| YouTube Channel

तरवारिः (taravAriH)

 
Apte
English
तरवारिः [taravāriḥ], A sword
परितः शिथिलोदग्रतरवारितडिल्लताः Śiva. B.22.39.
Apte 1890
English
तरवारिः A sword.
Apte Hindi
Hindi
तरवारिः
पुं*
- तरं समागत विपक्षबलं वारयति तर+वृ+णिच्+इन्
तलवार
Wordnet
Sanskrit
Synonyms:
खड्गः, असिः, कृपाणः, चन्द्रहासः, कौक्षेयकः, मण्डलाग्रः, करबालः, करपालः, निस्त्रिंशः, शिरिः, विशसनः, तीक्ष्णधारः, दुरासदः, श्रीगर्भः, विजयः, धर्मपालः, कौक्षेयः, तरवारिः, तवराजः, शस्त्रः, रिष्टिः, ऋष्टिः, पारेरकः
noun
शस्त्रविशेषः।
"खड्गस्य युद्धे राज्ञी लक्ष्मी निपुणा आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
तरवारिः,
पुं,
(तरं समागतविपक्षबलं वारय-तीति वृ + णिच् + इन् ।) खड्गः तरवारइति भाषा इति हेमचन्द्रः ४४५
अथ खड्गपरीक्षा ।“अङ्गं रूपं तथा जातिर्नेत्रारिष्टे भूमिका ।ध्वनिर्म्मानमिति प्रोक्तं खड्गज्ञानाष्टकं शुभम्
अभिन्ने दृश्यते यादृक् विभिद्य घटिते तथा ।यदेव दृश्यते चिह्नं तदङ्गं संप्रचक्षते
नीलकृष्णादिकं खड्गे रूपमित्यभिधीयते ।तेनैव यत् प्रतीतं स्यात् तज्जातिरिति गद्यते
अङ्गातिरिक्तं यज्जातिस्तन्माहात्म्योपसूचकम् ।तन्नेत्रमिति जानीयात् खड्गे खड्गविशारदाः
अङ्गातिरिक्तं खड्गादियच्छुद्धत्वापसूचकम् ।तदरिष्टमिति प्राहुर्भूमिरङ्गादिधारणम्
यः खड्गे जायते शब्दो नखदण्डादिनाहते ।स ध्वनिस्तुलनामानं ज्ञानमष्टविधन्त्विदम्
पञ्चाद्या निपुणैः खड्गे सम्भाव्यन्तेऽपि कृत्रिमाः ।अन्त्यावकृत्रिमौ ज्ञेयौ तावेव सहजाविति
शतमङ्गानि चत्वारि रूपाणि जायतस्तथा ।त्रिंशन्नेत्राणि जानीयादरिष्टानि तथैव
भूमिश्च द्बिविधा ज्ञेया ध्वनिरष्टविधो मतः ।मानन्तु द्बिविधं प्रोक्तमित्येषां संग्रहो मतः
अथ खड्गस्य शताङ्गगणना लौहार्णवे ।“रूप्यस्वर्णगजोरुवूकदमनस्थूलाङ्गकृष्णारुण-श्वेता-म्भोजगदातिलानलकणाग्रन्थिस्थिरातैत्तिराः ।मालाजीरकषट्पदोर्द्ध्वमरिचव्यालाश्ववर्हाञ्जन-क्षौद्रक्षुद्रकमक्षिकातुषयवव्रीहिक्षुमासर्षपाः
सिंहीतण्डुलगोशिराशिवनखग्राहाक्षिकेशोपल-द्रोणीकाककपालपत्रतुवरीविम्बीफलीसर्षपाः ।नीलीरक्तवचारसोनसुमनाजिङ्गीशमीरोहित-प्रोष्ठीमारिषमार्कवाखुरतडिन्मेघाद्रिगुङ्गाशराः
दूर्व्वाविल्वमसूरटुण्टुकशटीमार्जारिकाकेतकी-मूर्व्वावज्रकलायचम्पकबलान्यग्रोधवंशासनाः ।ज्येष्ठीजालपिपीलिकानलरजः कुष्माण्डरोम-स्पृहीकर्कन्धुर्व्वकुलारनालमहिषस्वच्छर्त्तुवक्रा इति
प्रोक्ता लौहविशारदेन मुनिना खड्गस्य भेदाःक्रमात्
”अथ तस्य चत्वारि रूपाणि ।“नीलः कृष्णः पिशङ्गश्च धूम्रश्चेति चतुर्व्विधः ।वर्णप्रकर्षः खड्गानां कथितो मुनिपुङ्गवैः
”अथ चतस्रो जातयः ।“ब्राह्मणः क्षत्त्रियो वैश्यः शूद्रश्चेति चतुर्व्विधः ।जातिभेदो विनिर्द्दिष्टः खड्गानां मुनिपुङ्गवैः
”अथ त्रिंशन्नेत्राणि ।“चक्रं पद्मं गदा शङ्खो डमरुर्द्धनुरङ्कुशः ।छत्रं पताका वीणा मत्स्यलिङ्गध्वजेन्दवः
कुम्भः शूलश्च शार्द्दूलः सिंहः सिंहासनं गजः ।हंसो मयूरो जिह्वा दशनः खड्ग एव
पुत्त्रिका चामरं शैलः पुष्पमाला भुजङ्गमः ।त्रिंशदेतानि नेत्राणि खड्गानां कथितानि वै
”अथ त्रिंशदरिष्टानि ।“छिद्रं काकपदं रेखा भिन्नं भेकश्च मूषिकः ।विडालः शर्करा नीली मशको भृङ्गसूचिके
त्रिबिन्दुः कालिका दारी कपोतः काक एव ।खर्परः शकली क्रोडी कुशपत्रकजालिके
करालकङ्कखर्ज्जूरशृङ्गपुच्छखनित्रकम् ।लाङ्गलं वडिशाख्यञ्च मुनिना तत्त्ववेदिना
प्रोक्तोन्येतान्यरिष्टानि खड्गानां त्रिंशदेव हि
”अथ द्बिविधा भूमिः ।“दिव्यभौमविभागेन भूमिस्तु द्बिविधा भवेत् ।”अथाष्ठधा ध्वनिः ।“हंसकांस्याभ्रढक्कानां काकतन्त्रीखराश्मनाम् ।ध्वनयोऽष्टविधाः प्रोक्ता नागार्ज्जुनमुनेर्मताः
”अथ द्बिविधं मानम् ।“उत्तमाधमभेदेन मानं तद्द्विविधं भवेत् ।इति प्रोक्तानि सूत्राणि खड्गानां ज्ञानहेतवे
एतानि तत्त्वतो ज्ञात्वा भवेन्नृपतिपूजितः
”इति सूत्राध्यायः
*
तत्र प्रथमतोऽङ्गानां लक्षणानि निबोधत
लौहप्रदीपे ।“रूप्यपत्रसमा भूमिरङ्गं श्वेतं प्रतीयते ।ऊर्द्ध्वं तर्त्तुं महामूल्यं रूप्यवज्रमुषन्ति तम्
एष खड्गवरो दद्याल्लक्ष्मीमायुर्यशो बलम् ।स्वर्णरेखा वली तन्वी यद्भूमौ निकषोपमा ।स्वर्णवज्रमिति प्राहुरायुर्लक्ष्मीजयप्रदम्
गजशुण्डाकृतिर्भूमौ कृष्णायामङ्गसम्भवः ।गजवज्रमिति प्राहू रक्तस्पर्शे तु तद्बिशेत्
ज्वरादिव्याधिशमनं तस्य प्रक्षालनाम्भसा ।अपि क्षीणोऽपि भूपालस्तद्बीर्य्यात् साधयेन्महीम्
एरण्डबीजप्रतिममङ्गं भूमिः सितेतरा ।रुवुवज्रमिदं नाम्ना शत्रुदर्पक्षयङ्करः
एतस्य स्पर्शमात्रेण नरः सम्यग्विमुच्यते ।महिषाख्यमिदं वज्रं केचिदाहुर्मनीषिणः
अङ्गं दमनपत्राभं खड्गे यस्मिन् प्रतीयते ।विद्याद्दमनवज्रञ्च तज्ज्ञेयं द्बिविधं बुधैः
नीला शुभ्रा भवेद्भूमिस्तत्र नीला गरीयसी ।तस्मिन् पर्य्युषितं तोयं गन्धे दमनकोपमम्
तत्प्रभावान्महीपालः कृत्स्नां पृथ्वीं हि साध-येत्
५”
शार्ङ्गधरस्य ।“एका स्थूला सिता रेखा भूमिर्न्नीला दृढा यदि ।स्थूलाङ्गमङ्गवज्रं तद्बिद्याल्लक्ष्मीयशःप्रदम्
एतत्क्षते भवेच्छोथः स्थूलश्चिरतरस्थितिः ।एतं महान्तमपरे वदन्ति खड्गकोविदाः
घृष्टायां दृश्यते भूमौ अङ्गञ्च प्रतिविम्बितम् ।अङ्गवज्रं भवेत्तस्य द्बिधाभूमिः सितासिता
७”
लौहप्रदीपेऽपि ।“निरङ्गं रूप्यपत्राभमीषन्मणिनिभञ्च यत् ।दुर्ल्लभं तन्महामूल्यं कान्तलौहं प्रचक्षते
कृष्णा भूमिर्भवेत् स्वच्छा पीता वज्राङ्गसङ्गता ।कृष्णावज्रमिति प्राहुस्तत्क्षते मोह उच्यते
”प्रदीपेऽपि ।“कृष्णा भूमिः सुवर्णाभमीषच्छुक्लाङ्गसङ्गतम् ।डाहुलीवज्रकं विद्यात् कालसंज्ञमथापरे
अरुणं सूक्ष्ममूर्द्धञ्चेदङ्गं भूमिः सितेतरा ।अरुणाख्यमिदं वज्रं शत्रुदर्पनिसूदनम्
सूर्य्यांशुस्पर्शमात्रेण वह्निरूपां वमेत् शिखाम् ।तस्य स्मर्शनमात्रेण पद्मकोषः स्फुटेन्निशि
दुर्ल्लभं तन्मनुष्याणां भाग्यैः कुत्रापि लभ्यते ।तद्योजनसहस्रस्य रिष्टं नाशयति ध्रुवम्
श्वेतास्तिस्रो यदा रेखा आमूलादुपलक्ष्यते ।श्वेताङ्गमिति तद्बिद्याद्यशोलक्ष्मीबलप्रदम्
१०
अम्भोजदलसङ्काशमङ्गं भूमिः सितेतरा ।अम्भोजवज्रं तज्ज्ञेयं कथितं मुनिपुङ्गवैः
११
अङ्गं यस्य गदाकारं भूमिश्चैव सितेतरा ।गदावज्रमिदं ब्रूयात् तत्क्षते शूलसम्भवः
१२
अङ्गं कृष्णतिलाकारं भूमिश्चैव सितासिता ।तिलवज्रमिदं ज्ञेयं लक्ष्मीबलयशःप्रदम्
तत्क्षते तिलतैलाभा वसा प्रच्यवतेऽधिकम् १३ ।धूम्रवर्णा भवेद्भूमिरङ्गं वह्निशिखोपमम्
अग्निवज्रमिदं ज्ञेयं शत्रूणां दाहकारकम् ।अत्र शीतोदकं न्यस्तं तप्तं भवति क्षणात्
शाणे वह्निं वमेद्यस्तु तथा सूर्य्यांशुसङ्गमात् ।तत्क्षते बलवान् दाहो दग्धवच्च व्रणो भवेत्
एतत् परमभाग्येन लभ्यते धरणीतले १४ ।भूमिः सिता तिला वापि अङ्गञ्चेत् पिप्पली-प्रभम्
कणावज्रमिदं ज्ञेयमन्तर्दाहस्तु तत्क्षते १५ ।कृष्णाभूमिर्यदैवाङ्गे दृश्यते ग्रन्थिसञ्चयः
ग्रन्थिवज्रमिदं ज्ञेयं वैरिपक्षविनाशनम् ।तत्क्षते बलवान् दाहस्तृषा ज्वर एव
१६
शालपर्णीदलाकारमङ्गं कृष्णासिपुत्त्रिका ।स्थिरावज्रमिदं प्राहुस्तत्क्षते वेपथुर्भवेत्
१७
यदा तित्तिरिपक्षाभमङ्गं भूमिः सितेतरा ।एतत्तिरिरिवज्रं स्यात् तत्क्षते बहुवेदनम्
१८
वनमालासमा यस्मिन् माला खड्गे प्रदृश्यते ।मालाङ्गमिति तद्विद्यात्तत्तोयं गन्धवद्भवेत्
अत्र तप्तोदकं न्यस्तं शीतं भवति तत्क्षणात् ।एष दाहपरीतानामृते पित्तहतात्मनाम्
भवेत् परमभैषज्यं भाग्येनैतद्धि लभ्यते १९ ।यदा जीरकसङ्काशमङ्गं मूमिः सितासिता
एतज्जीरकवज्रं स्यात्तत्क्षते तत्क्षणाज्ज्वरः २० ।भूमिः सितासितक्षेत्रा अङ्गं भृङ्गाभमिष्यते
तत्र चेन्मध्यमन्यस्तं शेषमाप्नोति केवलम् ।एतद्भ्रमरवज्रस्यात्तत्क्षते स्याद्बिसूचिका
२१
ऊर्द्ध्वगं कपिलाभासमङ्गं यस्मिन् प्रतीयते ।ऊर्द्ध्ववज्रमिदं प्राहुर्विषवेगनिसूदनम्
”लौहप्रदीपेऽपि ।“ऊर्द्ध्वगं कपिलाभासमङ्गं यस्मिन् प्रतीयते ।लाङ्गलाङ्गन्तु तद्बिद्यात् स्पर्शे तस्याहिनाशनम्
२२
अङ्गं मरीचसङ्काशं भवेद्भू मिः सितेतरा ।मरीचाङ्गमिदं वज्रं तत्क्षते कटुरक्तता
तत्प्रक्षालनतोयेन नश्यन्ति पीनसादयः २३ ।यदा सर्पफणाकारमङ्गं भूमिस्तु निर्म्मला
भुजङ्गवज्रं तद्बिद्यात्तत्क्षते विषवद्रुजा ।तस्य स्पर्शनमात्रेण भेकः प्राणैर्विमुच्यते
एकस्यास्य प्रसादेन कृत्स्नां शास्ति महीं नृपः ।२४ ।यदाश्वखुरसङ्काशमङ्गं भूमिस्तु निर्म्मला
अश्वाङ्गमिति तंविद्यात् खड्गं परमदुर्ल्लभम् ।तस्य संयोगमात्रेण वाजी मन्दोऽपि धावति
तस्य क्षालनतोयेन हयानां रोगनाशनम् ।एतत्क्षते भृशं मूर्च्छा दाहश्च भ्रम एव
२५
मयूरपिच्छसदृशमङ्गं भूमिः सितेतरा ।वर्हाङ्गमिति तं विद्यात्तत्क्षते वान्तिरिष्यते
सर्पाणामिह सर्व्वेषामस्य स्पर्शासहिष्णुता ।एतदेव नृपतिभिर्भाम्यैः कुत्रापि लभ्यते
२६
भूमिरञ्जनसङ्काशा धारा चास्य सिता भवेत् ।अञ्जनाख्यमिदं प्रायः सर्व्वदैवोपलभ्यते
”लौहप्रदीपेऽपि ।“धारा शुभ्रा भवेद्यस्य भूमिः कज्जलसन्निभा ।कृष्णरङ्गैश्चितं वापि विद्यात् कज्जलवज्रकम्
२७
मधुवर्णसमा भूमिरङ्गं वा मधुबिन्दुवत् ।क्षौद्राख्यभिति जानीयात् जयलक्ष्मीयशःप्रदम्
”शार्ङ्गधरेऽपि ।“निम्नकक्षो भवेद्यत्र रात्रिन्दिवविलेपितः ।मधुरो मधुवर्णाभः खड्गो देववल्लभः
विशेषाच्चात्र रज्यन्ति सततं मक्षिकादयः २८ ।आसीमकोणिका यस्य क्षुद्राङ्गं कुण्डलीकृतम्
क्षुद्रवज्रकनामानं प्राह नागार्ज्जुनो मुनिः ।इदं कुण्डलवज्रञ्च प्राह लौहार्णवे मुनिः
अस्य क्षतेषु बलवान् दाहः समवलोकितः २९ ।यदङ्गं मक्षिकाकारं भूमिश्चैव सितासिता
स्नेहः शुष्यति चैवात्र मक्षिकाङ्गं तमादिशेत् ३० ।अङ्गं यदा तुषाकारं या भूमिः सितासिता
तुषवज्रमिदं ख्यातं प्राह नागार्ज्जुनोमुनिः ३१ ।अङ्गं यवफलाकारं भूमिः कृष्णा सिता तथा
यवाङ्गमिति तं विद्यात्तत्स्पर्शे कण्डूसम्भवः ।एष स्वड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः
३२अङ्गं व्रीहिप्रसूनाभं भूमिर्धूम्रा क्षतेऽतिरुक् ।तद्व्रीहिवज्रं जानीयाच्छत्रूणां भयवर्द्धनम् ३३
अतसीफलसङ्काशमङ्गं भूमिः सितासिता ।अतसीवज्रमाहुस्तं तत्क्षते शिरसो रुजा ३४
यदा सषपबीजाभमङ्गं भूमिः सितासिता ।खरधारः खरस्पर्शः सर्षपाङ्गः दुर्ल्लभः
३५
सिंह्याकारं भवेद्यस्य अङ्गं भूमिः सितासिता ।सिंहीवज्रन्तु तद्बिद्यात्तत्क्षते प्रलपेन्नरः
एतद्धावनतोयेन कासरोगोपनाशनम्
३६
अङ्गं तण्डुलसङ्काशं भूमिर्धूम्रा सितासिता ।तण्डुलाङ्गमिमं विद्याद्यशःश्रीबलवर्द्धनम् ।एतत्पर्य्युषितं तोयं तण्डुलोदकसन्निभम्
अस्य प्रभावान्मनुजो भ्रष्टां हि लभते श्रियम्
३७अङ्गञ्चेद्गोक्षुराकारं भूमिराघातनिःसहा
खड्गाधममिदं विद्याद्गोवज्रं नाम नामतः
३८
स्थला दीर्घाः शिराः कृष्णा भूमिश्चैव सिता-सिता
शिराङ्गमिति तं ब्रूयादेनं खड्गाधमं बुधाः ३९ ।शिवलिङ्गाकृतिश्चाङ्गे धारा चैव सिताथवा
शिवाङ्गमिति तं ब्रूयाच्छत्रुपक्षनिसूदनम्
४०
यदा व्याघ्रनखाकारमङ्गं भूमिस्तु पिङ्गला
नखवज्रमिदं ब्रूयात्तत्क्षते श्वययुर्भवेत् ।एतदामिषसंस्पर्शात् प्रविशेत् स्वयमेव हि
४१
ग्राहपुच्छोपमन्त्वङ्गं भूमिर्धूम्रा खराकृतिः ।ग्राहाङ्गमिति जानीयाच्छत्रुवंशोपनाशनम्
अस्य स्पर्शनमात्रेण जीवन्मतस्या जहत्यसून्
४२
यदा मनुजनेत्राभमङ्गं भूमिः सितासिता
नेत्राङ्गमिति जानीयात् संग्रामे विजयप्रदम् ।एतद्धावनतोयेन नूनमन्धोऽपि पश्यति
४३
अङ्गं केशसमं यस्य भूमिर्धूम्रा सितासिता ।केशाङ्गमिति जानीयात् क्लेशदुःखभयापहम्
४४
निरङ्गं स्थूलप्रकृतिमुपलाङ्गं विदुर्ब्बुधाः ।एतद्धि प्रायशो लोके दृश्यते द्बिजसत्तम !
४५पद्मपुराणस्य ।“निरङ्गा निशिता धारा शाणे वह्निं वमत्यपि ।द्रोणीवज्रमिदं ज्ञेयं पृथिव्यां नातिदुर्ल्लभम्
४६
अङ्गं काकपदाकारं भूमिराघातनिःसहा ।एष स्वड्गाधमस्त्याज्यो काकाङ्गो भूति-मिच्छता
४७
यदा कपालमङ्गेषु दृश्यते स्पर्शतः खरम् ।एतद्धि दुःखजनकं कपालाङ्गं बुधस्त्यजेत्
४८
तन्वीपत्रा वलाङ्का या सुवर्णाङ्गासिपुत्त्रिका ।पत्रवज्रकमाहुस्तं आयुर्व्वेदविदो जनाः
”लौहार्णवेऽपि ।“सुपर्णसन्निभा भूमिरङ्गं कालं प्रतीयते ।तत् पत्रवज्रं काकस्य सुपर्णमुपजायते
४९
तुवरीदलसङ्काशमङ्गं यस्मिन् प्रतीयते ।बुवरीवज्रमाहुस्तं तत्क्षते शिरसो भ्रमः
एष खड्गाधमस्त्याज्यो यदीच्छेज्जीवनं निजम्
५०
विम्बीदलसमा भूमिरङ्गं विम्बीफलोपमम्
विम्बीवज्रन्तु तद्बिद्यात्तज्जलं तिक्तमुच्यते ।पित्तश्लेष्मविकाराणां प्रशमाय प्रयुज्यते
५१
प्रियङ्गुसदृशन्त्वङ्गं भूमिश्च कपिलाकृतिः ।फलवज्रमिदं प्रोक्तं शाणे धूम्रं वमत्यपि
५२
अङ्गं सर्षपपुष्पाभं भूमिश्चैव सितासिता ।एतत् सर्षपवज्रं स्यात् शाणे वह्निं वमत्यपि
अपि कुण्डलिकां याति एतदत्यन्तकोमलम् ।एतत्प्रसादात् क्षितिपः कृत्स्नां साधयते महीम्
५३
नीलीरससमा भूमिरङ्गं नीलीतरङ्गवत् ।नीलीवज्रमिदं दृष्टं शाणे वह्निशिखां वमेत्
एष खड्गवरो नॄणामरिष्टभयनाशनः
५४
रक्तास्तिस्रो महारेखा भूमिश्चैव सितासिता
रक्ताङ्गमिति जानीयाद्वैरिपक्षविनाशनम् ।शाणेन यस्तु रक्तांवा नीलांवा वमते शिखाम्
रक्तस्पर्शनमात्रेण स्वयमेव निकृन्तति ।क्षतेऽस्य रक्तश्वयथुस्तृषा दाहश्च जायते
५५
अङ्गं वचादलसमं भूमिश्चैव सितासिता ।वचावज्रमिदं ज्ञेयं तत्क्षताद्बिषनाशनम्
एष खड्गवरो राज्ञा साधनीयः प्रयत्नतः
५६
रसोनादुत्तमं ह्यङ्गं भूमिस्तस्य दलोपमा
रसोनवज्रं जानीयात् शाणे वह्निं वमत्यपि ।अस्य धावनतोयेन आमवातविनाशनम्
५७
निरङ्का निर्म्मला भूमिर्धारा तीक्ष्णा खरः स्वरः ।सुमनावज्रमेतत् स्याद्भुवि नात्यन्तदुर्ल्लभम्
५८
मञ्जिष्ठासदृशा दीर्घास्तन्व्यो रेखाः सुविस्तराः ।जिङ्गीवज्रमिदं नाम सर्व्वकामार्थसाधनम्
५९
अङ्गं शमीपत्रसमं भूमिर्धूम्रा सितासिता ।शमीवज्रमिदं ज्ञेयं शनैश्चरमुदावहम्
शाणेषु वमते वह्निं सहते वह्निपीडनम्
६०
रोहितवल्कलसदृशमङ्गं भूमिः सितासितावापि ।धूम्रा गम्भीरस्वरयुक्तं धारा तीक्ष्णा सिताभवेद्रेखा
रोहिताख्यमिदं वज्रं सर्व्वारिष्टविनाशनम् ।वह्निसंस्पर्शमात्रेण किञ्चिच्चिमिचिमायते ।इत्ययं दुर्ल्लभः खड्गो देवानामपि कथ्यते
६१
शफरीवल्कलाकारमङ्गं भूमिः सितासिता ।प्रोष्ठीवज्रमिदं प्रोक्तं न्यस्तं तरति वारिणि
एष खड्गोत्तमो राज्ञां विपक्षकुलनाशकः ।कदाचिल्लभ्यते भाग्यैर्लभ्यते लभ्यते मही
६२
अङ्गं मारिषपत्राभं भूमिः स्याद्बिषमच्छविः ।इत्ययं मारिषाङ्गः स्यात् पृथिव्यां नातिदुर्लभः
६३
भृङ्गराजस्य पुष्पाभमङ्गं भूमिर्द्दलप्रभा ।आघातं सहते नैव एष खड्गाधमो मतः
६४
धारा तीक्ष्णा खुराकारा भूमिरङ्गविवर्ज्जिता ।आघातं सहते घोरं शाणे वह्निं वमत्यपि ।खुराङ्गमिति जानीयात् पृथिव्यां नातिदुर्ल्ल-भम्
६५
निर्मला समला भूमिर्भवेच्चैव कदा कदा ।मन्दा तीव्रा मवेद्धारा तडिद्बज्रस्य लक्षणम्
६६
नीलाञ्जनसमा भूमिरङ्गं जलतरङ्गवत् ।मेघाङ्गमिति जानीयाच्छाणे शीतं भवत्यपि
एष खड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः ।भर्त्तुः प्रतापं शमयेद्रविविम्बं यथा घनः
६७
मन्दा धारा भृशं गाढा भूमिरङ्गविवज्जिता ।पर्व्वताङ्गमिदं नाम सर्व्वत्रैवोपलभ्यते
६८
अङ्गं गुञ्जाफलसमं भूमिर्म्मीनदलोपमा ।गुञ्जावज्रमिदं पृष्ठं तप्तं भवति घर्षणे
शाणे सिन्दूरसङ्काशं रजो वमति चासकृत् ।एष खड्गवरो राज्ञा भाग्यादेवोपयुज्यते
अस्य प्रभावात्तन्नास्ति यन्न साधयते नृपः
६९
अङ्गं तनुशराकारं भूमिश्चैव सितासिता ।धारा तीक्ष्णा वमति शाणे वह्निसमाःशिखाः ।शरवज्रमिदं ज्ञेयं राज्ञां वाञ्छितसिद्धये
७०
दूर्व्वादलनिभा भूमिर्धारा तीक्ष्णा खरः स्वरः ।शाणेन वमते वह्निं दूर्व्वावज्रं सुदुर्ल्लभम्
७१
अङ्गं विल्वदलाकारं भूमिश्चैव सितासिता ।विल्ववज्रमिदं शाणे नीलपीते वमेच्छिखे
एष खड्गवरः प्रोक्तः शत्रूणां कुलनाशनः
७२
मसूरदलसङ्काशा भूमिरङ्गं मसूरवत् ।मसूराङ्गमिदं शाणे रजो वमति चारुणम्
७३
शोणपुष्पनिभा रेखा दीर्घा भूमिः सितेतरा ।शोणाङ्गमिति जानीयात् खड्गं परमदुर्ल्ल-भम्
७४
शटीदलसमा भूमिरङ्गं तत्कुसुमोपमम् ।शटीवज्रमिदं प्रायो लभ्यते गुणवत्तरम्
७५
मार्ज्जाररोमसदृशमङ्गं भूमिः सितेतरा ।मार्ज्जाराङ्गमिदं नाम्ना रोगशोकभयावहम् ।एष खड्गाधमस्त्याज्यो यदीच्छेद्भूतिमात्मनः
७६
केतकीपत्रसदृशमङ्गं यस्मिन् प्रतीयते ।विद्यात् केतकवज्रं तत् वाराणससमुद्भवम्
७७लौहप्रदीपस्य ।“अङ्गं मूर्व्वातन्तुनिभं भूमिर्मूर्वादलच्छविः ।शाणेन वमते शुक्लां शिखां मौर्वी भवेत्ततः
मौर्व्व्यङ्गमिदमुत्कृष्टं यशःकृईर्त्तिबलावहम्
७८
लिङ्गं तीक्ष्णं खरं गाढं शाणे वह्नेर्व्वमेत् कणम्
छिनत्त्यन्यविधं लौहं वज्राङ्गमिति तद्बदेत्
७९
कलायपुष्पसदृशमङ्गं मूमिः सितासिता ।कलायवज्रं जानीयात् तत्क्षते पाक इष्यते
८०
अङ्गं चम्पकपुष्पाभं भूमिः कृष्णा तथा सिता ।शिखां शाणे वमेच्छीतं तिक्तं तस्य जलं भवेत् ।इदं चम्पकवज्रं स्यात् सर्व्वत्र विजयप्रदम्
८१
अङ्गं बलादलसमं भूमिः शुक्ला तथेतरा ।बलावज्रमिदं ज्ञेयं नानाभावं भवेद्द्रुतम्
इत्ययं वातरोगाणां नाशने परमौषधम्
८२
अङ्गं वटारोहसमं भूमिर्व्वटदलच्छविः ।वटवज्रमिदं ज्ञेयं खरं खड्गाधमं बुधैः ।एतस्य स्पर्शमात्रेण नरो मुच्येत सम्पदा
८३
वंशनीलीसमा भूमिः खरधारा सिताकृतिः ।वंशाङ्गमिति जानीयाद्वंशवृद्धिकरं परम्
८४
भूमिः शालदलाकारा अङ्गं लघु सितासितम् ।शालाङ्ग एष खड्गः स्यात् पूज्यः सर्व्वार्थदायकः ।अयं शाणे वमेद्बह्निं धारा चाप्यथवा भवेत्
८५
भूमिः सितासिता वापि अङ्गं ज्येष्ठीसमं लघु ।ज्येष्ठीवज्रमिदं निन्द्यं स्पृश्यं वा हितेच्छुभिः
८६
पुराणजालसदृशमङ्गं भूमिः सितासिता
जालवज्रमिदं पूज्यं शत्रुसम्पत्तिनाशनम् ।यदि शाणे वमेन्नीलां शिखां वह्निं वमेच्च वा
तदैष दुर्ल्लभः खड्गो नान्यथा भयहेतुकः
८७
अङ्गं पिपीलिकाकारं भूमिर्धूम्रा तथासिता
पिपीलिकाङ्ग इत्येष तत्क्षते कण्डुसम्भवः ।स्वयं यदि भवेद्धूम्रः शाणे पूज्यतमस्तदा
८८
नलपत्रसमा भूमिरङ्गन्तत्कुसुमोपमम् ।नलाङ्गमिति जानीयाद्भर्त्तुः सर्व्वार्थसाधकः
८९
निरङ्का निर्म्मला भूमिर्घृष्टं घृष्टं वमेद्रजः ।दृढा धारा भृशं स्थूला आघातं सहते
रजोवज्रमिदं निन्द्यं शत्रूणां विजयावहम्
९०
कुष्माण्डबीजसदृशमङ्गं भूमिः सितासिता
कुष्माण्डवज्रं जानीयात्तत्क्षते वेगनिग्रहः
९१
अङ्गं नृरोमसदृशं भूमिर्धूम्रा सितासिता ।रोमाङ्गमिति जानीयात्तत्क्षते पिडकोद्गमः
९२
भूमिः स्नुहीदलसमा अङ्गं तत्कण्टकोपमम्
धारा तीक्ष्णा रवस्तीक्ष्णो लघुमानं खरा स्पॄशा ।सुधाङ्गः खड्ग इत्येष तत्क्षते दाहतृड्भ्रमाः
मुखाक्षिकर्णनासानां दाहः पाकश्च जायते ।अयं यदि सर्पाणां फणासूपरि विश्यते
फणाविदारमाप्नोति सर्पो लोटयते शिरः ।अस्य धावनतोयेन कुष्ठरोगविनाशनम्
९३
कर्कन्धुदलपृष्ठाभा भूमिरङ्गन्तु तत्समम् ।कर्कन्धुवज्रं जानीयात्तत्क्षते दाहनाशनम्
एष खड्गाधमस्त्याज्यो जेतव्या यदि विद्बिषः
९४
रङ्गं वकुलपुष्पाभं भूमिस्तत्फलसन्निभा
वकुलाङ्गमिदं पूज्यं शाणे सुरभिगन्धवत् ।तन्नास्ति जगतीमध्ये यदनेन साध्यते
९५
अङ्गं संमिश्रितं यस्मिन्न किञ्चिद्ब्यक्तमीक्ष्यते ।सर्व्वेषां दर्शनं वापि तीक्ष्णधारः खरस्वरः
एष काञ्जिकवज्रः स्याद्यत्नादेवोपलभ्यते ।नैनं प्राप्यापि वर्द्धन्ते शेषाश्चित्रादयोऽपि
९६
भूमिः कृष्णानिरङ्गा चेद्धारा तीक्ष्णा दृढापि ।आघातं सहते घोरं रक्तं स्पर्शेन यो विशेत्
शाणेन वह्निं वमति ध्रुवं वाप्यतिघर्षणात् ।महिषाङ्गः वै खड्गः पृथिव्यां नातिदुर्ल्लभः
९७
अत्यन्तनिर्म्मला भूमिः शरीरं प्रतिविम्बितम् ।धारा तीक्ष्णा स्वरस्तीक्ष्णः स्वच्छाङ्गं तद्बिनि-र्द्दिशेत्
९८
तस्मिन् यदा भवेद्रेखा ऊर्द्ध्वा ऋत्वाख्यकं तदा
९९अस्मिन्नपि भवेद्बक्रा रेखा वक्राभिधन्तु तत्
१००
एतत्त्रितयमुद्दिष्टं खड्गानां प्रवरं बुधैः ।प्रायशो लभ्यते लोके यदि सर्व्वगुणावहम्
इतीदं निखिलं प्रोक्तं वज्राणां लक्षणं मया ।प्रयत्नैर्लिखितं व्यक्तं सर्व्वेषां हितकाम्यया
इतः परन्तु लौहानां लक्षणं यत्र लक्ष्यते ।तस्य दासो भवाम्येष प्रतिज्ञेति कृता मया
द्बिलिङ्गमिश्रमालोक्य मिश्राङ्गमिति निर्द्दिशेत् ।सर्व्वेषामङ्गमालोक्य सर्व्वाङ्गमिति निर्द्दिशेत्
”इति खड्गपरीक्षायामङ्गाध्यायो द्बितीयः
*
खड्गस्य रूपाणि यथा, --“नीलीकलायकुसुमच्छविगृञ्जनाभाया चन्द्रनीलमणिकाचमणिप्रभा ।भूमिश्च या मरकतप्रतिमावभासाखड्गस्य नीलमिति रूपमिदं वदन्ति
”तत्र चेन्निन्दितान्यङ्गान्यरिष्टानि बहून्यपि ।दृश्यन्ते बहुदोषापि तथापि गुणवत्तरम्
या कालकाम्बुदमसीरसकालसर्प-शङ्कान्धकारकचभारसमा विभाति ।भूमिश्च या भ्रमरबन्धुसमावभासाखड्गस्य कृष्णमिति रूपमिदं वदन्ति
अत्र नेत्राणि सम्पत्त्यै अरिष्टान्यशुभानि ।साधारणमिदं रूपं प्राह नागार्ज्जुनो मुनिः
या प्रावृषेण्यनवभेकसमानवर्णागोमेदरत्नसदृशापि यस्य भूमिः ।खड्गस्य पिङ्गमिति रूपमिदं वदन्तिभर्त्तुर्य्यशोबलधनक्षयकारणाय
या मन्दधूमसदृशा शिरीषपुष्प-तुल्या विभाति मलिनापि खड्गभूमिः ।नागार्ज्जुनो वदति धूम्रमिदं हि रूपंभर्त्तुर्य्यशोबलधनाबलिवर्द्धनाय
द्बिरूपं मिश्रितं कृत्वा शङ्करं प्रवदेद्बुधः ।त्रिभी रूपैः समेतन्तु खड्गं त्रिपुरसङ्गितम्
रूपैश्चतुर्भिः संयुक्तं चतुरं खड्गमुत्तरम्
”इति लौहार्णवस्य खड्गपरीक्षायां वर्णा-ध्यायस्तृतीयः
*
“जातिश्चतुर्व्विधा प्रोक्ता खड्गानां या पुरा मया ।सम्प्रत्यपि प्रयत्नेन तासां लक्षणमुच्यते
शुद्धाङ्गः शुद्धवर्णश्च सुनेत्रः सुस्वरश्च यः ।मृदुस्पर्शः सुसन्धेयस्तीक्ष्णधारो महागुणः
खड्गं ब्राह्मणजातिं तं प्राह नागार्ज्जुनो मुनिः ।अस्य क्षते भवेच्छोथो घोरः सर्व्वाङ्गगोचरः
मूर्च्छा पिपासा दाहश्च ज्वरो मृत्युश्च जायते ।अघृष्टं त्रिफलाकल्कमर्द्धरात्रिन्दिवोषितम् ।मलिनत्वं सन्धत्ते निर्म्मलं कुरुते परम् ।तरुणादित्यकिरणस्पर्शादेव तृणे स्थितः
दहेत् सर्व्वं तु करं पुरुषस्य हि धारिणः ।गायत्त्र्युच्चारमात्रेण खरतां व्रजति स्फुटम्
एष खड्गवरः सर्व्वमरिष्टं नाशयेद्ध्रुवम् ।अस्य प्रसादात् पुरुषस्त्रिलोकमपि साधयेत्
तस्मादेष मनुष्याणां सुलभो हि भूतले ।दृश्यन्ते प्रायशः स्वर्गे कुशद्बीपे हिमालये
धूम्रवर्णं महासारं तीक्ष्णधारं खरस्वरम् ।सर्व्वाघातसहं सर्व्वनेत्रवर्णस्वराकरम्
खड्गं क्षत्त्रियजातिं तं जानीयात् खड्गकोविदः ।अस्य क्षते भवेद्दाहस्तृषानाहो ज्वरो भ्रमः
मृत्युश्च जायते शाणे वमेद्बह्निकणान् बहून् ।संस्कारे चाप्यसंस्कारे नैर्म्मल्यं तस्य लक्ष्यते
शाणेऽप्यशाणे खरता मूर्द्ध्नि चात्यन्ततीक्ष्णता ।रक्तस्पर्शनमात्रेण विशेदन्तरमन्तरम्
अयं खड्गवरः पूज्यो मनुष्यैरपि लभ्यते
नीलवर्णः कृष्णवर्णः संस्कारे निर्म्मलो भवेत्
शाणेन खरता चास्य घाततुल्यं निकृन्तति ।वैश्यजातिरयं खड्गः क्षते त्वङ्मात्रदर्शनम्
नात्युत्कृष्टो नातिहीनं सर्व्वत्रैवोपलभ्यते
सजलाम्भोदसङ्काशः स्थूलधारो मृदुस्वरः
संस्कारे चैव मलिनः शाणे चापि खरेतरः ।शूद्रजातिरयं खड्गः क्षते नाल्पापि वेदना
दूरादेषोऽधमस्त्याज्यो यदीच्छेद्धितमात्मनः ।प्रायशः सर्व्वलोकेषु स्वयमेवोपदृश्यते
द्बयोर्लक्षणमालोक्य जारजं खड्गमादिशेत् ।त्रयाणां लक्षणेनैव त्रिजातिं खड्गमादिशेत् ।चतुर्णां लक्षणेनैव जातिसङ्करमुच्यते
”इति लौहावर्णवस्य खड्गपरीक्षायां जात्य-ध्यायः
*
अथ त्रिंशन्नेत्राणां लक्षणानि ।“चक्राकारं यदा नेत्रं खड्गस्याङ्गे प्रदृश्यते ।तं चक्रनेत्रं जानीयात् भर्त्तुः सर्व्वार्थसाधनम्
अनेनैकेन खड्गेन कृत्स्नां साधयते महीम्
प्रफुल्लपद्मसङ्काशं नेत्रं पद्मदलोपमम्
यदि वा दृश्यते खड्गे पद्मनेत्रं समादिशेत् ।अयं खड्गवरो यत्र तत्रैव कमलालया
ऊर्द्ध्वा स्थूला यदा रेखा गदाकारा प्रतीयते ।गदानेत्रमिदं विद्धि सर्व्वशत्रुनिसूदनम्
शङ्खाकारं यदा नेत्रं खड्मध्येऽभिदृश्यते ।शङ्खनेत्रमिदं सर्व्वदेवानामपि दुर्ल्लभम्
डमरुप्रतिमं नेत्रं यस्य भूमौ प्रतीयते ।सर्व्वार्थसाधकं खड्गं तं विद्याद्बिजयप्रदम्
धनुःस्वरूपं यन्नेत्रं धनुर्नेत्रमुषन्ति तम् ।तस्य स्पर्शनमात्रेण मन्दोऽपि प्रमुखायते
अयं निशीथे विजने खड्गो झनझनायते
यन्नेत्रमङ्कुशाकारं तंविद्याद्गुणवत्तरम्
खड्गमङ्कुशनेत्राख्यं भर्त्तुः सर्व्वार्थसाधकम् ।अलक्ष्मीपापरक्षोघ्नं कृत्याग्रहनिवारणम्
छत्राकारं यदा नेत्रं छत्रनेत्रं वदन्ति तम् ।अस्य प्रभावात् क्षीणोऽपि सार्व्वभौमोभवेन्नृपः
दीनोऽपि सुखीभूयात् सुखी भूयान्महेश्वरः ।महेश्वरोऽपि सचिवः सचिवो मण्डलेश्वरः
मण्डलेशश्चक्रवर्त्ती भवेदत्र संशयः
पताकाकृतिनेत्रञ्चेत् सर्व्वसम्पत्तिकारकम्
पताकानेत्रमाहुस्तं संग्रामे विजयप्रदम्
नेत्रं वीणाकृति यदा वीणानेत्रमुषन्ति तम् ।निशीथे विजने खड्गो वीणावत् स्वनमावहेत् ।अस्य प्रभावात् सर्व्वेश्या अपि वश्या भवन्तिहि
१०
मत्स्याकृति यदा नेत्रं मत्स्यनेत्रमिमं विदुः ।अस्य प्रभावात् क्षितिपः कृत्स्नां साधयतेमहीम्
११
शिवलिङ्गसमं नेत्रं लिङ्गनेत्रमिमं विदुः ।भर्त्तुः सर्व्वार्थसंसिद्ध्यै शत्रूणां नाशनाय
वामपार्श्वे तु यात्रायां धर्त्तव्योऽयं तथा रणे १२ ।अत्र ध्वजार्द्धचन्द्रकलसानां लक्षणानि पति-तानि १३ १४ १५ ।शूलाकृति यदा नेत्रं शूलनेत्रं वदन्ति तम् ।सर्व्वार्थसाधकः सर्व्वारिष्टानिष्टप्रणाशनः
१६
शाद्र्दूलनेत्रं तं विद्यात् शाद्र्दूलाकृतिनेत्रतः ।शत्रुश्रेणीविनाशाय संग्रामे विजयाय
१७
सिंहाकृति यदा नेत्रं सिंहनेत्रमिमं विदुः ।अस्य प्रभावात् क्षीणोऽपि कृत्स्नां साधयतेमहीम्
१८
तत् सिंहासननेत्रं स्यात् नेत्रे सिंहासनोपमे ।अस्य प्रभावात् क्षितिपः कृत्स्नां साधयतेमहीम्
१९
गजाकृति यदा नेत्रं गजनेत्रं वदन्ति तम्
अस्य प्रभावात् क्षीणोऽपि लभते राजसम्पदम्
२०
नेत्रं हंसाकृति यदा हंसनेत्रं वदन्ति तम् ।अस्य प्रभावात् भूपालो यशःप्राप्नोत्यनुत्तमम्
२१
मयूराकृतिनेत्रे द्वे तन्नेत्रमिति निर्द्दिशेत्
अस्य प्रभावान्मनुजः सर्पदर्पान्निसूदयेत्
२२
जिह्वाकारं यदा नेत्रं जिह्वानेत्रं वदन्ति
संग्रामखर्परेष्वेवं पिबेद्वैरिशिरोरजः
२३
दन्ताकारं यदा नेत्रं दन्तनेत्रं वदन्ति तम्
अयं रिपुगणं मूर्द्ध्नि चर्व्वयत्यतिभैरवम्
२४
सड्गाकारं यदा नेत्रं खड्गनेत्रं वदन्ति तम् ।तस्य प्रभावान्मनुजस्त्रिलोकीं वशयेदपि
२५
मनुष्यपुत्त्रिकाकारा पुत्त्रिकानेत्रमुच्यते
अयं सशैलां सद्बीपां कृत्स्नां साधयेत् क्षितिम् ।न चेयं पुत्त्रिका किन्तु जयलक्ष्मीरिह स्वयम्
तस्मान्नायं मनुष्याणामल्पभाग्येन लभ्यते
२६
चामराकृतिनेत्रत्वात्तन्नेत्रमिति निर्द्दिशेत् ।अस्य प्रभावाज्जायन्ते चामरोद्धृतसम्पदः
२७
एकानेकशिखे शैलनेत्रे तन्नेत्रसंज्ञकम् ।अपि राष्ट्रभये युद्धे विषमे वैरिसङ्कटे ।स्थिरीकरोति धरणीं धरणीं पर्व्वतो यथा
२८
पुष्पमालासमं नेत्रं पुष्पनेत्रं वदन्ति तम् ।अस्य प्रभावात्तुष्यन्ति ग्रहाः सर्व्वाश्च देवताः
२९
भुजङ्गमसमे नेत्रे सर्पनेत्रमिदं मतम् ।अयं शत्रुगणं हन्ति यथा मर्त्त्यं भुजङ्गमः
३०
सवर्णं समवर्णञ्च तत् सर्व्वं द्बिविधं मवेत् ।सवर्णं शान्तिसम्पत्त्यै रिपुनाशे तथापरम्
द्बयोरेकत्र पृष्ठे तत् पुनर्विविधं भवेत् ।एकलोकसुखं नेदं ददाति द्बिविधं द्बयोः
मूलमध्याग्रसंस्थानात्तत् पुनर्द्बिविधं भवेत् ।अग्रे चाग्र्यफलं ज्ञेयं मध्ये मध्यफलं मतम्
मूले फलं जघन्यं स्यात् प्राह नागार्ज्जुनो मुनिः ।एकं द्वे त्रीणि नेत्राणि नात्र संख्या व्यतिक्रमः
एकं घर्म्मः स्वर्गकामौ द्बे त्रीणि त्रिवर्गकम् ।तत्फलानि प्रयच्छन्ति प्राह नागार्ज्जुनो मुनिः
द्बिनेत्रमिति जानीयात् स्वसंज्ञां नेत्रयोर्द्वयोः ।त्रिनेत्रञ्च त्रिभिर्ज्ञेयं बहुनेत्रमतः परम्
यथोत्तरं गुणवहं खड्गमाहुरनुत्तमम् ।दिङ्मात्रमिति निर्द्दिष्टं नेत्राणां शुभदायिनाम्
तीव्राणां मङ्गलानाञ्च दर्शनञ्च शुभावहम्
”इति खड्गपरीक्षायां नेत्राध्यायः पञ्चमः
*
“यथा नेत्रस्य संस्थानं तथारिष्टस्य लक्षयेत् ।नेत्रेषु स्थाननियमो नारिष्टे स्थाननिर्णयः
प्रशस्ताङ्गोऽपि यः खड्गोऽरिष्टेनैकेननिन्दितः
”अथ त्रिंशदरिष्टानां लक्षणानि
“छिद्रवद्दृश्यते खड्गे स्वभावेन लक्ष्यते ।छिद्रारिष्टमिदं विद्धि भर्त्तुर्व्वीर्य्यबलापहम्
यदा काकपदाकारमरिष्टं दृश्यते क्वचित् ।अयं काकपदारिष्टः सर्व्वाभीष्टविनाशनः
रेखाकारं यदारिष्टमूर्द्ध्वंवा तिर्य्यगेव वा ।रेखारिष्टमिदं विद्धि भर्त्तुवीर्य्यबलापहम्
भिन्नभ्रान्तिकरं पापं भिन्नारिष्टमिदं विदुः ।भर्त्तुः कुलं यशो राष्ट्रं नाहत्वा व्रजेत्स्वयम्
यदा भेकशिरोरूपमरिष्टं दृश्यते क्वचित् ।भेकारिष्टमिदं नाम्ना संग्रामे भयदायकम्
अरिष्टे मुषिकाकारे मुषिकारिष्टमुच्यते ।अयं खड् गाधमः कुर्य्यात् पत्युः पातालसङ्ग-मम्
विडालनयनाकारो बिन्दुरेकोऽतिविस्तरः ।विडालारिष्टमेतत् स्यात् भर्त्तुः सर्व्वार्थनाश-नम्
अरिष्टं शर्कराकारं यदा स्पर्शेन बुध्यते ।शर्करारिष्ठमेतत् स्याद्धनबुद्धिविनाशनम्
यदा नीलीरसाभासमरिष्टं दृश्यते क्वचित् ।नील्यरिष्टमिदं ज्ञेयं यशोलक्ष्मीविनाशनम्
अरिष्ठे मशकाकारे मशकारिष्टमुच्यते ।भर्त्तुः कुलं यशो बुद्धिं धृतिं प्रीतिञ्च नाशयेत्
१०
भृङ्गमाप्रतिमो विन्दुरेकोऽनेकोऽथवा यदा ।भृङ्गमारिष्ट इत्येष धृतिस्मृतिविनाशनः
११
सूचीरूपमरिष्टञ्चेदूर्द्ध्वंवा तिर्य्यगेव वा ।सूच्यरिष्टमिदं नाम भर्त्तुः कुलविनाशनम्
१२
त्रयश्चेद्बिन्दवो राजन् ! पङ्क्तयो विषमेण वा ।उपर्य्युपरि वाघोऽधस्त्रिबिन्द्वाख्यमरिष्टकम्
तस्य स्पर्शनमात्रेण सचेलः स्नानमाचरेत्
१३
कालिकारिष्टमित्येतद् धीधृतिस्मृतिनाशनम्
१४
एकत्र यदि ह्येष प्रयत्नेनापि संवृतः ।दारी नाम महारिष्टं सर्व्वाभीष्टविनाशनम्
अनेकगुणसम्पन्नः खड्गो लोकैर्न गृह्यते
१५
कपोतपक्षप्रतिममरिष्टञ्चेत्तदाह्वयम् ।भर्त्तुः कुलं यशो विद्यां बलं बुद्धिञ्च नाशयेत्
१६
काकाकृति यदारिष्टं काकारिष्टं तदोच्यते ।अनेन भर्त्तुः संग्रामे भङ्ग एवोपजायते
१७
अरिष्टे खर्पराकारे खर्परारिष्टमुच्यते ।भर्त्तुर्यशो बलं वीर्य्यं बुद्धिं प्रीतिञ्च नाशयेत्
१८
यदान्यल्लोहशकलं लग्नं स्यादिव लक्ष्यते ।शकलीति वै खड्गः सर्व्वाभीष्टनिसूदनः
१९
क्रोडीकुशपत्रकयोर्लक्षणे पतिते २० २१ ।यस्मिन्निम्नमिवाभाति मध्ये वा दृश्यते क्वचित् ।जालारिष्टमिदं नाम भर्त्तुः कुलधनापहम्
२२
एकैकरेखा दीर्घाग्रा यदा पल्लविनी भवेत् ।स्पर्शे वाथ करेणाथ करालारिष्टमुच्यते
अयं हि क्षितिपालानां दृष्टियोग्यो भवेन्न हि ।दर्शनादेव नश्यन्ति यशोलक्ष्मीजयादयः
२३
अरिष्टे कङ्कपत्राभे कङ्कारिष्टं तदुच्यते ।अस्य स्पर्शनमात्रेण नश्यत्यायुर्यशो बलम्
२४
खर्ज्जूरवृक्षप्रतिमं यदारिष्टन्तु लक्ष्यते ।खर्ज्जुरारिष्टमेतत् स्याद्भर्त्तुः कुलधनापहम्
२५
गोशृङ्गाभमरिष्टञ्चेत् शृङ्गारिष्टं तदुच्यते ।अनेन भर्त्तुर्नश्यन्ति लक्ष्मीबलकुलादयः
२६
गोपुच्छाकृति चेत् खड्गे अरिष्टं संप्रतीक्ष्यते ।पुच्छारिष्टमिदं नाम भर्त्तुः सर्व्वार्थनाशनम्
२७
खनित्राभमरिष्टञ्चेत् खनित्रारिष्टमुच्यते ।शूराणामपि संग्रामे भङ्गमेतत् प्रयच्छति
२८
अरिष्टे लाङ्गलाकारे लाङ्गलारिष्टमुच्यते ।अयं पापात् पापतरः प्रेक्षणीयो भूभुजा
अयमायुः श्रियं हन्ति विद्यां बलमशेषतः
२९
वडिशारिष्टस्य लक्षणं पतितम्
३०
इत्यरिष्टानि प्रोक्तानि नानातन्त्रात् प्रयत्नतः ।विचार्य्यैतानि मतिमान् खड्गं कोशे निधापयेत्
दिङ्मात्रमिदमुद्दिष्टमरिष्टानां हितात्मनाम् ।अमङ्गलानां मन्दानां दर्शनञ्चाशुभावहम्
अरिष्टमेकमेव स्याद्द्विररिष्टं शुभावहम् ।अन्योन्यमशुभं हन्याद्विषस्य हि विषं यथा
एकमारभ्य सप्तान्तमरिष्टं प्राह नान्यथा ।यथोत्तरं द्बिगुणितं फलमाहुर्मनीषिणः
इति खड्गपरीक्षायामरिष्टाध्यायः षष्ठः
*
अथ द्बिबिधा भूमिः ।दिव्यमौमविभागेन भूमिर्या द्बिविधा मता ।दिव्या दिवि समुद्भूता भौमा भूमिसमुद्भवा
तल्लक्षणमशेषेण लिख्यते तन्निबोधत ।देवदानवयोर्मध्ये खड्गसृष्टिरभूत् पुरा
ते खड्गाः पुण्यदेशेषु केषु केषु प्रतिष्ठिताः
दिव्यलक्षणं यथा, --ये खड्गाः स्थूलधारा भृशमतिलघवो निर्म्म-लाङ्गाः सुनेत्राये रिष्टाश्चास्वरूपाः सुविमलतनवश्चाप्यसंस्कार-योगात् ।दुर्भेद्या दुर्घटाश्च ध्वनिगुणगुरवो यत्क्षते दाह-पाकौते दिव्याः कुर्व्वतेऽमी कुलधनविजयश्रीयशो-वृद्धिमाशु
अथ भौमलक्षणं बृहद्धारीते ।पूर्व्वं महेशेन विषाणि यानिभुक्तानि तेषां पतितास्तु बिन्दवः ।यस्मिन् प्रदेशे एव देशःकालायसामाकरतां जगाम
पुरामृतं क्षीरसमुद्रमध्या-दुत्पाद्य संगृह्य ययुः सुरेन्द्राः ।तद्बिन्दवो यत्र निपेतुरेषशुद्धायसामाकरतां जगाम
ये विषोत्था भृशङ्कालाः खराङ्गाः सम्भवन्ति हि ।मूर्च्छादाहज्वरानाहशोकहिक्कावमीकराः
येऽमृतोत्थाः कर्वुराङ्गा मन्दाङ्गाः संभवन्ति ।बलीपतितमालिन्यजराव्याधिविनाशनाः
यत्रैव पतितं यत्तु तत्तदाकरताङ्गताः
तद्यथा, --वाराणसीमगधसिंहलभूमिभागेनेपालभूमिषु तथाङ्गमहीप्रदेशे ।सौराष्ट्रिकेऽन्यतरधन्यमहीविभागेशुद्धायसां कृतिवराः प्रवदन्ति जन्म
तद्यथा, --वाराणसेयाः सुस्निग्धास्त्रीक्ष्णधाराः सदङ्गिनः ।लघवः सुखसन्धेया ज्ञेयाश्चाभेद्यशालिनः
मागधाः कर्कशाः स्थूलधारा गूढतराङ्गिनः ।गुरवो दुःखसन्धेयाः खड्गा ज्ञेया विचक्षणैः
नेपालदेशप्रभवा निरङ्गा निश्चलाश्च ये ।ज्ञेयाः सदङ्गा मलिना लघवः स्थूलधारिणः
कालिङ्गा गुरवः स्वच्छा व्यक्ताङ्गास्तन्तुहेतवः ।सौराष्ट्रा निर्म्मलाः स्निग्धाः सुव्यक्ताङ्गा भृशंखराः
सिंहलद्बीपजातानां चतुर्द्धा भेद उच्यते ।केचित् सदङ्गा गुरवः कर्कशाः स्निग्धधारिणः
केचित् सदङ्गा लघवः सुस्निग्धा स्थूलधारिणः ।एषां रूपेण मिश्रेण ज्ञेया हि द्बिजजातयः
सामान्यात् द्बिगुणञ्चौड्रं कलिर्दशगुणस्ततः ।कलेः शतगुणं भद्रं भद्राद्बज्रं सहस्रधा ।वज्रात् षष्ठिगुणः पाण्डिर्निरविर्द्दशभिर्गुणैः ।ततः कोटिसहस्रेण ह्ययस्कान्तः प्रशस्यते
”इत्यादिकं रसायनौपयौगिकमेव तु खड्गेदृष्टफलम्
यदाह ।आसान्तु लौहजातीनां वज्रं खड्गाय युज्यते ।तथाच ।ये खड्गास्तीक्ष्णधारा भृशमतिगुरवः षड्-गुणाढ्याः सुभेद्याःकेचित् साङ्गा निरङ्गाः कति समलानिर्म्मलाः केचिदेव ।ते भौमाः कुर्व्वतेऽमी धनविजयबलं षड्गुणानिर्गुणा वाते दुःखं शोकमुग्रं दधति बलकुलश्रीयशोनाश-कास्ते
इति खड्गपरीक्षायां भूम्यध्यायः सप्तमः
*
अथाष्टधा ध्वनिः ।ध्वनिरष्टविधः प्रोक्तो यः पूर्व्वं सूत्रसंग्रहे ।तेषामपि लिखाम्यत्र सगुणं लक्षणाष्टकम्
तद्यथा, --पूर्व्वे चत्वारः शुभदाः परे निन्दास्पदास्तथा ।विचार्य्य खड्गमानञ्च कर्त्तव्यं खड्गकोविदैः
घोरस्तार इति ख्यातो द्बिविधः खड्गकोविदैः ।घोरः स्यात् सुखसम्पत्त्यै तार उच्चाटने मतः
यत्र हंसरवस्येव खड्गे नखहते ध्वनिः ।हंसध्वनिरयं खड्गः सकलार्थप्रसाधनः
कांस्यशब्द इवाभाति यस्मिन् खड्गे हते ध्वनिः ।कांस्यध्वनिरयं खड्गः प्राह नागार्ज्जुनोमुनिः
अभ्रस्य लक्षणं पतितम्
ढक्काशब्द इवाभाति यस्मिन् खड्गे हते ध्वनिः ।ढक्काध्वनिरयं खड्गः सर्व्वशत्रुनिसूदनः
काकस्वर इवाभाति यस्मिन् खड्गे हते ध्वनिः ।काकस्वरोऽयं खड्गः स्यात् श्रीयशःकुल-नाशनः
तन्त्रीस्वरसमो यस्मिन् भवेत् खड्गे हते ध्वनिः ।तन्त्रीध्वनिरयं खड्गः कुलश्रीधननाशनः
खरस्येव ध्वनिर्यस्मिन् खरध्वनिरयं मतः ।श्रीयशोज्ञानविज्ञानजयतेजोविनाशनः
प्रस्तरस्येव यः खड्गः निन्द्यः खडग-लक्षणे
गभीरतारध्वनिता खड्गस्याशुभलक्षणम् ।उत्तानमन्द्रध्वनिता खड्गस्याशुभलक्षणम्
अपाङ्गनेत्रहीनोऽपि खड्गः सुध्वनिरुत्तमः ।अन्धः कुरूपो मनुजो यथा भुवि सुगायनः
सर्व्वलक्षणसम्पन्नः खड्गो यो ध्वनिवर्ज्जितः ।स निन्द्यः सुन्दराङ्गोऽपि यथा वाक्यविवर्जितः
नखेन वाथ दण्डेन तथा लौहशलाकया ।लोष्टेन शर्कराभिर्व्वा ध्वनिविज्ञानमुच्यते
”इति खड्गपरीक्षायां ध्वन्यध्यायोऽष्टमः
*
अथ द्बिविधं मानम् ।यन्मानं द्बिविधं प्रोक्तं तस्य लक्षणमुच्यते ।उत्तमाधमभेदेन भेदो हि द्बिविधो मतः
उत्तमं यद्बिशालं स्याल्लघुमानं प्रकीर्त्तितम्
अधमं तच्च यत् खर्व्वं गुरुमानं प्रकीर्त्तितम्
तत्पुनस्त्रिविधं प्रोक्तमादिमध्यान्तभेदतः ।यो मुष्टिविंशतिसमायततीव्रधारोभर्त्तुर्भवेत् प्रसरतोऽपि षडङ्गुलीभिः ।मानेन चाष्टपलिकः हि खड्गमध्येनातिप्रकृष्टनविकृष्टफलप्रदः स्यात्
यो द्बादशाष्टनवमुष्टिभिरायतः स्यात्मन्दो भवेत् प्रसरतोऽपि चतुर्थभागः ।तावत्पलैः परिमितस्तु ततोऽधिको वाखड् गाधमो धनयशःकुलनाशनाय
नागार्ज्जुनोऽपि ।यावत्यो मुष्टयो दैर्घ्ये तदर्द्धाङ्गुलयो यदा ।प्रसरे तच्चतुर्थांशमितिवै मानमुत्तमम्
यावत्यो मुष्टयो दैर्घ्ये प्रसरे तत्त्रिभागिकः ।पलैस्तदर्द्धैस्तुलितः खड्गो मध्य उच्यते
यावत्यो मुष्टयो दैर्घ्ये तुर्य्यांशः प्रसरे तु तत् ।अधमः कीर्त्तितः खड्गस्तत्समो वाधिकःपलैः
भौमानामिदमुद्दिष्टं दिव्यास्तु लघवो मताः
”इति खड्गपरीक्षायां मानाध्यायः
*
भोजस्तु ।“दीर्घता लघुता चैव खरविस्तीर्णता तथा ।दुर्भेद्यता सुघटता खड्गानां गुणसंग्रहः
खर्व्वता गुरुता चैव मन्दता तनुता तथा ।सुभेद्यता दुर्घटता खड्गानां दोषसंग्रहः
इति निखिलमुदारमुक्तमत्रबहुतन्त्रेषु निकृष्य खड्गयष्टेः ।नृपतिरिति विचिन्त्य यो विधत्तेस चिरतरां श्रियमुच्छ्रितां लभेत
”इति युक्तिकल्पतरूक्तखड्गपरीक्षा समाप्ता