| YouTube Channel

णिज (Nija)

 
शब्दसागरः
English
णिज (इ) णिजि r. 2nd cl. (निंक्ते प्रणिंक्ते) To kiss
the cleanse, (औ, इर)
औणिजिर r. 3rd cl. (नेनेक्ति नेनिक्ते)
1. To nurture, to cherish or
maintain.
2. To purify, to cleanse.
Wilson
English
णिज (इ) णिजि r. 2nd cl. (निंक्ते प्रणिंक्ते) To cleanse, (औ,
इर) औणिजिर r. 3rd cl. (नेनेक्ति नेनिक्ते)
1 To nurture, to cherish or maintain.
2 To purify, to cleanse.
शब्दकल्पद्रुमः
Sanskrit
णिज, शुद्धौ इति कविकल्पद्रुमः
(अदांआत्मं-सकं सेट्-इदित् ।) शुद्धिरिह शुद्धीकरणम्इ, कर्म्मणि निञ्ज्यते ङ, प्रणिङ्क्ते दक्षिणीयानां विप्राणां समूहः इति हलायुधः इतिदुर्गादासः
णिज, लि इर् पोषे शुद्धौ इति कवि-कल्पद्रुमः
(ह्वां-उभं-सकं-अनिट् ।) लि ञ-नेनेक्ति नेनिक्ते इर्, अनिजत् अनैक्षीत् औ, नेक्ता इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
णिज शोधने अदा० आत्म०
सक०
सेट् इदित् निङ्क्तेप्रणिज्क्ते अनिञ्जिष्ट निनिञ्जे शुद्धौ अक० ।“अहं राष्ट्रस्याभीवर्गे निजो भूयासमुत्तमः” अथ० ।३ (निजः शुद्धः) “यस्य नास्ति निजा प्रज्ञा केवलं तुबहुश्रुतः” भा० स० ५४ अ० “बुद्धिः सततमन्वेतिच्छायेव पुरुषं निजा” भा० व० ३० अ० “सुज-न्मनस्तस्य निजेन तेक्षसा” रघुः निजेन शुद्धेन
णिज शोधने
सक०
शुद्धौ अक० जु०
उभ०
अनिट् नेनेक्तिप्रणेनेक्ति नेनिजानि नेनिक्ते अनेन्क् अनेनिजम्अनेनिक्त इरित् अनिजत् अनैक्षीत् अनिक्त ।“शाल्मली फलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः” मनुः“सूरो निनिक्त रश्मिभिः ऋ० १० १३२ ६अव + समन्तात् जलप्रोक्षणेन शोधने “यद्द्यस्य क्रूरमभूत्तद्ध्यस्या एतदहार्षीत्तस्मात् पाणी अवनेनिक्ति” शत०ब्रा० २३ ।“अथोदपन्धषमादाबापनेजयति! असाववनेनिक्ष्वेत्येवयजमानस्य पितरमसावयनेनिक्ष्येति पितामहमसाव-वनेनिक्ष्वेति प्रपितापहं तद्यवा शिष्यतेऽभिषिञ्चेदेवंतत्” शत० ब्रा० १६ “अवनेविक्ष्य दास्तमानं पिण्डंभोक्तुमात्मीगौ षाष्णी षोभयेति” भा० पिण्डदानार्थ-मसृतकुशे जलप्रोक्षणे तत् प्रकारः श्रा० ष० उक्तो यथा“प्रागग्रेष्वथ दर्भेषु आद्यमामन्त्र्य पूर्ववत् अपः क्षिपेन्मूलदेशेऽवनेनिक्ष्वेति निस्तिलाः द्वितीयञ्च तृतीयञ्चमधयदेशाग्रदेशयोः” इत्याभ्युदयिकप्रकरणीयछन्दोग-परिशिष्टवचनेन आभ्युदयिके निस्तिलत्वाभिधानेनान्यत्रसतिलत्वप्रतीतेः पुष्पयुक्तत्वञ्च “सपुष्पं जलमादायतेषां पृष्ठे पृथक् पृथक् अप्रदक्षिणं नेनिज्याद्गोत्र-नामानुमन्त्रितम्” इति ब्रह्मपुराणवचनात् “अपसलविपितृतीर्थेन प्रदेशिन्यङ्गष्ठयोरन्तरा अपसलवि “अप-सव्यं वा तेन पितृभ्यो निदधातीति” भट्टभाप्यधृतगृह्या-न्तरात् अपसव्यशब्देन पितृतीर्थमुच्यते अस्मादेववचनात् तथा मनुः प्राचीनावीतिना सम्यगपसव्य-मतन्त्रिणा” इत्यादि तत्र तु मण्डलोपरि असावितिसम्बोधनविभक्त्या सर्वत्र नामनिर्देश इति भट्टभाष्यम्अतएव प्रागुक्तछन्दोगपरिशिष्टे आद्यमामन्त्र्य पूर्व-वदित्युक्तं आद्यं पितरं पूर्ववत् “गोत्रनामभिरामन्त्र्यपितॄनर्घ्यं प्रदापयेत्” इतिवत् पितुरवनेजनं मूलदेशेपितामहप्रपितामहयोस्तु अवनेजनमध्यदेशाग्रदेशयोःद्वितीयञ्च तृतीयञ्च मध्यदेशाग्रदेशयोः” इति छन्दोग-प्ररिशिष्ठात् मातामहादीनामप्येवम् “मातामह-प्रभृतीस्तु एतेषामेव वामतः” इति छन्दोगपरिष्ठात् ।एतेषां पितॄणां वामत इत्याभ्यु दयिकपरम् अन्यत्रतु दक्षिणतः कर्त्तुर्वामोपचारत्वट् अतएव पार्वणेप्रागुक्तब्रह्मपुराणे “अप्रदक्षिणं नेनिज्यादित्युक्तम् तेनसतिलपुष्पोदकपात्रं वामहस्ताद्दक्षिणहस्तेन वामान्वा-रन्धेन मृहीत्वा अमुकगौत्र! पितरमुकदेषशर्मन्नप-नेनिक्ष्य ये चात्र त्वाक्मनुयांश्च त्वमनु तस्मै ते स्वधा” इतिपितृतीर्थेनावनेजयेत् “अप उपस्पृश्य जलं स्पृष्ट्वाएवं पूर्बोक्तरीत्या पितामहाय प्रतितामहाय पिण्ड-दानसूत्रं जलस्पर्शन सूत्रञ्च पूर्ववत् व्याख्येयम्” पिण्ड-पितॄयज्ञे तत्प्रकारः कात्या० श्रौ० १० उक्तो यथा“उदपात्रेणावनेजयत्यपसव्यं सव्येन बोद्धरणसानर्थ्यादसाववनेनिक्ष्येति यजमानस्य पितृप्रभृति त्रीन्” सू० ।“उदकस्य पात्रसुदपात्रं पूर्णपात्रादि तेनाध्यर्य्युःयजमानस्य पितृप्रभृति पितुरारभ्य त्रीन् पुरुषान्पितृषितामहप्रपितामहान् अपसव्यं यथा स्याद्दस्तस्यस्तव्यप्रदेशाद्दक्षिनैकदेशेनोदकनिनयनं यथा स्यात्तषाङ्गष्ठप्रदेशिन्योरन्तरालेन अवनेजयति अवनि-क्षान् शुचीन् करोति पिण्डदानाय असावितिसम्बुद्द्यान्तगोत्रनामादेशपूर्वकम् अमुकगोत्र! यजमानस्यपितरसुकशर्मन्नवनेनिक्ष्वेति रेखायामूलमध्याग्रप्रदेशेषुदक्षिणसंस्थमवनेजनं कार्य्यम् अग्रेण देवानां होमःकनिष्ठिकाप्रदेशेन मनुष्याणाम्, उद्धरणं परिवेषणापर-पर्य्यायम् अङ्गुष्ठप्रदेशिन्योरन्तरालमेव पितॄणां परिशिष्यतेअत इदमाह अपसव्यमिति” कर्कः “अवनेज्य पूर्ववन्नीविंविस्रंस्य नमो इत्यञ्जलिं करोति” कात्या० श्रौ० १५ ।निजेः शुद्ध्यर्थकस्य णिचि अवनेजयतीति अवनेज्येतिप्रयोग इति बोध्यम् शोधनम्परत्वे नेनिज्यादितिअवनेजने चन तन्त्रता यथाह छन्दोगप० “अर्ष्येऽक्षय्योदके चैव पिण्डदानेऽवनेजने तन्त्रस्य विनिवृत्तिःस्यात् स्वधावाचन एव च” अवनेजनशब्दे ४२९ पृ० कृत्यप्रदीपोक्तं मातृपक्षीयावनेजनविधानं छन्दोगेतरविषयम्अन्यवेदिनामाभ्युदयिकादिविषयञेति बोध्यम् ।निर् + निःशेषेण क्षालनेन शोधने “पात्राणि निर्णेनिजानि”शत० ब्रा० “पात्राणि निर्णेनिक्ते” तैत्ति० स० ।“अदृष्टमद्भिर्निर्णिक्तं यच्च वाचा प्रशस्यते” मनुः “तोय-निर्णिक्तपाणिः” रघुः “तेषामपेततृष्णानां निर्णिक्तानांशुभात्मनाम्” भा० शा० २७१ अ०