| YouTube Channel

णिक्ष (NikSa)

 
शब्दसागरः
English
णिक्ष r. 1st cl. (निक्षति प्रणिक्षति) To kiss: the change of the after a
preposition is optional in the derivatives of this root. भ्वा-पर-सक-सेट्
Wilson
English
णिक्ष r. 1st cl. (निक्षति प्रणिक्षति) To kill: the change of the
after a preposition is optional in the derivatives of this root.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
निक्ष्
मूलधातुः:
णिक्ष
धात्वर्थः:
चुम्बने
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
निक्षति
धातुप्रदीपः
Sanskrit
णिक्षँ णिक्ष चुम्बने
- निक्षति णोपदेशप्रयोजनमुक्तम् प्राक् प्रणिक्षति ।।660 ।।
शब्दकल्पद्रुमः
Sanskrit
णिक्ष, चुम्बने इति कविकल्पद्रुमः
(भ्वां-परं-सकं-सेट् ।) निक्षति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
णिक्ष चुम्बने
भ्वा०
पर०
सक०
सेट् निक्षति प्रणिक्षति ।कृत्सु वा णत्वमिति पाणिनिः सर्वत्र वा णत्वम् मुग्ध०“निक्ष दर्भ सपत्नान् मे” अथ० १९ २९ आर्षगनपदयो-र्वात्यागः “याः पार्श्वे उपर्षन्त्यनुनिक्षन्ति पुष्टीः”अथ० १५ “प्रणिक्षिष्यति नो भूयः प्रनिन्द्या-स्मान् मधून्ययम्” भट्टिः “किमीदिनं प्रत्यञ्चमर्चिषाजातवेदो विनिक्ष्य” अथ० २५वि + नाशने “शिशीते शृङ्गे रक्षमे विनिक्षे” ऋ० ९“विनिक्षे नाशाय” भा० आर्षस्तङ्
क्षीरतरङ्गिणी
Sanskrit
णिक्षँ णिक्ष चुम्बने
- (अर्थविवरणम्) चुम्बनं वक्त्रसंयोगः
प्रणिक्षति वा निक्षनिंसनिन्दाम् (तु0 8433) इति णत्वम्-प्रणिक्षिता, प्रनिक्षिता 639
धातुवृत्तिः
Sanskrit
णिक्षँ णिक्ष (अर्थः) चुम्बने
निक्षति निनिक्ष निक्षितेत्यादि प्रणिक्षणम् ( प्रनिक्षणम् ) " वा निंसनिक्षनिन्दाम्'' इति णत्वविकल्पः अयं विकल्पः कृत्येवेति निन्दतौ प्रतिपादितम् तेन(प्रणिक्षति) इत्यादौ "उपसर्गात्'' इतिणत्वं भवति 639
कृदन्तरूपमाला
Sanskrit
1 {@“णिक्ष चुम्बने”@} 2 चुम्बनम् = वक्त्रसंयोगः इति क्षीरस्वामी।
3 प्रनिक्षकः-प्रणिक्षकः, निक्षकः-क्षिका, निनिक्षिषकः-षिका, नेनिक्षकः-क्षिका
निक्षिता-त्री, निक्षयिता-त्री, निनिक्षिषिता-त्री, नेनिक्षिता-त्री
4 निक्षन्-न्ती, निक्षयन्-न्ती, निनिक्षिषन्-न्ती
-- 5 निट्-निक्षौ-निक्षः
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिकचिल्लतिवत् 6 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(६७१)
02
=>
(१-भ्वादिः-६५९। सक। सेट्। पर।)
03
=>
[[२। ‘वा निंसनिक्षनिन्दाम्’ (८-४-३३) इति उपसर्गस्थान्निमित्तात् परस्य कृत्प्रत्यय- परकस्य निक्षतेः नकारस्य णत्वविकल्पः। तिङन्ते तु ‘कृत्यचः’ (८-४-२९) इति नित्यं णत्वमेव।]]
04
=>
[[C। ‘उक्षन्नेनं मन्दहासेन रक्षन् विश्वन्निक्षन् वल्लवीस्तृक्षिताघाः।।’ धा। का। १। ८३।]]
05
=>
[[३। ‘स्कोः--’ (८-२-२९) इति कलोपे, षकारस्य जश्त्वचर्त्वयो रूपम्।]]
06
=>
(५२८)