| YouTube Channel

तर्ज (tarja)

 
शब्दसागरः
English
तर्ज r. 1st and 10th cls. (तर्जति तर्जयते) To blame, to censure, to reprove.
भ्वा-प-सक-सेट् चुर-आ-सक-सेट्
Wilson
English
तर्ज r. 1st and 10th cls. (तर्जति-ते तर्जयति) To blame, to
censure, to reprove.
Shabdartha Kaustubha
Kannada
तर्ज - भर्त्सने (भ्वा० पर० सक० से०) तर्जति
पदविभागः - > धातुः
कन्नडार्थः - > ಹೆದರಿಸು /ಭಯ ಪಡಿಸು /ಬೆದರಿಸು
तर्ज - तर्जने (चुरा० आत्म० सक० से०) तर्जयते
पदविभागः - > धातुः
कन्नडार्थः - > ಹೆದರಿಸು /ಭಯ ಪಡಿಸು /ಬೆದರಿಸು
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तर्ज्
मूलधातुः:
तर्ज
धात्वर्थः:
भर्त्सने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
तर्जति
धातुः:
तर्ज्
मूलधातुः:
तर्ज
धात्वर्थः:
भर्त्सने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
तर्जयति-ते
अनुबन्धादिविशेषः:
आकुस्मीयः
धातुप्रदीपः
Sanskrit
तर्जँ तर्ज भर्त्सने
- तर्जति ततर्ज तर्जनी ।। 224 ।।
तर्जँ तर्ज
मानकरूपान्तरम् - भर्त्सँ
भर्त्स सन्तर्जने
- तर्जयते तर्जना तर्जतीति भ्वादिपाठात् भर्त्सयते भर्त्सना 144, 145
शब्दकल्पद्रुमः
Sanskrit
तर्ज्ज, भर्त्सने इति कविकल्पद्रुमः
(भ्वां-परं-सकं-सेट् ।) तर्ज्जति इति दुर्गादासः
तर्ज्ज, भर्त्से इति कविकल्पद्रुमः
(चुरां-आत्मं सकं-सेट् ।) ङ, तर्ज्जयते भर्त्स-स्तर्ज्जनम् तामतर्ज्जयदम्बरे इति रघुप्रयो-गस्तु तर्ज्वनं तर्ज्जः तर्ज्जं करोतीति ञौ साध्यः ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
तर्ज भर्त्सने
भ्वा०
पर०
सक०
सेट् तर्जति अतर्जीत् ततर्ज
तर्ज भर्त्सने चुरा० आ०
सक०
सेट् तर्जयते अततर्जत तर्जातर्जना “सीतामभ्यर्थ्य तर्जितः” “तया तु तर्जिताः सर्वा मुखै-र्भीमा यथागतम्” “राक्षसोऽतर्जयत्सूतं पुनश्चाढौक-यद्रथम्” भट्टिः बालं पुनर्गात्रसुखं गृह्णीयान्न चैनं तर्ज-येत्” सुश्रुतः आर्षत्वात् पदव्यत्ययः
क्षीरतरङ्गिणी
Sanskrit
तर्जँ तर्ज भर्त्सने
- तर्जति चुरादौ (10151) तर्जयते 222
धातुवृत्तिः
Sanskrit
तर्जँ तर्ज (अर्थः) भर्त्सने
( तर्जति ततर्जेत्यादि ) अयं चुरादावपि 225
तर्जँ तर्ज
मानकरूपान्तरम् - भर्त्सँ
भर्त्स (अर्थः) सन्तर्जने
( तर्जयते भर्त्सयते ) तर्जयते भर्त्सयते ) तर्जयन्निव केतुभिरिति भौवादिकस्य तर्जयतेर्णिचि 147-148
कृदन्तरूपमाला
Sanskrit
1 {@“तर्ज भर्त्सने”@} 2 ‘सन्तर्जने तर्जयते भर्त्सनार्थे तु तर्जति।।’ 3 इति देवः।
तर्जकः-र्जिका, तर्जकः-र्जिका, तितर्जिषकः-षिका, तातर्जकः-र्जिका
तर्जिता-त्री, तर्जयिता-त्री, तितर्जिषिता-त्री, तातर्जिता-त्री
4 इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककर्जधातुवत् 5 बोध्यानि।
6 तर्जितः-तवान्।
प्रासङ्गिक्यः
01
=>
(७०९)
02
=>
(१-भ्वादिः-२२७। सक। सेट्। पर।)
03
=>
(श्लो। ६६)
04
=>
[पृष्ठम्०६५४+ २७]
05
=>
(१६९)
06
=>
[[आ। ‘स्वर्गोपमं सर्जितपुण्यसंचयो गभीरगर्जद्रथतर्जिताम्बुदः।’ धा। का। १। ३०।]]
1 {@“तर्ज तर्जने”@} 2 आकुस्मीयः।
‘सन्तर्जने तर्जयते भर्त्सनार्थे तु तर्जति।।’ 3 इति देवः।
तर्जकः-र्जिका, तितर्जयिषकः-षिका, तर्जयिता-त्री, तितर्जयिषिता-त्री
तर्जयमानः, तर्जयिष्यमाणः, तितर्जयिषमाणः, तितर्जयिषिष्यमाणः
इत्यादीनि सर्वाण्यपि रूपाणि गन्धधातुवत् 4 ज्ञेयानि।
क्विपि-तर्क्- तर्ग्-तर्जौ-तर्जः, इति रूपाणीति विशेषः।
प्रासङ्गिक्यः
01
=>
(७१०)
02
=>
(१०-चुरादिः-१६८२। सक। सेट्। आत्म।)
03
=>
(श्लो। ६६)
04
=>
(३७५)