तर्पणं (tarpaNaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritतर्पणं, (तृप प्रीणने + भावे ल्युट् ।) तृप्तिः ।प्रीणनम् । इत्यमरः । २ । ९ । ५६ ॥
(यथा, कथासरित्सागरे । २६ । २३६ ।“तत्राहूय तरोर्मूले वेतालं नृकलेवरे ।पूजयित्वाकरोत्तस्य नृमांसबलितर्पणम् ॥
”)यज्ञकाष्ठम् । इति हेमचन्द्रः ॥
(तृप्यन्ति पितरोयेन । तृप् + करणे ल्युट् ।) देवर्षिपितृमनु-ष्याणां जलाञ्जलिदानेन तृप्तिसम्पादनम् । यथा, “एवं स्नात्वा पितॄन् देवान् मनुष्यांस्तर्पयेन्नरः ।नाभिमात्रे जले स्थित्वा चिन्तयेदूद्ध्वमानसः ॥
आगच्छन्तु मे पितर इमं गृह्णन्त्वपोऽञ्जलिम् ।त्रींस्त्रीञ्जलाञ्जलीन्दद्यादाकाशे दक्षिणे तथा ॥
वसित्वा वसनं शुक्लं स्थले चास्तीर्णवर्हिषि ।विधिज्ञास्तर्पणं कुर्य्युर्न पात्रे तु कदाचन ॥
यदपां क्रूरमांसन्तु यदमेध्यन्तु किञ्चन ।अशान्तं मलिनं यच्च तत् सर्व्वमपगच्छतु ॥
गृहीत्वानेन मन्त्रेण तोयं सव्येन पाणिना ।प्रक्षिपेद्दिशि नैरृत्यां रक्षोपहतयेऽद्भुतम् ॥
अनाक्षिकन्तु यद्भुक्तं पापाद्यच्च प्रतिग्रहम् ।दुष्कृतं यच्च मे किञ्चिद्बाङ्मनःकायकर्म्मभिः ॥
पुनातु मे तदिन्द्रस्तु वरुणः सबृहस्पतिः ।सविता च भगश्चैव मुनयः सनकादयः ॥
आब्रह्मस्तम्बपर्य्यन्तं जगत् तृप्यत्विति ब्रुवन् ।क्षिपेदपोऽञ्जलोंस्त्रींस्तु कुर्व्वन् सङ्क्षेपतर्पणम् ॥
”इति गारुडे २१५ अध्यायः ॥
तर्पणविशेषस्तु गारुडे २१९ अध्याये तथावह्निपुराणे नित्याह्निकस्नानविधिनामाध्याये चद्रष्टव्यः ॥
* ॥
जीवत्पितृकस्य तर्पणनिषेधोयथा, --“दर्शस्नानं गयाश्राद्धं तिलैस्तर्पणमेव च ।न जीवत्पितृको भूप ! कुर्य्यात् कृत्वाघमाप्नुयात् ॥
”इति कालिकापुराणे ८९ अध्यायः ॥
महायज्ञविशेषः । तत्तु पितृयज्ञः । पितॄणांकव्यजलादीनाञ्च विधिना जलान्नदानेन तृप्ति-सम्पादनम् । इत्यमरटीकायां भरतः ॥
“तत्द्बिविधं प्रधानं अङ्गञ्च । तत्राद्यं यथा, --‘तर्पणञ्च शुचिः कुर्य्यात् प्रत्यहं स्नातको द्बिजः ।देवेभ्यश्च ऋषिभ्यश्च पितृभ्यश्च यथाक्रमम् ॥
’इति शातातपः ॥
विधवामधिकृत्य काशीखण्डे ।‘तर्पणं प्रत्यहं कार्य्यं भर्त्तुः कुशतिलोदकैः ।तत्पितुस्तत्पितुश्चापि नामगोत्रादिपूर्व्वकम् ॥
’द्बितीयं यथा, ब्रह्मपुराणे ।‘नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते ।तर्पणन्तु भवेत्तस्य अङ्गत्वेन व्यवस्थितम् ॥
’तर्पणाकरणे दोषः । यथा, योगियाज्ञवल्क्यः ।“नास्तिक्यभावाद्यश्चापि न तर्पयति वै सुतः ।पिबन्ति देहरुधिरं पितरो वै जलार्थिनः ॥
”तस्य निषिद्धस्थानादि यथा । “नेष्टकारचितेस्थाने पितॄंस्तर्पयेत् ।” इति शङ्खलिखितौ ॥
‘यन्न सर्व्वाय चोत्सृष्टं यच्चाभोज्यनिपानजम् ।तद्बर्ज्यं सलिलं तात ! सदैव पितृकर्म्मणि ॥
’इति मार्कण्डेयपुराणम् ॥
* ॥
तस्य विधानं यथा । स्नातश्चार्द्रवासा देवपितृ-तर्पणमम्भःस्थ एव कुर्य्यात् परिवर्त्तितवासाश्चेत्तीरमुत्तीर्य्येति । इति विष्णुः ॥
तीर्थे विशेषोयथा, मत्स्यपुराणे ।‘तिलोदकाञ्जलिर्द्देयो जलस्थैस्तीर्थवासिभिः ॥
’तीर्थे स्थलस्थश्चेत् तर्पणं करोति तदा जलैक-चरणः आचम्य कुर्य्यात् तस्य जले च तर्पणमवि-रुद्धम् । स्थले तर्पणं दर्भेषु कार्य्यम् । यथा, --‘प्रागग्रेषु सुरांस्तर्प्येत् मनुष्यांश्चैव मध्यतः ।पितॄंश्च दक्षिणाग्नेषु दद्यादिति जलाञ्जलीन् ॥
’इति आग्नेयपुराणम् ॥
अशुचिदेशे तु ।‘यत्राशुचिस्थलं वा स्यादुदके देवतापितॄन् ।तर्पयेत्तु यथाकाममप्सु सर्व्वं प्रतिष्ठितम् ॥
’इति विष्णुः ॥
‘प्रादेशमात्रं उद्धृत्य सलिलं प्राङ्मुखः सुरान् ।उदद्मनुष्यांस्तर्प्येत पितॄन् दक्षिणतस्तथा ॥
’इति दक्षः ॥
उद्धृतोदके तु ।‘पात्राद्बा जलमादाय शुचौ पात्रान्तरे क्षिपेत् ।जलपूर्णेऽथवा गर्त्ते न स्थले तु विवर्हिषि ॥
’इति हारीतः ॥
‘यद्युद्धृतैः प्रसिञ्चेत्तु तिलान् संमिश्रयेज्जले ।अतोऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणैः ॥
’इति योगियाज्ञवल्क्यः ॥
“अङ्गुष्ठानामिकाभ्याञ्च दक्षिणस्येतरात् करात् ।तिलान् गृहीत्वा पात्रस्थान् ध्यायन् सन्तर्पयेत्पितॄन् ॥
”इति नारदः ॥
* ॥
देवतर्पणं यथा, --‘ब्रह्माणं तर्पयेत् पूर्व्वं विष्णुं रुद्रं प्रजापतिम् ।देवा यक्षास्तथा नागा गन्धर्व्वाप्सरसोऽसुराः ॥
क्रूराः सर्पाः सुपर्णाश्च तरवो जम्भकाः स्वगाः ।विद्याधरा जलाधारास्तथैवाकाशगामिनः ॥
निराहाराश्च ये जीवाः पापे धर्म्मे रताश्च ये ।तेषामाप्यायनायैतद्दीयते सलिलं मया ॥
’इदं उपवीतिना प्राङ्मुखेन दैवतीर्थेन कार्य्यम् ॥
मनुष्यतर्पणं यथा, --‘सनकश्च सनन्दश्च तृतीयश्च सनातनः ।कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा ॥
सर्व्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा ॥
’इदं निवीतिना मनुष्यतीर्थेन सामगेन प्रत्यङ्-मुखेन कार्य्यम् । अन्यवेदिना उदङ्मुखेनकार्य्यम् ॥
* ॥
तत ऋषितर्पणं प्राङ्मुखेनउपवीतिना दैवतीर्थेन कार्य्यम् । ततो दिव्य-पितृतर्तणं दक्षिणामुखेन प्राचीनावीतिनासतिलजलेन पितृतीर्थेन कार्य्यम् । ततः पितृ-तर्पणम् ॥
* ॥
भीष्माष्टम्यां भीष्मतर्पणम् । तस्यमन्त्रो यथा, --‘वैयाघ्रपद्यगोत्राय साङ्कतिप्रवराय च ।अपुत्त्राय ददाम्येतत् सलिलं भीष्मवर्म्मणे ॥
’प्रार्थनमन्त्रो यथा, --‘भीष्मः शान्तनवो वीरः सत्यवादी जितेन्द्रियः ।आभिरद्भिरवाप्नोतु पुत्त्रपौत्त्रोचितां क्रियाम् ॥
’प्रेतचतुर्द्दश्यां यमतर्पणं यथा, --‘यमाय धर्म्मराजाय मृत्यवे चान्तकाय च ।वैवस्वताय कालाय सर्व्वभूतक्षयाय च ॥
औडुम्बराय दघ्नाय नीलाय परमेष्ठिने ।वृकोदराय चित्राय चित्रगुप्ताय वै नमः ॥
’प्रत्येकनामभिस्त्रींस्त्रीनञ्जलीन् दद्यात् ॥
* ॥
तिलतर्पणनिषेधो यथा, --‘रविशुक्रदिने चैव द्बादश्यां श्राद्धवासरे ।सप्तम्यां जन्मदिवसे न कुर्य्यात् तिलतर्पणम् ॥
’इति स्मृतिः ॥
‘संक्रान्त्यां निशि सप्तम्यां रविशुक्रदिने तथा ।श्राद्धे जन्मदिने चैव न कुर्य्यात्तिलतर्पणम् ॥
’इति मत्स्यपुराणम् ॥
तत्र प्रतिप्रसवो यथा, --‘अयने विषुवे चैव संक्रान्त्यां ग्रहणेषु च ।उपाकर्म्मणि चोत्सर्गे युगादौ मृतषासरे ॥
सूर्य्यशुक्रादिवारेऽपि न दोषस्तिलतर्पणे ।तीर्थे तिथिविशेषे च कार्य्यं प्रेते च सर्व्वदा ॥
’इति स्मृतिः ॥
‘तीर्थे तिथिविशेषे च गङ्गायां प्रेतपक्षके ।निषिद्धेऽपि दिने कुर्य्यात् तर्पणं तिलमिश्रितम् ॥
’इति मरीचिवचनम् ॥
* ॥
तिलाभावे प्रतिनिधिर्यथा ।‘तिलानामप्यभावे तु सुवर्णरजतान्वितम् ।तदभावेऽपि सिञ्चेत्तु दर्भैर्मन्त्रेण चाप्यथ ॥
’इति याज्ञवल्क्यः ॥
* ॥
अशक्तौ । आब्रह्मस्तम्बपर्य्यन्तं जगत्तृप्यतु ।इत्यनेन त्रोंस्तर्पयेत् ।” इत्याह्निकतत्त्वम् ॥
काशीखण्डमते तु ।“आब्रह्मस्तम्बपर्य्यन्तं देवर्षिपितृमानवाः ।तृप्यन्तु सर्व्वे पितरो मातृमातामहादयः ॥
अतीतकुलकोटीनां सप्तद्बीपनिवासिनाम् ।आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् ॥
” * ॥
जन्माष्टम्यां तर्पणस्य फलं यथा, --“तस्यां तिथौ वारिमात्रं पितॄणां यः प्रयच्छति ।गयाश्राद्धं कृतं तेन शताब्दं नात्र संशयः ॥
”इतिब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
