तनूनपात् (tanUnapAt)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishतनूनपात् - tanUnapAt - - self-generated
तनूनपात् - tanUnapAt - - son of himself
तनूनपात् - tanUnapAt - - sacred name of Fire
तनूनपात् - tanUnapAt - - Ceylon Leadwort plant [ Plumbago zeylanica - Bot. ]
तनूनपात् - tanUnapAt - - fire
तनूनपात् tanUnapAt self-generated
Monier Williams Cologne
Englishत॑नू—न॑पात् (त॑नू-) ‘son of himself, self-generated (as in lightning or by the attrition of the Araṇis viii, 5)’, a sacred of Fire (chiefly used in some verses of the Āprī hymns), (acc. °पातम्, x, 92, 2), v, 27, 1
v, 5 (dat. °प्त्रे
i, 2, 10, 2), ii, 4
i, 5, 3
iii (gen. °प्तुर्, 4, 2, 5 irr. °प्ता [only etymological 4, 2, 5] 4, 2, 11),
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiतनूनपात्
तनू-नपात् -
आग
Shabdartha Kaustubha
Kannadaतनूनपात्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಅಗ್ನಿ /ಬೆಂಕಿ
निष्पत्तिः - > पत्लृ (गतौ) + णिच् - "शतृ" निपा० (६-३-७५) । अद (भक्षणे) - "विट्" (३-२-६८)
व्युत्पत्तिः - > तनूं न पातयति जठररूपेण शरीरं धारयति । तन्वा ऊनं कृशं पाति । तनूनपं घृतादि अत्ति ।
प्रयोगाः - > "बभार बाष्पैर्द्विगुणीकृतं तनुस्तनूनपाद्धूमवितानमाधिजैः"
उल्लेखाः - > माघ० १-६२
तनूनपात्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಪ್ರಜಾಪತಿಯ ಪೌತ್ರ /ಬ್ರಹ್ಮನ ಮೊಮ್ಮಗ
व्युत्पत्तिः - > तनोति विस्तारयति सृष्टिम् इति तनूः ब्रह्मा, तस्य नयात् पौत्रः
तनूनपात्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗೋಘೃತ /ಹಸುವಿನ ತುಪ್ಪ
व्युत्पत्तिः - > तनोति विस्तारयति भोगान् इति तनूः गौः, तस्याः नयात् पौत्रम् घृतम्
L R Vaidya
EnglishWordnet
Sanskrit चित्रकः, तनूनपात्
भेषजरुपेण उपयुज्यमानः वृक्षः।
"चित्रकात् विविधाः भेषजाः निर्मीयन्ते।"
नाममाला
Sanskritपवनसख, पवमानसख, वायुसख, वातसख, अनिलसख, मरुत्सख, समीरणसख, गन्धवाहसख, श्वसनसख, सदागतिसख, नभस्वत्सख, मातरिश्वसख, चरण्युसख, जवनसख, प्रभञ्जनसख, अग्नि, शिखिन्, वह्नि, पावक, आशुशुक्षणि, हिरण्यरेतस्, सप्तार्चिस्, जातवेदस्, तनूनपात्, स्वाहापति, हुताश, ज्वलन, दहन, अनल, वैश्वानर, कृशानु, रोहिताश्व, विभावसु, वृषाकपि, समीगर्भ, हव्यवाह, हुताशन
तत्सखाऽग्निः शिखी वह्निः पावकश्चाशुशुक्षणिः ।
हिरण्यरेता सप्तार्चिर्जातवेदास्तनूनपात् ॥ ६४ ॥
स्वाहापतिर्हुताशश्च ज्वलनो दहनोऽनलः ।
वैश्वानरः कृशानुश्च रोहिताश्वो विभावसुः ॥ ६५ ॥
वृषाकपिः समीगर्भो हव्यवाहो हुताशनः ।
verse 0.1.1.64
page 0034
शब्दकल्पद्रुमः
Sanskritवाचस्पत्यम्
Sanskritतनूनपात्(द्) तनूं न पातयति पत--णिच्--क्विप्नभ्राङित्यादिना नञोन नलोपः । तनूनं पातिरक्षति पा--शतृ, तन्वा ऊनं कृशं पाति तनूनपंघृतं तदत्ति अद--क्विप् वा । अग्न्रौ, जठरस्थित्याभुक्तान्नादिपाचनादस्य देहापातकत्वम् । शतृपक्षे तनून-पान्तौ इत्यादि क्विप् पक्षे तनूनपादौ इत्यादि भेदः ।२ घृते ६ त० । ३ प्रजापतिपौत्रे । “नराशंसः प्रतिशूरोमि-मानस्तनूनपात् प्रतियज्ञय्य धाम” यजु० २० । ३७ तनून-पात् तनोति विस्तारयति सृष्टिं तनूः प्रजापतिर्मरीचिस्तस्य नपात् पौत्रः कश्यपात्मज इत्यर्थः यद्वातनूं शरीरं न पातयति रक्षति जाठराग्निरूपेणेतितनूनपात् अग्निः यद्वा तनोति भोगानिति तनूःगौस्तस्या नपात् पौत्रं घृतम् गोः पयो जायते पयस-आज्यमिति घृतं तनूनपाद्वा” वेददी० निरुक्ते अस्यनिरुक्तिर्दर्शिता यथा “तनूनपादाज्यं भवति नपादित्यन-नन्तरायाः प्रजाया नामघेयं भवति गौरत्रतनूरुच्यते तता अस्यां भोगास्तस्याः पयो जायते, पयसआज्यं जायते । अग्निरिति शाकपूणिरापोऽत्र तन्वउच्यन्ते तता अन्तरिक्षे, ताभ्य ओषधिवनस्पतयो जा-यन्त ओषधिवनस्पतिभ्य एष जायते । तस्यैषा भवति ।“तनूनपात् पथ ऋतस्य यानान् मध्वासमञ्जन्तस्वदयासुजिह्व” निरु० ८ । ६ । अग्न्युद्देश्यके ४ प्रयाजभेदे च ।तनूनपाद्यागश्च वसिष्ठशुनकात्रिवध्र्यश्वराजन्यभिन्नानांपयाजेषु द्वितीयः वसिष्ठादीनां तु नरांशमो द्वितीय इतिभेदः यथोक्तं आश्व० श्रौ० १ । ५ । ६ “प्रयाजैश्चरन्ति” “पञ्चैतेभवन्ति” पञ्चवचनं नरांशसः तनूनपाद्वा द्व्यमुष्यायण-स्यापि पञ्चैव भवन्ति न षडेत्येवमर्थम् । एत इति वचनम्अत्र पठिता एवैते तनूनपान्नराशंसयोरन्यतरेण सह पञ्चभवन्ति नापठितेन सहेत्येवमर्थम्” नारा० । ये यजामहेइत्युपक्रमे “समिधः अग्न आज्यस्य व्यन्तु ३ वौ३ष-डिति वषट्कारः १५ सू० । “इति प्रथमः” १६ सू० ।“त्ययं प्रथमः प्रयाजः” नारा० “तनूनपादग्न आज्यस्येतिवेत्विति द्वितीयोऽन्यत्र वसिष्ठशुनकात्रिवध्र्यश्वराजन्येभ्यः” ।२१ सू० । “नरांशंसी अग्न आज्यस्य वेत्विति तेषाम्” २२ ।सू० “वसिष्ठादीनामयं द्वितीयः” नारा० “इडो अग्न आ-ज्यस्य व्यन्त्विति तृतीयः” । २३ सू० । “सर्वेषामिति शेषः”नारा० “वर्हिरग्न आज्यस्य वेत्विति चतुर्थ आगूर्य्य पञ्चमेस्वाहाऽमुं स्वाहासुमिति” २४ सू० इत्यादि । वसिष्ठादिभि-न्नानां समिद्यागतनूनपाद्यागः इडोयागः बहिर्यागः स्वा-हाकारयाग इत्येते पञ्चैव प्रयाजा इत्यवधेयम् । वसि-ष्ठादीनां तनूनपात्स्थाने नरांशस इति भेदः । अतएवश्रुतौ “समिधो यजति तनूनपातं यजति इडोयजति बर्हिर्यजतिं स्वाहाकारं यजतीत्येव पञ्च पठिताःवसिष्ठादिभिन्नषरतया व्यवस्याप्याः । “बभार वाष्पैर्द्विगुणीकृतं तनूस्तनूनपाद् धूमवितानमाधिजाः” माघः । “तनूंन पातयति जाठररूपेण धारयतीति” मल्लि० ।
कृदन्तरूपमाला
Sanskrit1 {@“पा रक्षणे”@} 2 ‘पाने पिबति, रक्षायां पाति, पायति शोषणे।।’ 3 इति देवः।
4 पायकः-यिका, 5 पालकः- 6 गोपालकः-लिका, पिपासकः-सिका, 7 पापायकः-यिका
8 पाता-पात्री, पालयिता-त्री, पिपासिता-त्री, पापायिता-त्री
9 पान्-न्ती- 10 ती, पालयन्-न्ती, पिपासन्-न्ती
-- पास्यन्-न्ती-ती, पालयिष्यन्-न्ती-ती, पिपासिष्यन्-न्ती-ती
-- 11 12 व्यतिपानः, पालयमानः, 13 व्यतिपिपासमानः, पापायमानः
व्यतिपास्यमानः, पालयिष्यमाणः, व्यतिपिपासिष्यमाणः, पापायिष्यमाणः
14 नपात्-नपातौ-नपातः, 15 तनूनपात्, अपान्नपात्, अपोनपात्
पातम्-तः-तवान्, पालितः, पिपासितः, पापायितः-तवान्
16 विश्वपाः-सुपाः, 17 गोपः-नृपः, 18 अधिपः, 19 पायः, 20 गोपायी, 21 नगरपायी, 22 पपिवान्, पालः, 23 गोपालः, पिपासुः, पापाः
पातव्यम्, पालयितव्यम्, पिपासितव्यम्, पापायितव्यम्
24 प्रपाणीयम्-प्रपानीयम्, पालनीयम्, पिपासनीयम्, पापायनीयम्
पेयम्, पाल्यम्, पिपास्यम्, पापाय्यम्
25 ईषत्पानः-दुष्पानः-सुपानः
-- -- पायमानः, पालयमानः, पिपास्यमानः, पापाय्यमानः
26 पायः, पालः, पिपासः, पापायः
पातुम्, पालयितुम्, पिपासितुम्, पापायितुम्
पातिः, 27 सम्पातिः, पालना, पिपासा, पापाया
पात्वा, पालयित्वा, पिपासित्वा, पापायित्वा
प्रपाय, प्रपाल्य, प्रपिपास्य, प्रपापाय्य
पायम् २, पात्वा २, पालम् २, पालयित्वा २, पिपासम् २, पिपासित्वा २, पापायम् २
पापायित्वा २
28 पतिः, 29 निपातनात् धातोरित्वम्।
पातीति पिता = जनकः।]] पिता, 30 इति पप्रत्यये रूपम्।
दुर्जनैः पायते इति पापम् = कायवाङ्मनोदुश्चरितम्।]] पापम्, 31 इति डुम्सुन्प्रत्यये, टिलोपे च रूपम्।
पातीति पुमान् = नरः।]] पुमान्, 32 पाथः।
01 (९८८)
02 (२-अदादिः-१०५६। सक। अनि। पर।)
03 (श्लो। ५)
04 [[६। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञादिष्वपि ज्ञेयम्।]]
05 [[७। ‘पातेर्लुग् वक्तव्यः’ (वा। ७-३-३७) इति ण्यन्ते सर्वत्र लुगागमः।]]
06 [[८। गवां पालकः गोपालकः। ‘नित्यं क्रीडाजीविकयोः’ (२-२-१७) इत्यनेन जीविकार्थ- कस्य नित्यसमासः।]]
07 [[९। ‘गापोर्ग्रहणे इण्पिबत्योर्ग्रहणम्’ (वा। २-४-७७) इति वचनादस्य लुग्विकरणत्वेन, ‘लुग्विकरणालुग्विकरणयोरलुग्विकरणस्य’ (परिभाषा ९१) इत्यनेन च ‘घुमास्था- गापा--’ (६-४-६६) इत्यादिषु नास्य ग्रहणम्। तेन ईत्वादिकमस्य नेति ज्ञेयम्। तेन यङन्ताण्ण्वुलि द्वित्वे, अभ्यासह्रस्वे च, ‘दीर्घोऽकितः’ (७-४-८३) इत्यभ्या- सस्य दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
08 [[आ। ‘यद्भागिभाजोऽपि हि जानते तान् ज्ञेयं यदष्टादश यश्च पाता’ वा। वि। २। ५३।]]
09 [[१०। शत्रन्तात् स्त्रियाम्, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति नुम्बिकल्पः।]]
10 [[B। ‘पान्त्यः शिशून्, धान्यधनानि रान्त्यो, लान्त्यश्च काश्चित् कुसुमानि दान्त्यः।।’ धा। का। २। ४९।]]
11 [पृष्ठम्०८५७+ २७]
12 [[१। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति कर्मव्यतीहारे शानच्।]]
13 [[२। सन्नन्तात् ‘पूर्ववत् सनः’ (१-३-६२) इत्यनेन कर्मव्यतीहारे शानच्।]]
14 [[३। न पातीति नपात् = नप्ता। ‘नभ्राण्नपात्--’ (६-३-७५) इत्यत्र निपातनात् नञ्तत्पुरुषे नञः प्रकृतिभावः, क्विपि तुगागमश्च। तन्वा न पातीति तनून- पात् = अग्निरिन्द्रश्च। अपोनपात्, अपांनपात् इत्यपि देवताविशेषवाचके पदे। सर्वेऽप्येते क्विबन्ताः। प्रक्रिया पूर्ववत्।]]
15 [[आ। ‘बभार बाष्पैर्द्विगुणीकृतं तनुः तनूनपाद् धूमवितानमाधिजैः।।’ शि। व। १। ६२।]]
16 [[४। विश्वं पातीति विश्व पाः। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति विचि रूपमेवम्। एवं सुपाः इत्यत्रापि।]]
17 [[५। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कर्मण्युपपदे कर्तरि कप्रत्ययः। एवं नृपः इत्यादिष्वपि ज्ञेयम्।]]
18 [[६। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः।]]
19 [[७। ‘श्याऽऽद्व्यध--’ (३-१-१४१) इत्यादिना आदन्तलक्षणे कर्तरि णप्रत्यये रूपम्।]]
20 [[८। ‘व्रते’ (३-२-८०) इति णिनिप्रत्यये युगागमः।]]
21 [[९। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इति णिनिप्रत्ययः।]]
22 [[१०। छान्दसोऽपि क्वसुरत्र धातौ भवतीति ‘विभाषा पूर्वाह्णापराह्णाभ्याम्’ (४-३-२४) इत्यत्र भाष्ये ‘पपुष आगतं पपिवद्रूप्यम्--’ इति प्रयोगाज्ज्ञायते। तेन क्वसुप्रत्यये, लिड्वद्भावेन द्विर्वचने, ‘आतो लोप इटि च’ (६-४-६४) इत्याकार- लोपे, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे च रूपम्।]]
23 [[११। गाः पालयतीति गोपालः। ‘कर्मण्यण्’ (३-२-१) इति ण्यन्तादस्मादण्प्रत्ययः।]]
24 [[१२। ‘शेषे विभाषा-- (८-४-१८) इत्यनेन णत्ववि कल्पः।]]
25 [[१३। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्।]]
26 [पृष्ठम्०८५८+ २९]
27 [[१। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्। पुंल्लिङ्गोऽयम्। सम्पातिः = जटायुभ्राता।]]
28 [[२। ‘पातेर्डतिः’ (द। उ। १। २७।) इति डतिप्रत्ययः। पातीति पतिः = नायकः।]]
29 [[३। औणादिके (द। उ। २। ३।) तृन्प्रत्यये, तृच्प्रत्यये वा रूपम्। तत्र [द। उ। २। ३।]
30 [[४। ‘पानीविषिभ्यः पः’ [द। उ। ७। २।]
31 [[५। ‘पातेर्डुम्सुन्’ [द। उ। ९। ४८।]
32 [[६। ‘पातेर्बले जुट् च
\n\n उदके थुट् च, अन्ने च’ [द। उ। ९-६३ तः ५। इति बलेऽभिधेये जुडागमे पाजः = अग्निः
\n\n जलेऽभिधेये अन्ने च, थुडागमे पाथः = जलमन्नं च।]]
Grassman
Germantánū-nápāt, m., Sohn [nápāt] seiner selbst [tanū́], der aus seinem eigenen Leibe entsprungene. So wird Agni genannt, sofern Feuer aus Feuer entspringt, während er als Blitz apā́m nápāt und als den Reibhölzern entsprossen aráṇias gárbhas und ähnlich benannt wird. — Ausser in {263, 11} und {918, 2} kommt diese Benennung nur im zweiten Verse der āprī-Lieder vor.
-āt [V.] {13, 2}
{142, 2}
{188, 2}
{238, 2}
{717, 2}
{936, 2}.
-āt [N.] {263, 11}.
-ātam {918, 2}.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
