| YouTube Channel

तत्रि (tatri)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
तन्त्र्
मूलधातुः:
तत्रि
धात्वर्थः:
कुटुम्बधारणे
गणः:
चुरादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
तन्त्रयति-ते
धातुप्रदीपः
Sanskrit
तत्रिँ तत्रि कुटुम्बधारणे
- तन्त्रयते तन्त्रम् स्वतन्त्रः 141
क्षीरतरङ्गिणी
Sanskrit
तत्रिँ तत्रि कुटुम्बधारणे
- (अर्थविवरणम्) कुटुम्बं परिवारः, उपलक्षणञ्चैतत्
तन्त्रयते तन्त्रम् स्वतन्त्रः अवितॄस्तॄतन्त्रिभ्य ईः (उ0 3158) - तन्त्रीः अच इः (उ0 4139) तन्त्रिः तन्द्रा तन्द्रीति पृषोदरादित्त्वात् ( द्र0 63109) द्वौ धातू मत्त्वा चान्द्राः कुटुम्बयत इत्यप्युदाहरन्ति 146
धातुवृत्तिः
Sanskrit
तत्रिँ तत्रि (अर्थः) कुटुम्बधारणे
( तन्त्रयते तन्त्रयति तन्त्रम् ) चान्द्राः कुटुम्बेति पृथग्धातुं पठित्त्वा कुटुम्बयतइत्याहुः 144
कृदन्तरूपमाला
Sanskrit
1 {@“तत्रि कुटुम्बधारणे”@} 2 आकुस्मीयः।
तन्त्रकः-न्त्रिका, तितन्त्रयिषकः-षिका
तन्त्रयिता-त्री तितन्त्रयिषिता-त्री
3 तन्त्रयमाणः, तितन्त्रयिषमाणः
तन्त्रयिष्यमाणः, तितन्त्रयिषिष्यमाणः
4 तन्-तन्त्रौ-तन्त्रः
-- -- -- तन्त्रितः, तितन्त्रयिषितः-तवान्
तन्त्रः, स्वतन्त्रः, तितन्त्रयिषुः
तन्त्रयितव्यम्, तितन्त्रयिषितव्यम्
तन्त्रणीयम्, तितन्त्रयिषणीयम्
तन्त्र्यम्, तितन्त्रयिष्यम्
ईषत्तन्त्रः-दुस्तन्त्रः-सुतन्त्रः
-- तन्त्र्यमाणः, तितन्त्रयिष्यमाणः
तन्त्रः, तन्त्रम्, तितन्त्रयिषः
तन्त्रयितुम्, तितन्त्रयिषितुम्
तन्त्रणा, तितन्त्रयिषा
5 6 तन्त्रणम्, तितन्त्रयिषणम्
तन्त्रयित्वा, तितन्त्रयिषित्वा
प्रतन्त्र्य, प्रतितन्त्रयिष्य
तन्त्रम् २, तन्त्रयित्वा २, तितन्त्रयिषम्
तितन्त्रयिषित्वा
7 इति ईप्रत्ययो भवति।
तन्त्र्यते = धार्यतेऽनया इति तन्त्रीः = सिरा, वादित्रं च।
‘अवी तन्त्री तरी लक्ष्मी धी ह्री श्रीणामुणादिषु।
सप्त स्त्रीलिङ्गशब्दानां सुलोपः कदाचन।।’ इति वचनात् तन्त्रीः इत्येव, तु सुलोषः।]] तन्त्रीः।
प्रासङ्गिक्यः
01
=>
(६९८)
02
=>
(१०-चुरादिः-१६७९। अक। सेट्। आत्म।)
03
=>
[[३। ‘आकुस्मादात्मनेपदिनः’ (ग। सू। चुरादौ) इति वचनात् आत्मनेपदं शानच्।]]
04
=>
[[४। क्विपि, णिलोपे, पूर्वं रेफस्य संयोगान्तलोपे, पश्चात् तकारस्यापि संयोगान्तलोपः।]]
05
=>
[पृष्ठम्०६४२+ २३]
06
=>
[[आ। ‘संडापितः सदसि डेपितवृष्णिवीरे भोजेन्द्रतन्त्रणविनिन्द्यममन्त्रतैवम्।।’ धा। का। ३। ३३।]]
07
=>
[[१। ‘अवितॄस्तॄतन्त्रिभ्य ईः’ [द। उ। १। ८२।]