| YouTube Channel

तप्तमाष (taptamASa)

 
वाचस्पत्यम्
Sanskrit
तप्तमाष
पु०
तप्तं माषमितं सुवर्णादिकं यत्र ।दिव्यभेदे तद्विधिः वीरमित्रोदये दर्शितो यथातत्र पितामहः “तप्तमाषस्य वक्ष्यामि विधिमुद्धरणेशुभम् कारयेदायसम्पात्रं ताम्रं वा षोडशाङ्गुलम् ।चतुरङ्गुलखातन्तु मृण्मयं वापि मण्डलम्” कर्ष-षोडशांशप्रमितं मण्डलं सूर्य्यमण्डलाकारं वर्त्तुल-मिति यावत् एतादृशं पात्रं घृततैलाभ्यां पूरयेदि-त्याह एव “पूरयेद्घृततैलाभ्यां पलैर्विंशतिभिस्तुतत् सुवर्णं माषकन्तस्मिन् सुतप्ते निःक्षिपेत्ततः ।अङ्गुष्ठाङ्गुलिमूलेन तप्तमाषकमुद्धरेत्” इति सुवर्णमाष-कङ्कर्षषोडशांशप्रमाणम् सुवर्णग्रहणं रूप्यमाषनिवृ-त्त्वर्थम् तन्माषपरिमितं हिरण्यं ताम्रं वा पिण्डी-कृत्य निःक्षिपेत् अङ्गुष्ठाङ्गुलिमूलेन अङ्गुष्ठतर्जनीम-ध्यमाभिरित्यर्थः इदञ्च तप्तमाषोद्धरणम् प्राड्विवाकेन घृततैलयोस्तापे समारब्धे धर्मावाहनादिशोध्यशिरःपत्रारीपणान्तं सर्वसाधारणं कर्म विधाय “त्वमग्ने ।वेदाश्चत्वारः” इत्यादिना अग्निदिव्यप्रकरणोक्तेम मन्त्रे-णाभिमन्त्र्य कारयितव्यम् शोध्यस्तु याज्ञवल्क्योक्तेन“त्वमग्ने! सर्वभूतानामित्यादि” मन्त्रेणाभिमन्त्र्य तप्त-माषमुद्धरेत् अतएव वृहस्पतिः “समुद्धरेत्तैलघृतात् सुत-प्तात्तप्तमाषकमिति” कल्पान्तरमाह एव “सौवर्णेराजते ताम्रे वायसे मृण्मयेऽपि वा गव्यं घृतमुपा-दाय तदग्नौ तापयेच्छुचिः सौवर्णीं राजतीं ताम्री-मायसीं वा सुशोभनाम् सलिलेन सकृद्धौतां प्रक्षिपे-त्तत्र मुद्रिकाम् भ्रमद्वोचितरङ्गाद्ये ह्यनखस्पर्शगोचरे ।परीक्षेदार्द्रपर्णेन चटत्कारसवोषकमिति” ततःप्राड्विवाको धर्मावाहनादिपत्रारोपणान्तं साधारणंकर्म कृत्वा घृतमभिमन्त्रयेत् मन्त्रस्तु तेनैव दर्शितः “तत-श्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत् परं पवित्रममृतंघृत! त्वं यज्ञकर्मसु दह पावक! पापं त्वं हिमशीतोभवेति च” ततः प्राड्विवाकः शोध्येन “त्वमग्ने!सर्वभूतानामित्यादि मन्त्रेणाभिमन्त्रणं कारयित्वामुद्रिकां ग्राहयेदित्याह एव “उपोषितन्ततः स्नात-मार्द्रवासःसमावृतम् ग्राहयेन्मुद्रिकान्तान्तु घृतमध्यग-तान्तथा प्रदेशिनीं तस्याथ परीक्षेयुः परीक्षकाः”इति अत्र तर्जन्यैव मुद्रिकोद्धरणं कार्य्यं तस्यांपरीक्षाभिधानात् पक्षद्वयेऽपि शुद्ध्यवधारणोपायं वृहस्प-तिराह “कराग्रं योन धुनुयात् विस्फोटो वा नजायते शुद्धो भवति धर्मेण पितामहवचो यथेति” ।कालिकापुराणेऽपि “न धुनेयुः कराग्रन्तु यस्य रक्तंन जायते विस्फोटाद्यैस्तथा दोषैः शुद्धो यस्यनोद्गतमिति” रक्तं रक्तवर्णम् यस्य कराग्रं विस्फो-टाद्यैर्नोद्गतमित्यन्वयः पितामहोऽपि “यस्य विस्फो-टका स्युः शुद्धोऽसावन्यथाऽशुचिरिति” ।तण्डुलपरीक्षाशब्दे अधिकं दृश्यम्