| YouTube Channel

णू (NU)

 
शब्दसागरः
English
णू r. 6th cl. (नुवति) To praise
also णु-तु-कु-पर-सक-सेट्
Yates
English
णू (श) नुवति 6.
a. To praise.
Wilson
English
णू r. 6th cl. (नुवति) To praise
also ण.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
नू
मूलधातुः:
णू
धात्वर्थः:
स्तवने
गणः:
तुदादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
नुवति
अनुबन्धादिविशेषः:
कुटादिः
धातुप्रदीपः
Sanskrit
णू स्तवने
- नुवति प्रणुविता न्यनुवीत् नूत्वा नूतः 123
शब्दकल्पद्रुमः
Sanskrit
णू, शि स्तवने इति कविकल्पद्रुमः
(भ्वां-परं-सकं-सेट् ।) ह्नस्वान्तोऽयमिति वररुचिः शि, नुवति अनुवीत् इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
णू स्तुतौ तु० कु०
सक०
प० सेट् नुवति प्रणुवति अनुवीत् नुनाव“समिन्द्रगर्दभं मृण नुवन्तं पापयामुया” ऋ० २९ ५“महामनूषत श्रुतम्” ऋ० “अबुषत स्तुतबन्तःआर्षः इडभावः अयं ह्रस्वान्त इति षिररुचिः नुव-मानाश्च मर्त्ताः” ऋ० १९०१ नवमानास्तुवानाः” भा०वेदे आत्म० गणव्यात्यासश्च
क्षीरतरङ्गिणी
Sanskrit
णू स्तवे
- इतश्चत्वारः सेटः प्रणुवति नुविता नूतः श्र्युकःकिति (7211) इतीण् नास्ति, अन्ये नुवित इत्याहुः, ङित्त्वेन कित्त्वस्य निवर्तनाद् एवं धूत-धुवितादयः 116
धातुवृत्तिः
Sanskrit
णू (अर्थः) स्तवने
ह्रस्वान्तमात्रेयादयः पठन्ति यथा तु भाष्यं तथा दीर्घान्तः यदाह कुटादिसूत्रे तस्मान्नृत्वा धूवेत्येव भवितव्यमिति (नुनाव नुनुवतुःनुनुविथ नुवितानुविष्यति ) ङित्वेन गुणनिषेधत्वादुवङ् ( नुवतु अनुवत् नुवेत् (नूयात् अनुवीत्नुनूषति ) "सनि ग्रहगुहोश्च'' इतीण्निषेधः ( नोनूयते नानोति नूत्वा नूतः नूतवान् ) "श्र्युकः किति'' इत्यनिट्त्वम् 113
कृदन्तरूपमाला
Sanskrit
1 {@“णू स्तवने”@} 2 कुटादिः।
‘--स्तुत्यां नुवति, नौति वा।।’ 3 इति देवः।
नावकः-विका, 4 नुविता-त्री, नुवन्-ती-न्ती, नुविष्यन्-न्ती-ती, प्रणूः, 5 प्रण्वौ-प्रण्वः, 6 नूतम्-नूतः-नूतवान्, नुवः, नुवितव्यम्, नुवनीयम्, नव्यम्, 7 अवश्यनाव्यम्, ईषन्नुवः-दुर्नुवः-सुनुवः, नूयमानः, नुवः-नुवितुम्, 8 9 नूतिः, नुवनम्, नूत्वा, प्रणूय, नावम् नूत्वा इति शुद्धाद्धातो रूपाणि।
ण्यन्तात्, सन्नन्तात् यङन्ताच्च क्रमेण नावकः-विका, नुनूषकः, षिका, नोनूयकः-यिका
इत्यादीनि रूपाणि आदादिकनौतिवत् 10 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६८६)
02
=>
(६-तुदादिः-१३९७। सक। सेट्। पर।)
03
=>
(श्लो। २४)
04
=>
[[२। अस्य धातोः कुटादिषु पाठात् ‘गाङ्कुटादिभ्यः--’ (१-२-१) इति ञित्णिद्- भिन्नानां प्रत्ययानां ङिद्वद्भावातिदेशात् ‘क्ङिति च’ (१-१-५) इति गुणनिषेधे, उवङादेशे नुविता नुविष्यन् इत्यादीनि रूपाणि बोध्यानि।]]
05
=>
[[३। क्विबन्ते द्विवचनादौ ‘उपसर्गादसमासेऽपि--’ (८-४-१४) इति णत्वे, ‘ओः सुपि’ (६-४-८३) इति यण्।]]
06
=>
[[४। अस्य कुटादित्वात् विशेषविहितेन ङिद्वद्भावेन क्तप्रत्ययस्य कित्त्वं बाध्यते। अतश्च ‘श्र्युकः क्किति’ (७-२-११) इति निषेधाप्रवृत्त्या इडागमे ‘नुवितः-तवान्’ इति केचिद्वदन्ति। तत्तु समीचीनम्। अत एव ‘गाड्कुटादिम्यः--’ (१-२-१) इति सूत्रे भाष्ये--‘तस्मात् नूत्वा धूत्वा इत्येव भवितव्यम्।’ इत्युक्तिः सङ्गच्छते।]]
07
=>
[[५। ‘ओरावश्यके’ (३-१-१२५) इति ण्यत्। आवादेशः।]]
08
=>
[पृष्ठम्०६३६+ २४]
09
=>
[[आ। ‘नूत्या किं भयधूतविद्रुतगुवल्लोकं तदा तद्ध्रुवत् कोदण्डं कुवमानमैक्षि दलितं भोजेश्वराकूतवत्।।’ धा। का। २। ८२।]]
10
=>
(६८३)