| YouTube Channel

णीञ् (NIJ)

 
Shabdartha Kaustubha
Kannada
णीञ् - प्रापणे (भ्वा० उभ० सक० से०) नयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಒಯ್ಯಿ /ತೆಗೆದುಕೊಂಡು ಹೋಗು /ಕರೆದುಕೊಂಡು ಹೋಗು
प्रयोगाः - > "निनाय पृतनां प्राचीं गङ्गामिव भगीरथः"
उल्लेखाः - > याद० २२-६५
णीञ् - प्रापणे (भ्वा० उभ० सक० से०) नयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಹೊಂದಿಸು /ಸೇರಿಸು /ತಲುಪಿಸು
प्रयोगाः - > "शिलोच्चयं चारुशिलोच्चयं तमेष क्षणान्नेष्यति गुह्यकस्त्वाम्"
उल्लेखाः - > किरा० ३-२९
णीञ् - प्रापणे (भ्वा० उभ० सक० से०) नयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಒಳಪಡಿಸು /ಈಡುಮಾಡು /ಗುರಿ ಮಾಡು
प्रयोगाः - > "नयति द्रुतमुद्धतश्रितः प्रसभं भङ्गमभङ्गुरोदयः"
उल्लेखाः - > माघ० १३-७२
णीञ् - प्रापणे (भ्वा० उभ० सक० से०) नयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಹೊಂದಿಸು /ಸೇರಿಸು /ಅಳವಡಿಸು
प्रयोगाः - > "नयन् मधुलिहः श्वैत्यमुदग्रदशनांशुभिः"
उल्लेखाः - > माघ० २-२१
णीञ् - प्रापणे (भ्वा० उभ० सक० से०) नयति-ते
पदविभागः - > धातुः
कन्नडार्थः - > ಕಾಲಕಳೆ /ಕಾಲತಳ್ಳು
प्रयोगाः - > "संविष्टः कुशशयने निशां निनाय"
उल्लेखाः - > रघु० १-९५
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
नी
मूलधातुः:
णीञ्
धात्वर्थः:
प्रापणे
गणः:
भ्वादिः
कर्मकत्वं:
द्विकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
नयति-ते
धातुप्रदीपः
Sanskrit
णीञ् प्रापणे
- नयति नयते अजां नयति ग्रामम् प्रणयति निनाय निन्ये निन्यतुः। नेता ग्रामणीः नेत्रम् नीतिः ।। 905 ।।
क्षीरतरङ्गिणी
Sanskrit
णीञ् प्रापणे
- (अर्थविवरणम्) प्रापणमासादनम्
नयते, नयति प्रणेता संमानन (1336) इत्यात्मनेपदम्- नयते, चार्वी लोकायते कर्तृस्थे चाशरीरे कर्मणि (1337) क्रोधं विनयति अदिखादिनीवहीनां प्रतिषेधाद् (द्र0 1452 वा0) नाययति भारं ग्रामं चैत्रेण विपूयविनीय (31111) इति विनीयः कल्के साधुः आनाय्यो ऽनित्ये (31127) आनाय्यो दक्षिणाग्निः, आनाय्यो गोधुक् प्रणाय्योऽसम्मतौ (31128) प्रणाय्यायान्तेवासिते ब्रह्म ब्रूयात् (तु0 छा0 उ0 3115) असम्मतसंसारायेत्यर्थः पाय्यसान्नाय्य (31129) इति सान्नाय्यं हविः दुन्योरनुपसर्गे (31142) इति कर्तरि णः- नायः श्रिणीभुवोऽनुपसर्गे (3325) घञ् - नायः बाहुलकाद् नयः अवोदोर्नियः (3323) अवनायः, उन्नायः परिन्योर्नीणोद्यूताभ्रेषयोः (3337) परिणायः जालमानायः (33124) सत्सूद्विष (3261) इति क्विप्- ग्रामणीः दाम्नीशस (32182) इति ष्ट्रन- नेत्रम् रक् ( द्र0 उ0 213) नीरम् नप्तृनेष्टृ (उ0 296) इति नेष्टा ऋत्विक् हनिकुषि (उ0 22) इति क्थन्-सुनीथः नयतेर्डिच्च (उ0 2101) इति ऋः- ना नरौ नरः पानीविषिभ्यः पः (उ023) नीपः नियो मिः (उ0 443) नेमिः 871
धातुवृत्तिः
Sanskrit
णीञ् (अर्थः) प्रापणे
(अर्थविवरणम्) इह प्रापणं गमनाङ्गं भवति
( प्रणयति अन्तर्णयति ) [ अन्तश्शब्दस्याङ्किविधित्वेषूपगसर्गत्वमुक्तम् ] ( निनाय ) वृद्ध्यायौ "द्विर्वचनेचि'' इति स्थानिवद्भावान्नीशब्दो द्विरुच्यते ( निन्यतुः ) इयङः स्थानिवद्भावान्निशब्दे द्विरुक्ते पुनरुत्तरखण्डस्येयङ् भवति अस्यां दशायामनेकाच्त्वात् "एरनेकाचः'' इति यणा बाधादि इयेथेत्यत्रोपपादितम् ( निनयिथ निनेथ निन्यथुः निन्य निनायनिनय ) गुणवृद्ध्योरयायौ ( निन्यिव ) क्र्यादिनियमादिट् थलि भारद्वाजनियमाद्विकल्पः ( नेता नेष्यति नयतु अनयत् नयेत् नीयात् अनैषीत् निनीषति नेनीयते नेनयीति नेनेति नेनेतः नाययति अनीनयत् नाययति अजां यज्ञदत्तेन देवदत्तः ) [ नीवह्मोः प्रतिषेधः ]इति प्रयोजृयस्य कर्मत्वनिषेधः अत्र हरदत्तः यद्यपि नैतयोर्गतिरर्थः, अथापि गतिफलं प्रापणमर्थं इति फलतया गातः प्रतीयते इति मत्वा प्रतिषेध इति तथा कैयटे तर्योर्गद्गत्यर्थत्वमुक्तं तत्फलतया प्रतीयमानगत्यपेक्षम् ( नयते नित्ये निन्यिषे निन्यिध्वे निन्यिद्वे निन्यिवहे नेतासे नेष्यते नयताम् अनयत नयेत नेषीष्ट अनेष्ट ) ( सूत्रम्) सम्माननोत्सञ्जन (इति सूत्रम्) इति आत्नेपदम् अकर्त्रभिप्रायार्थोयमारभ्भः सम्माननं पूजनम् उत्सर्जनमुत्क्षेपणम् आचार्यकरणाचार्यक्रिया ज्ञानं प्रमेयनिश्चयः भृतिर्वेतनम् विगणनमृणादेः प्रतिनिर्यातनम् व्ययो धर्मादिप्रयोजनो विनियोगः तत्र संमाननाचार्यकरणादयो धात्वर्थविशेषणानि अन्ये तु धात्वर्थाः ईदृशान्न्यतेस्तङ् स्यात् ( नयते शास्त्रे ) अर्थान्युक्तिभिः सिथरीकृत्य शिष्येभ्यः प्रतिपादयतीत्यर्थः इह पूजा शास्त्रर्थस्य युक्तिभिः स्थिरीकरणम् शिष्याणां चैवंविधा प्रतिपादना ( पुत्रमुदानयते ) उत्क्षिपतीत्यथेः ( माणवकमुपनयते ) शास्त्रीयेन विधिनात्मसमीपं प्रापयतीत्यर्थः ( नयते शास्त्रे ) तत्त्वप्रमेयं निश्चिनोत्यर्थः अत्रायमकर्मकः कर्मणो धात्वर्थान्तर्भावात् ( कर्मकरानुपनयते ) भृतिदानेनात्मनः समीपे प्रापयतीत्यर्थः ( ऋणं विनयते ) निर्यातयतीत्यर्थः ( शतं विनयते ) धर्मादौ विनियुङ्ण इत्यर्थः ( सूत्रम्) कर्तृस्थे चाशरीरे कर्मणि (इति सूत्रम्) नयत्यर्थस्य यः कर्त्ता तत्स्थे शरीरैकदेशविर्तते कर्मणि कारके सति नियस्तङ् स्यात् इह शरीरं तदेकदेश इति वृत्तौ ( मन्युं विनयते ) कर्तृग्रहणाद् देवदत्तस्यमन्युं विनयतीत्यत्र भवति, तथा शरीरग्रहणात् गडुं विनयतीत्यत्र भवति अयमकथितेप्सिततमाभ्यां द्विकर्मक इत्युक्तम् तत्र लादयः प्रधाने कर्मंणि भवन्ति, षष्ठी तूभयत्र अत्र प्रधाने पक्षे द्वितीयापि "उभयपग्राप्तौ कृति'' कर्तृकर्मणोः षष्ठी नेति सर्वमेतद्धरतावुक्तमुदाहृतं च, इहापि तथैवोदाहरणं नेयम् "अकथितं च'' इत्यत्र न्यासे नीवहिहरिजिदण्डीन्प्रस्तुस्य ग्रामादीनामप्यजादिवत् क्रियाजन्यफलभाक्त्वे ऽपि तदविवक्षया ऽकथितत्वमुक्तम् यदाह अहकथितत्वेत्येषां ग्रहणं यदा ग्रामादीनामीप्तिसततमत्वमनीप्सिततमत्वंच विवक्ष्यते किन्तु कर्तृरीप्सिततमत्वमात्रमेव तदर्थमिति न्यासोद्योते अजादीनां ग्रामादीनामीप्सिततमत्वमविशिष्टुक्तम्, तत्र नीवहिहरीणं प्रापणसथैः तथा "न गतिहिंसा'' इत्यत्र भाष्यम् देशान्तरप्रापणाक्रिया वहिरिति तत्रैव कैयटे देशान्तरप्राप्त्युपसर्ज्जनं प्रापणमस्य वाच्यं, तत्र गतिर्नान्तरीयकत्वात्प्रतीयते त्वसौ धात्वर्थ इति, "गतिबुद्धि'' इत्यत्र नीवही प्रकृत्य पदमञ्जर्यामेतयोर्गतिफलं प्रापणमर्थं इति तस्मादत्र गतेरधात्वर्थत्वादकर्तृकत्त्वात्तत्फलसंयोगाद्याप्यमानत्वेपि ग्रामादीनां कर्मतोपपत्तिः अजादीनां तु धात्वअजादीनां तु धात्वर्थकर्तृव्यापारप्रापण्साफलगतिद्वारेणाप्यमानत्वाद्युक्तं कर्मत्वम् चैवं वाच्यम् अजादिभिः स्वव्यापारे गतौ कर्तृ भिस्तत्संयोगद्वारेणाप्तुमिष्यमाणत्वादीनाप्सितकर्मत्वमिति यतः "कर्त्तु रीप्सिततम्'' इत्यत्र कर्तृ ग्रहणं कर्मणः स्वव्यापारद्वारेणाप्तुमिष्यमाणत्वमस्य कर्मतृवनिवृत्त्यर्थमिति स्थितम् अत एव माषेष्वश्वं बध्नातीत्यत्र गन्धनकर्मणाश्वेन स्वव्यापारेण भक्षणेनाप्तुमिष्यमाणानामपि माषाणां कमैत्वं भवति कथं तर्हि "गत्यर्थे'' इत्यत्र भाष्यकृता उह्मन्तां देवदत्तेनेति वहिर्गत्यर्थ उदाहृतः नैष दोषः तत्र गतिलोटीत्युच्यमानेपि अर्थाद् गत्यर्थलोटीति सिद्धे ऽर्थग्रहणस्य प्रतीयमानगतीनामीदृशामपि संग्रहार्थत्वात् यच्च "हृक्रोरन्यतरस्याम्'' इत्यत्र हरतेः "गतिबुद्धि'' इति नित्ये प्राप्ते विकल्प इति हरदत्ताविचनम् तत्र "गतिबुद्धिः'' इत्यत्रार्थग्रहणस्य पूर्ववन्नयत्याद्यर्थपरिग्रहाथैत्वात् युक्तमेव प्रतीयमानानां गतीनामपि तत्र ग्रहणं, एवं नीवह्मोः प्रतिषेध उपपद्यते "न गतिहिंसा'' इत्यत्र त्वर्थग्राहणेन प्रतीयमातगतीनां ग्रहणं भाष्यकारस्य नेष्टम् यत्तत्र " "हृवह्मोरप्रतिषेधः'' इति वार्त्तिकपरिग्रहणान्न् वहिर्गत्यर्थ इति प्रत्याचष्टे ( विनीयः कल्पः, ) कल्कश्च पिष्टौषधे पक्कान्नतैलादीनामृजीषे पाके वर्त्तते ( सूत्रम्) विपूयविनीयजित्वा मुञ्जकलकहलिषु (इति सूत्रम्) इति विपूर्वादस्मात्कल्के क्यपि निपात्यते ( आनाय्यः ) गार्हपत्यादाहवनीयादानीतो दक्षिणाग्निः तस्य हि योनिर्विकल्प्यते वैश्यकुलाद्वित्तवतो वा गृहात् गार्हपत्याद्वेति ( सूत्रम्) आनाय्योनित्ये (इति सूत्रम्) इति आङ्पूर्वादस्मात् ण्यदायौ निपात्येते अनित्यतृवं चास्य नित्यमज्वलनात्, निपातनस्य रूढ्यर्थत्वाद्घटादावन्ययोनौ दक्षिणाग्नौ ( आनेय इति ) भवति ( प्रणाय्यः ) अपूज्यो निष्कामो वा ( सूत्रम्) प्रणाय्यो ऽसम्मतौ (इति सूत्रम्) इति प्रपूर्वादस्माण्ण्यदायौ संमतिः पूजाभिलाषो तच्च दधिपसी "पाय्यसान्नाय्य'' इति इविषि ण्यदायौ उपसर्गस्य दीर्घत्वं ( नयतीति नायः ) ( सूत्रम्) दुन्योरनुपसर्गे (इति सूत्रम्) इति अनुनसृष्टादस्मात्कर्त्तरि णः उपसृष्टात् ( अनुनयः ) पचाद्यच् (प्रणीः) "सत्सूद्विष'' इत्यादिना क्किप् ( ग्रामणीः ) इत्यत्र पूर्ववत् क्किपि [ अग्रग्रामाभ्यां नयतेरुपसंख्यानम् ] इति णतृवम् ( नायः ) "श्रिणीभुवोऽनुपसर्गे'' इति घञ् ( उन्नयः पदार्थानाम् ) इति बाहुलकादचि ( परिणायः ) समन्तादक्षादिना यद् द्यूतम् ( सूत्रम्) परिन्योर्नीणोर्द्युताभ्रेषयोः (इति सूत्रम्) इति यथासंखात्परावुपपदे द्यूते नियो घञ्, अक्षादिभिः क्रीडनं द्यूतम् भ्रे षश्चलनमचलनमभ्रेषः अनपहार इति यावत् ( आनायः ) "जालमानाये'' इति जाले घइ निपात्यते ( नीमिः ) नीञो मिरिति मिः ( नेमः ) अर्त्तिस्वित्यादिना मन् अस्य सर्वादित्वात् तत्कार्ये पूर्वशब्दवत् ( नीथो ) यज्ञः "हृतिहिष'' इत्यादिना थन् ( नेष्टा ) नयतेः षुक्चेति तृनि गुणो धातोः षुगागमः ( सूत्रम्) अप्तृन् (इति सूत्रम्) इत्यादिना ( सूत्रम्) ऋतोङि (इति सूत्रम्) इत्यादिना यथायोगं गुणदीर्घै सर्वनामस्थाने हरत्यादयश्चत्वारोऽनुदात्ता उभयपदिनः 885