| YouTube Channel

डुमिञ् (DumiJ)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
मि
मूलधातुः:
डुमिञ्
धात्वर्थः:
प्रक्षेपणे
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
मिनोति-मिनुते
अनुबन्धादिविशेषः:
ञित्, ड्वित्
धातुप्रदीपः
Sanskrit
डुमिञ् प्रक्षेपणे
- मिनोति मिनुते ममौ मिम्ये मिम्यतुः मिम्याते माता मास्यति मास्यते मिनुयात् मिन्वीत मीयात् मासीष्ट अमासीत् अमास्त मित्सति मित्सते मेमीयते प्रमाय प्रमयः मित्रिमम् प्रमाता 5
क्षीरतरङ्गिणी
Sanskrit
डुमिञ् प्रक्षेपणे
- मिनोति, मिनुते मीनातिमिनोति (6150) इत्यात्त्वम्-माता, मास्यति, ल्यपि (6150) इति प्रमाय सनि मीमा (7454) अति गामादाग्रहणेष्वविशेषात् (द्र0 सीरदेव 108, परि0 शे0 115) मित्सति, मित्सते मित्रिमम् कृवापाजि (उ0 11) इत्युण् मायुः पित्तम् भृमृशीतॄचरित्सरितनिमिमस्जिभ्य उः (दश0 उ0 192) इत्युः मयुः किन्नरः बहुलवचनाद् (द्र0 331) आत्त्वं वातप्रमीः (द्र0 उ0 41) नप्तृनेष्टृ (292) इति जामाता [सु] सिचिभ्याम् (तु0 उ0 225)-मीरा 4
धातुवृत्तिः
Sanskrit
डुमिञ् (अर्थः) प्रक्षेपणे
( मिनोति मिनुते ममौ मिम्यतुः मिम्युः ममाथ ममिथ मिम्यथुः मिम्य ममौ मिम्यिव मिम्यिम ) "मीनातिमिनोतिदीङां ल्यपि च'' इत्येज्विषये ल्यपि प्रागेव प्रत्ययोत्पत्तेरात्वं, तस्य चानैमित्तकत्वान्न "द्विर्वचनेऽचि'' इति स्थानिवत्त्वं, थलीट्पक्षे "आतो लोप इति च'' इत्याल्लोपः ( मिम्ये मिम्यिषे मिम्यिवहे माता मास्यति मास्यते मिनोतु मिनु मिनवानि मिनुताम् मिनुष्व मिनवै अमिनोत् अमिनुतम् मिनुयात् मिन्वीत ) आशिषि ( मीयात् मासीष्ट ) यासुटि कित्त्वान्नात्वम् "अकृत्सार्वधातुकयोः'' इति दीर्घः ( अमासीत् अमासिष्टाम् ) आत्वे "यमरमनमाताम्'' इति सगिटौ परस्मैपदे अन्यत्र ( अमास्त अमासाताम् मित्सति मित्सते ) "इको झल्'' इति सनः कित्त्वात् "अज्झनगमां सनि'' इति दीर्घे "सनिमिमा'' इतीसादेशे "सस्यार्द्धधातुके'' इति सस्य तत्वे "अत्र लोपोऽभ्यासस्य'' इत्याभ्यासलोपः ( मेमीयते मेमेति मेमयीति ) "मिनोति'' इति श्तिपा निर्द्देशान्नात्वम् ( मापयति अमीमपत् ) आत्वे पुक् ( प्रमाप्य ) "ल्यपि च'' इत्यात्वम् ( प्रमयः इषत्प्रमयः ) [ निमिमीलियां खलचोः प्रतिषेधः ] इत्यात्वप्रतिषेधः ( मित्रिमम् ) "ड्वितः क्त्रिः'' "क्त्रेर्मम्नित्यम्'' ( मीरः ) "शुषिचिमिञां दीर्घश्च'' इति क्रन्दीर्घौ मयते इति शपि प्रणिदाने मातीति लुकि माने मिमीते इति श्लौ माने शब्दे मीयत इति श्यनि 4