्तपीतकृष्णैस्तैर्बिद्धोऽर्कोऽनुवर्णघ्नः ।दृश्यन्ते यतस्ते रविबिम्बस्योत्थिता महोत्पाताः ।आगच्छति लोकानां तेनैव भयं प्रदेशेन” ।स्वार्थे तत्रार्थे त्रिंशत्त्र्यधिकाराहोस्ते तामस-कीलका इति ख्याताः वृ० स० ११ अ०