| YouTube Channel

तसि (tasi)

 
Shabdartha Kaustubha
Kannada
तसि - अलङ्कारे (वा० चुरा० उभ० सक० से०) तंसयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಅಲಂಕಾರ ಮಾಡು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तंस्
मूलधातुः:
तसि
धात्वर्थः:
अलङ्करणे
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
तंसयति-ते
Abhyankara Grammar
English
तसि (1) tad.affix तस् showing direction by means of a thing e.g. वृक्षमूलतः, हिमवत्तः
cf. Kas on P.IV.3.114, 115
(2) tad.affix तस् applied in the sense of the abl. case and substituted for the abl. case affix: e.g. ग्रामतः अाग- च्छति, चोरतो विभेति
sometimes the affix is applied instead of the instrumen- tal or the genitive case also. e. g. वृत्ततः व्यथते for वृत्तेन व्यथते
देवा अर्जुनतः अभवन्, for अर्जुनस्य पक्षे अभवन् cf. Kas, on P.V.4.44-49.
धातुप्रदीपः
Sanskrit
तसिँ तसि भूष अलङ्कारे
- अवतंसयति वतंसयति अवतंसः वतंसः भूषयति अबूभुषत् भूषयते रथ्यां स्वयमेव अन्यत्र भूषति 190, 191
धातुवृत्तिः
Sanskrit
तसिँ तसि
मानकरूपान्तरम् - भूषँ
भूष (अर्थः) अलङ्कारे
( अवतंसयति भूषयति ) भूषतीति शपि तसेरिदित्त्वाण्णिचोविकल्पे ( वर्तसति ) "वष्टि भागुरिरल्लोपम्' इत्यल्लोपः दौर्गास्तु शप्यपि पेठुः, तसि भूष अलङ्कारइति पुरुषकारे तूक्तमुभयत्रापि भूषैवेत्येव बहव इति 194
कृदन्तरूपमाला
Sanskrit
1 {@“तसि अलङ्करणे”@} 2 ‘तसि भूष अलङ्कारे’ इति दुर्गसम्मतः पाठ इति स्वामी।
प्रायेणायम् अवपूर्वः।
‘तस्यत्युपक्षयार्थे णौ, अलङ्कारे तु तंसयेत्।।’ 3 इति देवः।
अवतंसकः, 4 वतंसकः तंसकः-सिका, तितंसयिषकः-षिका, तंसकः-सिका, 5 तितंसकः-सिका, तातंसकः-सिका
तंसयिता-त्री, तितंसयिषिता-त्री, तंसिता-त्री, तितंसिता-त्री, तातंसिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिकचपिधातुवत् 6 बोध्यानि।
इदित्करणात् णिचो वैकल्पिकत्वं बोध्यम्।
घञि-- 7 उत्तंसः।
प्रासङ्गिक्यः
01
=>
(७१३)
02
=>
(१०-चुरादिः-१७३०। सक। सेट्। उभ।)
03
=>
(श्लो। १८९)
04
=>
[[१। ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः।’ इति वचनेन अवतंसकः-वतंसकः, इत्युभयमपि साधु।]]
05
=>
[पृष्ठम्०६५५+ २५]
06
=>
(४९९)
07
=>
[[आ। ‘आक्रन्दयत्सु निभृतं नृषु लासिताशेषोत्तंसभूषणविमोक्षणयार्हिताभौ।’ धा। का। ३। ४०।]]