| YouTube Channel

डुकृञ् (DukRJ)

 
Shabdartha Kaustubha
Kannada
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > (ಈ ಧಾತುವು ಸಂದರ್ಭಾನುಸಾರ ಕೆಳಗಿನ ಅರ್ಥಗಳಲ್ಲಿ ಪ್ರಯೋಗಿಸಲ್ಪಡುವುದು) ಮಾಡು
प्रयोगाः - > "चक्रुरेव ललनोरुषु राजीः स्पर्शलोभवशलोलकराणाम्" "तीर्थगामि करवै विधानतस्तज्जुषस्व जुहवानि चानले"
उल्लेखाः - > माघ० १०-६६, माघ० १४-९
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ತಯಾರಿಸು
प्रयोगाः - > "घटं करोति"
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ನೇಮಿಸು
प्रयोगाः - > "तं सेवकमकरोत्"
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ಉಂಟುಮಾಡು
प्रयोगाः - > "अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते" "कुर्यां हरस्यापि पिनाकपाणेः धैर्यच्युतिं के मम धन्विनोऽन्ये"
उल्लेखाः - > शाकु० २-१, कुमा० ३-१०
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ರಚಿಸು
प्रयोगाः - > "अञ्जलिं प्राङ्मुखः कुर्वन् पवनायात्मयोनये"
उल्लेखाः - > रामा०
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ಸಂಕಲಿಸು /ಜೋಡಿಸು
प्रयोगाः - > "रसगङ्गाधरनाम्नीं करोति कुतुकेन काव्यमीमांसाम्"
उल्लेखाः - > रसगं०
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ನೆರವೇರಿಸು
प्रयोगाः - > "अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे"
उल्लेखाः - > रघु० १-५५
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ಹೇಳು /ವಿವರಿಸು
प्रयोगाः - > "तास्ताः कथाः कुर्वन्"
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ನಡೆಸು /ಆಜ್ಞೆಪಾಲಿಸು
प्रयोगाः - > "शासनं मे कुरुष्व"
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ಸಾಧಿಸು
प्रयोगाः - > "सत्सङ्गतिः कथय किं करोति पुंसाम्"
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ಉಚ್ಚರಿಸು /ಹೇಳು
प्रयोगाः - > "मानुषीं गिरं कृत्वा"
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ಇಡು /ಇರಿಸು
प्रयोगाः - > "कुरु करे गुरुमेकमयोघनम्"
उल्लेखाः - > नैष० ४-५९
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ತೆಗೆದುಕೊ /ಹಿಡಿದುಕೊ
प्रयोगाः - > "बहिरतो मुकुरं कुरुष्व मे"
उल्लेखाः - > नैष० ४-५९
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ನಿಶ್ಚಯಿಸು
प्रयोगाः - > "मनसि कृत्वा"
डुकृञ् - करणे (तना० उभ० सक० से०) करोति-कुरुते
पदविभागः - > धातुः
कन्नडार्थः - > ಒಪ್ಪಿಕೊ /ಸಂಮತಿಸು
प्रयोगाः - > "उरसि कृत्वा"
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
कृ
मूलधातुः:
डुकृञ्
धात्वर्थः:
करणे
गणः:
तनादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
उभयपदी
रूपम्:
करोति, कुरुते
धातुप्रदीपः
Sanskrit
डुकृञ् करणे
- करोति कुरुते कुर्वः कुर्वहे कुर्मः कुर्महे क्रियते चकार चक्रे कर्त्ता करिष्यति करिष्यते करोतु कुरुताम् कुरु कुरुष्व करवाणि करवै अकरोत् अकुरुत कुर्य्यात् कुर्वीत क्रियात् कृषीष्ट अकार्षीत् अकृत अकार्ष्टाम् अकृषाताम् अकारि अकारिषाताम् अकृषाताम् चिकीर्षति चिकीर्षते चेक्रीयते कृत्रिमम् कारः चक्रम् (6) चक्रिः (7) कारिमम् (8) शुचः करः शूकरः पृषोदरादिपाठात् (63109) चकारलोपः अन्येषामपि दृश्यते (63137) इति दीर्घश्चेति उच्चारविट् शूकरः 10
क्षीरतरङ्गिणी
Sanskrit
डुकृञ् करणे
- अनुदात्तः- करोति कुरुते, करोतेः (द्र0 64110) इत्युत्त्वम्, तनादिकृञ्भ्य उः (3179) इति पृथक् कृञो ग्रहणादन्यत् तनादिकार्यं नास्ति अनुपराभ्यां कृञः (1379) तङ्-अनुकरोति, पराकरोति गन्धनादौ (द्र0 1332) तङ्-श्येनो वर्तिकामपकुरुते अधेः प्रसहने (1333)-तं हाधिचक्रे वेः शब्दकर्मणः (1334)-श्वा विकुरुते स्वरम् अकर्मकाच्च (1335)-विकुर्वते दान्ताः संपर्युपेभ्यः करोतौ भूषणे, समवाये (तु0 61137, 138)-सुट् संस्कुरुते, परिष्कुरुते, उपस्कुरुते नित्यं करोतेः (64108) इति म्वोर्विकरणलोपः-कुर्वः कुर्मः कृसृभृवृ (7213) इति लिटि नेट्-चकर्थ, चकृव, चकृम ऋद्धानोः स्ये (7270) इट्-करिष्यति ये (74109) इति विकरणलोपः-कुर्यात्, भकुर्छुराम् (8279) इति दीर्घो नास्ति हृक्रोरन्यतरस्याम् (1453) कर्मसंज्ञा-घटं कारयति चैत्रं चैत्रेण वा तिरोऽन्तर्धौ, विभाषा कृञि (1371, 72) गतिसंज्ञा, तिरसः (द्र0 8342) गतौ सत्वम्-तिरस्कृत्य, तिरः कृत्वा कृभ्वस्तियोगे (5450) च्विः-शुक्लीकरोति मिथ्योपपदात्, कृञोऽभ्यासे (1371) तङ्-पदं मिथ्या कारयते कृत्रिमम् (द्र0 3388) विभाषा कृवृषोः (31120) इति क्यप्, कार्यम् अतः कृकमि (8346) इति सत्वम्-अयस्कारः कृञो हेतुताच्छील्यानुलोम्येषु (3220) टः-विद्या यशस्करी दिवाविभा (3221) इत्यच् -दिवाकरः कर्मणि भृतौ (3222)-कर्मकरः स्तम्बशकृतोरिन् (3224) स्तम्बकरिर्व्रीहिः शकृत्करिर्वत्सः मेघर्तिभयेषु कृञः (3243) खच् मेघंकरः क्षेमप्रियमद्रेऽण् (3244)-क्षेमंकरः, क्षेमकारः आढ्यसुभग (3256) इति ख्युन्-आढ्यंकरणम् कर्तृकर्मणोश्च भूकृञोः (33127)खल्-ईषदाढ्यंकरः, स्वाढ्यंकरः सुकर्मपाप (3289) इति क्विप्-सुकृत् राजनि युधिकृञः (3295) क्वनिप्-राजकृत्वा सहे (3296)-सहकृत्वा अलंकृञ् निराकृञ् (32136) इतीष्णुच्-अलंकरिष्णुः, निराकरिष्णुः कृञः (33100)-क्रिया, कृत्या, कृतिः प्रश्नाख्यानयोरिञ् (कातन्त्र कृदन्त 606, सर0 कण्ठा0 24161)-कां कारिमर्काषीः ? इमां कारिमकार्षम्, कारिकाम् ण्यन्तात् (द्र0 33100) कारणा भिदादौ (गण0 33104) कारा बन्धने कर्मण्याक्रोशे कृञः खमुञ् (3425)-चौरंकारमाक्रोशति स्वादुमि णमुल् ( 3 4 26 )-स्वादुंकारंभुङ्क्ते अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् (3427)-अन्यथाकारम्, एवंकारम् यथातथयोरसूयाप्रतिवचने (3428)-यथाकारमस्तु किं तवानेन ? तिर्यच्यपवर्गे (3460) तिर्यक्कृत्य, तिर्यक्कारम्, समाप्येत्यर्थः स्वाङ्गेतस्प्रत्यये कृभुवोः (तु0 3461)-मुखतः कृत्य, मुखतः कृत्वा, मुखतः कारम् नाधार्थप्रत्यये च्व्यर्थे (3462)-नानाकृत्य, नानाकारम्, द्विधाकृत्य द्विधाकारम् भ्वादौ कृञ् करणे-(1639)-करति, करते स्वादौ कृञ् हिंसायाम् (57)-कृणोति कृणुते कृवापाजि (उ0 11)इत्युण्-कारुः, कारूः कृग्रोरुच्च (उ0 124)-कुरुः, कुरूः कृञः कतुः (उ0 176)-क्रतुः अण्डन् कृसृभृवृञः (उ0 1129)-करण्डः कृहृभ्यामेणुः (उ0 210)-करेणुः, करेणूः कृदाधारा (उ0 340) इति कः-कर्कः कृधूमादिभ्यः कित् (उ0 373) इति सरन्=कृसरः कृञ उच्च (433) इतीरन्-कुरीरम् कृञ उदीच्यां कारिषु (तु0 उ0 4129) इतीञ्-कारिः मनिन् (दश0 उ0 673)-कर्म कृञः पासः (उ0 545)-कर्पासः कृपेः कूः-कूर्पासः कञ्चुकम् करोतेर्द्वे (तु0 6112 भाष्यम्)-चक्रम् 8
धातुवृत्तिः
Sanskrit
डुकृञ् (अर्थः) करणे
( करोति कुरुतः कुर्वन्ति करोषि करोमि कुर्वः कुर्मः कुरुते कुर्वाते कुरुषे कुर्वे कुर्वहे ) ( सूत्रम्) "अत उत्सार्वधातुके'' (इति सूत्रम्) इति सार्वधातुकपरस्योप्रत्ययान्तस्य करोतेरकारस्योकारः तपरकरणाल्लघूपधगुणो भवति "नित्यं करोतेः'' इति वकारमकारादौ नित्यमुकारस्य लोपः कृतेऽस्मिन् "हलि च'' इति दीर्घो "न भकुर्छुराम्'' इति निषिध्यते चोदिति तपरत्वेनैव विकारनिवृत्यर्थेन गुणवद्दीर्घोऽपि भविष्यतीति मन्तव्यम् तस्मिह्नि विकारनिवृत्त्यर्थे प्रसक्ते दीर्घस्य पूर्वत्रासिद्धत्वात् चोकारलोपस्य स्थानिवद्भावेनेह हल्परत्वाभावः ? दीर्घविधिं प्रति स्थानिवदति वा [ पूर्वत्रासिद्धे स्थानिवत् ] इति वा स्थानिवत्वस्य निषेधात् ( चकार चक्रतुः चकर्थ वकृव ) क्रादिव्यतिरेकाभावाल्लिटीडभावः ( चक्रे चक्राते चकृषे चकृवहे ) चाजादावन्तरङ्गत्वात्पूर्वं यण्यनच्कत्वाद् द्विर्वचनाप्रसङ्गः शंक्यः "द्विर्वचनेऽचि'' इति यणः स्थानिवत्वात् ( कर्ता करिष्यति ) "ऋद्धनोः स्ये'' इतीट् ( करोतु कुरुतात् कुरुताम् कुरु करवाणि कुरुताम् कुरुष्व करवै )"अत उत्सार्वधातुके'' इत्यस्मिन्कर्तव्ये "उतश्च प्रत्ययात्'' इत्यस्य हिलुको "असिद्धवदत्र'' इत्यसिद्धत्वात्सार्वधातुकपरत्वेनोत्वं भवति ( अकारोत् अकरोः अकरवम् अकुरुत अकुरुथाः कुर्यात् कुर्याताम् कुर्याः ) "ये च'' इति यकारादौ करोतेरुप्रत्ययस्य नित्यं लोपः ( कुर्वीत कुर्वीयाताम् कुर्वीय ) यणादेशः आशिषि ( क्रियात् क्रियास्ताम् ) "रिङ् शयग्लिङक्षु'' इति रिङादेशस्य रीङि प्रकृते रिङविधानात् "अकृत्सार्वधातुकयोः'' इति दीर्घो भवति ( कुषीष्ट, कृषीयास्ताम् ) रिङादेशे यकारादाविति सीयुटि भवति "उश्च'' इति लिङ्सिचोरात्मनेपदे कित्वान्न गुणः ( अकार्षीत् अकार्ष्टाम् ) सिचि वृद्धिः ( अकृत अकृषाताम् ) "ह्रस्वादङ्गात्'' इति सिचोलोपः "तनादिभ्यस्तथासोः'' इति विकल्पितो लुङ्न भवति तनादित्वादेवास्योप्रत्यये सिद्धे पृथग्विधानादन्यत्तनादिकार्थ भवतीति ज्ञापनात् यद्वास्तु विकल्पः, तथापि "ह्रस्वादङ्गात्'' इति लुगभावे लोपो भविष्यति विकल्पेनास्य बाधोऽसिद्धत्वाल्लोपस्य विकल्पविधानसामर्थ्यादसिद्धत्वेऽपि बाधः तस्यान्यत्र ( अतत, अतनिष्ट ) इत्यादौ चरितार्थत्वात् एवं विकरणविधौ कृञ उपादानं प्रपञ्चार्थं भवति कर्मणि ( क्रियते अकारि ) "रिङ् शयग्लिङ्क्षु'' इति रिङादेशो यकि अत्रात्रेयः कथं क्रियतीति पुरुषकारइत्युपादाय "व्यत्ययो बहुलम्'' इति कर्मण्यपि परस्मैपदसिद्धेः तथ गुरुटीकायां कृताः पुरोडाशाः, करिष्यन्ति ( 2 ) ( 2 ) क्वचित् पुस्तके करिष्यन्तो निर्वापा इति कर्मण्येव लृटि शतृप्रयोगो दृश्यते इति पाठ उपलभ्यते तु प्रयोगमुखे तु तिङन्तप्रतिरूपको निपात इत्युत्तरप्रन्थासङ्गत्या ऽसंगतः प्रीतभतिति चिन्त्यं विद्वद्भिः निर्वापा इति, अत्र कर्मण्येव लृटि शतृप्रयोगो दृश्यते प्रयोगमुखे तु तिङन्तप्रतिरूपको निपात इत्युक्तमित्याहुः ( कर्मकर्तरि क्रियते कटः स्वयमेव, अकारि अकृत कटः स्वयमेव ) "अचः कर्मकर्तरि'' इति तशब्दे च्लेर्वा चिण् ( चिकीर्षति ) "इको झल्'' इति कित्त्वान्न गुणः "अज्झनगमाम्'' इति दीर्घे "ॠत इद्धातेः'' इतीत्वे रपरत्वे "हलि च'' इति दीर्घः ( चेक्रियते ) रिङ् ( चर्कति ) इत्यादि ( कारयति कटं देवदत्तं यज्ञदत्तः, देवदत्तेनेति वा ) "हृक्रोरन्यतरस्याम्'' इति वा प्रयोज्यं कर्म ( संस्करोति ) अलङ्करोतीत्यर्थः संस्कुर्वन्ति समवयन्तीत्यर्थः ( समस्करोत् सञ्चस्कार सञ्चस्करतुः सञ्चस्करिथ सञ्चरकरिव ) "सुट् कात्पूर्वः'' "अडभ्यासव्यवायेऽपि'' इति अधिकारे "सम्पर्युपेभ्यः करोतौ भूषणे'' "समवाये च'' इति कात्पूर्वः सुट्, समवायः समुदायः "समः सुटि'' इति समो मकारस्य रुः तस्य "खरवसानयोः'' इति विसर्जनीयस्य सः'' इति सत्वम् "वा शरि'' इति विसर्जनीयो भवति, व्यवस्थितविभाषाविज्ञानात् वार्तिके तु [ सपुंकानां सो वक्तव्यः] इति रोरपवादः एव विहितः भाष्ये तु "समः सुटि'' इति द्विसकारकनिर्देशात्सूत्रेणैव सविधिः सिद्ध इत्युक्तम् "अत्रानुनासिकः पूर्वस्य तु वा'' इति पक्षे सात्पूर्वस्यानुनासिकः, अत्रग्रहणं रप्रकरणोपलक्षणम्, अनुनासिकाभावे "अनुनासिकात्परोऽनुस्वारः'' इत्यनुस्वार आगमः क्रादिसूत्रे [ कृञो सुडिति वक्तव्यम् ] इति वचनात्ससुट्कः क्राद्यन्यो भवतीति लिटीडागमः भारद्वाजनियमोऽप्यसुट एवेष्यत इति वृत्त्यादौ स्थित ( 1 ) ( 1 ) स्थितत्वात्थलीति पुस्तकान्तरे पाठः मिति नेङ्विकल्पः, सुटि कात्पूर्वग्रहणं सुटोऽभक्तत्वज्ञापनार्थमिति व्यवस्थितत्वात्संक्रियत इत्यादावृकारान्तत्वेऽपि संयोगादित्वाभावात् "गुणोर्तिसंयोगाद्योः'' इति गुणो भवति तथा ( संस्कृषीष्ट, समस्कृषाताम् ) इत्यदौ "लिङ्सिचोरात्मनेपदेषु''इति "ऋतश्च संयोगादेः'' इतीण्न भवति "ऋतश्च संयोगादेर्गुण" इत्यत्र तु संयोगोपधग्रहणं कर्तव्यं कृञोऽर्थमिति उक्तत्वात्संयोगाद्यवयवत्वाभावेऽपि ऋकारस्य (सञ्चस्करतुः) इत्यादौ किति लिटि गुणो भवति एवमुपस्करेतीइत्यादि, परिपूर्वत्वे तु "परिनिविभ्य'' इत्यादिना सुटः षत्वं भवति परिष्करोतीत्यादि अड्व्यवाये तु "सिवादिनां वाङ्व्यवायेऽपि'' इति विकल्पो भवति ( पर्यष्करोत्, पर्यस्करोत् ) इत्यादि ( प्ररिचस्कार ) इत्यादौ "स्थादिष्वभ्यासेन'' इति षत्वं तत्र यतः प्राक् सितादित्यनुवर्तते, सम्पूर्वस्य क्वचिद्भूषणेऽपि सुडिष्यते तदृषिः समस्कुरुतेति, सूत्रे दृश्यते "संस्कृतं "संस्कृं भक्षाः'' इति उपात्कृञ "उपात्प्रतियत्नवैकृतवाक्याध्याहारेषु'' इत्येतेष्वपि कात्पूर्वः सुङ् भवति प्रतियत्नस्सतो गुणान्तराधानहेतुरिहा, ऽसावाधिक्याय वृद्धस्य वा तादवस्थाय, विकृतमेव वैकृतं प्रज्ञादित्वात्स्वार्थेऽण्, गम्यमानार्थस्य वाक्यैकदेशस्य स्वरूपेणोपादानं वाक्याध्याहारः ( एधो दकस्योपस्कुरुते ) "कृञः प्रतियत्ने'' इति कर्मणि शेषे षष्ठी, "गन्धनादि'' सूत्रेण प्रतियत्ने तङपि, उपस्करोत्यन्नं, विकरोतीत्यर्थः ( उपस्करोति, ) वाक्यैकदेशमध्याहरतीर्त्थः ( उपस्कृतं भुङ्क्ते ) उपस्कृतं जल्पतीत्युदाहरणे हरदत्तेन क्रियाविशेषणं व्याख्यातम् ( उत्कुरुते दोषं, श्येनो वर्तिकामपकुरुते, राजानं प्रकुरुते, परदारान्प्रकुरुते एधो दकस्योपस्कुरुते गाथाः प्रकुरुते शतं प्रकुरुते ) सूचयति, भर्त्सयति, सेवयते, सहसा प्रवर्तते, गुणान्तराधानाय ईहते, प्रकर्षेण कथयति, विनियुङ्क्त इति क्रमेणार्थाः "गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः'' इत्येतेष्वर्थेषु वर्तमानात्कृञो ऽकर्त्रभिप्रायेऽपि तङ् (तमधिकुरुते) "अधेः प्रसहने'' इति तङ्, प्रसहनमभिभवः, अपराजयो वा , पराजयः शक्तस्य क्षमयैव यस्तदभाव सः, तथा भारविः, भवाद्दशाश्चेदधिकुर्वते परा( 2 ) ( 2 ) अद्यतनपुस्तेषु रमिमिति पाठ उपलभ्यते, तत्र यद्यपि प्रसहनस्यासंगतेरघिपूर्वात्करोतेः "अधेः प्रसहने'' इत्यात्मनेपदं प्राप्नोति तथापि कर्त्रभिप्रायविवक्षायां "स्वरितञित'' इत्यात्मनेपदबोध्यम् निति क्षमया पराजयन्ते क्षमन्ते इत्यर्थः ( क्रोष्टा विकुरुते स्वरान् ) "वेः शब्दकर्मण'' इति तङ् अत्र कर्मेति कारकं गृह्यते क्रिया अत्र सुधाकरः "वेः शकब्दकर्मणः'' इति चेदनुवाकं श्लोकं वा विकरोतीत्यत्रातिप्रसङ्गः नेह शब्दविषयो व्यापारो यस्य शब्दो निर्वर्त्यः अत्र हि करोतिर्विनाशयतीत्यर्थां निर्वर्तयतीति, विकुरुते सैन्धवः, साधु दान्तः, सा ( 1 ) ( 1 ) शोभनमिति पाठान्तरम् धु वल्गतीत्यर्थः "अकर्मकाच्च'' इति पूर्ववत्तङ् यदायं वल्गनायां कृञ् तदा सौकार्यातिशयाद्वल्गनावचनस्तदा कर्तुः कर्मवद्भावेऽपि [ "यक्चिणोः प्रतिषेधः ] इत्यात्मनेपदाकर्मकत्वान्न यक्चिणाविति विकुरुते सैन्धवः स्वयमेव, व्यकृतसैन्धवः स्वयमेवेति भवतः अत्रात्मनेपदाकर्मकेत्यनेनात्मनेपदविधावर्थान्तरबलादकर्मणामन्तर्भावितण्यर्थानां सकर्मकाणां सौकर्यातिशयविवक्षया पुनरकर्मकाणां कर्मकर्तृविषयाणां विग्रह इति येषां दर्शनं तेषां "विकारहेतौ सति विक्रियन्त'' इत्यत्र यक्निषेधप्रसङ्गः यतोऽत्र स्वत एव सकर्मकस्य कर्माविवक्षया अकर्मकत्वम्, येषां त्वात्मनेपदाकर्मकेति धातूपलक्षणं, तेषां विकरोतिरपि अर्थान्तर्वृत्त्या क्वचिदात्मनेपदनिमित्तं दृष्टमिति विकारहेतौ सतिविक्रियन्ते' इत्यत्रापि कर्मकर्तरि यक्निषेधेन भाव्यम् (संस्कुरुते कन्या स्वयमेव, समस्कृतकन्या स्वयमेव) इत्यत्रापि भूषाकर्मकत्वान्न यक्चिणौ ( पदं मिथ्या कारयते ) स्वरादिदुष्टमसकृदुच्चारयतीत्यर्थः "मिथ्योपपदात्कृञोऽभ्यासे'' इति ण्यन्तात्तङ् "गन्धनादि'' सूत्रचतुष्कमेव चाकर्त्रभिप्रायार्थम् ( अनुकरोति ) "अनुपराभ्यां कृञ'' इति परस्मैपदम् इदं कर्त्रभिप्राये गन्धनादौ प्राप्तस्य तङोऽपवादः अनेन कृञस्तङ्निमित्तत्वमेवनिषिध्यत इत्यनुचिकीर्षतीत्यादौ "पूर्ववत्सनः'' इति तङ् भवति अत्रात्रेयः "संज्ञापूर्वको विधिरनित्य' इति मा नः सर्वान्पराकृथा इति परस्मैपदाभावमाह ( कृत्यम् कार्यम् ) "विभाषा कृवृषोः'' इति क्यब्ण्यतौ वासरूपेण तव्यादयोऽपि, ( कर्तव्यं, करणीयम् ) विद्या ( यशस्करी श्राद्धकर आस्तिकः, प्रैषकरो भृत्यः ) "कृञो हेतुताच्छील्यानुलोम्येषु'' इति कर्मण्युपपदे टप्रत्ययः हेतुरैकान्तिकं कारणं, ताच्छील्यं तत्स्वभावता, आनुशेम्यमनुकूलता टित्त्वात्स्त्रियां ङीप् ( शङ्करा नाम परिव्राजिका ) तच्छीलाचेत्यत्र ताच्छीलिकं परमपि टप्रत्ययं "शमिधातोः संज्ञायाम्'' इत्यच्प्रत्ययस्तत्र धात्वधिकारेऽपि पुनर्धातुग्रहणाद्बाधते तथा वार्तिकं [ शमिसंज्ञायां धातुग्रहणं कृञो हेत्वादिटप्रतिषेधार्थम् ]इति अयं टप्रत्ययो "न शब्दश्लोककलगाथावैरचाटुसूत्रमन्त्रपदेषु'' इति निषेधाच्छब्दादिषूपपदेषु भवतीत्यणेव, ( शब्दकार ) इत्यादि दिवा हि प्राणिनश्चेष्टायुक्तान्करोतीति ( दिवाकरः)"दिवाविभानिशाप्रभाभास्कारान्तानन्तादिबहुनान्दीरकिंलिपिलिबिबलिभक्तिकर्त्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तद्धनुररुःषु'' इति, दिवादिषूपपदेषु कृञष्टः अहेत्वाद्यर्थ आरम्भः तत्र दिवाशब्दस्याधिकरणप्रधानत्वाकर्मत्वं भवतीति तत्र सुपीतिसंबध्यते अन्येषु कर्मणीति विभां करोतीति ( विभाकरः, प्रभाकरः ) इत्यादीनि उदाहार्याणि ( भास्करः ) इत्यत्रैव भास्कर इति करोतौ परे सकारस्य निर्द्देशात्सत्वम् "अतः कृकमि'' इति सत्वं तपरनिर्दशान्न प्राप्रोति कर एव कार इति प्रज्ञा ( 2 ) ( 2 )कर ण्व कारः, प्रज्ञादित्वादण् इति पुस्तकान्तरे पाठः दिः अत्रानन्तकरस्य नञ्समासेनैव सिद्धे ऽनन्तग्रहणं कृदुत्तरपदप्रकृतिस्वरार्थम् अन्यथा "तत्पुरुषे तुल्य'' इत्याद्युदात्तत्वं स्यात् बहुशब्दो वैपुल्यवचनः, अन्यस्य संख्यात्वादेव ग्रहः अत्रेष्टिः किंयत्तद्वहुषु कृञोऽज्विधानमिति प्रयोजनं किंकरेत्यादौ स्त्रियां टाप् ( किंकरी ) इति तु पुंयोगे डीषि हेत्वादौ वा पूर्वसूत्रेण टप्रत्यये (तस्करः) इत्यत्र [ तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च ] इति सुट्तलोपौ, ( धनष्करः, अरुष्करुः ) "नित्यं समासेऽनुत्तरपदस्थस्य'' इति विसर्जनीयस्य नित्यं षत्वम् ( कर्मकरः ) "कर्मणि भृतौ'' इति कर्मशब्दउपपदे भृतौ गम्यमानायां टप्रत्ययः, ( भूतिः ) वेतनम् अन्यत्र कर्मकारः (स्तम्बकरिः) व्रीहिः (शकृत्करिः) वत्सः "स्तम्बशकृतोः'' इतीन् [व्रीहिवत्सयोरिति वक्तव्यम्] इत्युक्तत्वादन्यत्र स्तम्बकारः शकृत्कार इति, ( ऋतिङ्करः मेघङ्करः भयङ्करः ) "मेघर्तिभयेषु कृञः'' इति मेघादिषु कर्मसूपपदेषु खच् खित्वान्मुम् उपपदविधौ भयाढ्यादिग्रहणं तदन्तविधि प्रयोजतीत्युक्तत्वादभयदिशब्देऽप्युपपदे खच् भवति (अभयङ्करः) इति (क्षेमङ्करः क्षेमकारः ) "क्षेमप्रियमद्रेण् च'' इति खजणौ खचो विकल्पनेनैव कर्मण्यणि सिद्धेऽण्ग्रहणंहेत्वादिषु टप्रतिषेधार्थम्, एवं प्रियमद्रयोरप्युदाहार्यम् अनाढ्य आढ्यः क्रियते येन तत् (आढ्यंकरणम्) "आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वच्वौ कृञः करणे ख्युन्'' इति आढ्यादिष्वभूततद्भावविषयेषु अच्व्यन्तेषु कर्मसूपपदेषु करणकारके ख्युन् स्त्रियाम्-(आढ्यंकरणी) "टिढ्डाणञ्'' इत्यादिना ङीष् एवं सुभगङ्करणमित्यादि, खित्त्वान्मुम् उपपदविधौ भयाढ्यादिग्रहणं तदन्तविधिं प्रयोजयतीत्युक्तत्वादनाढ्यादिष्वप्युपपदेषु ख्युन् भवति अनाढ्यंकरणमित्यादि (सुकृत्) शोभनं कृतवानित्यर्थः "सुकर्मपापमन्त्रपुण्येषु कृञ'' इति स्वादिषु कर्मसूपपदेषु कृञः क्विप्, एवं कर्मकृदित्यादि राजानं कृतवान् ( राजकृत्वा ) "राजनि युधि कृञ'' इति राजनि कर्मण्युपपदे भूते क्वनिप् तुगागमः, स्त्रियां"वनो च'' इति ङीब्रेफौ, ( राजकृत्वरी )(सहकृत्वा) "सहे च'' इति भूते क्वनिप् ( अलङ्करिष्णुः ) "अलंकृञ्निराकृञ्'' इति ताच्छीलिक इष्णुच्, ( चक्रिः, ) "भाषायां धाञ्कृञ्'' इति किकिनोरन्यतरः, लिङ्वद्भावाद् द्विर्वचनम् ( चक्रम् ) घञर्थे कः, "कृञादीनां के द्वे भवत'' इति द्विर्वचनम् ( चक्रीवान्नाम राजा, ) "आसन्दीवदष्ठीवच्चक्रीवत्''इति मतुपि चक्रीभावो निपातनात् ( क्रिया कृतिः ) "कुञः च'' इति शक्तिनौ कृञ इति योगविभागात्क्यप्, तुगागमः, कृत्येति, शस्य भावविषयत्वात्सार्वाधातुकत्वाच्च यकि विकरणे "रिङ् शयग्लिङ्क्षु'' इति रिङादेशः ( ईषदाढ्यंकरो देवदत्तः, दुराढ्यङ्करः, ) "कर्तृकर्मणोश्च भूकृञोः'' इति करोतेः कर्तृकर्मवाचिनि चकारादीषदादिषु चोपपदेषु खल्प्रत्ययः "कर्तृकर्मणोश्च्व्यर्थयोः' इति वचनादभूततद्भावविषयोऽयं प्रत्ययः तदयमर्थः अनाढ्योऽनायासेन दुःखेन सुखेन वा आढ्यः क्रियते इति ( चोरङ्कारमाक्रोशति, ) "कर्मण्याक्रोशे कृञः खमुञ्'' इति कर्मण्युपपदे आक्रोशे गम्यमाने खमुञ् अत्र करोतिः स्वभावादुच्चारणक्रिय इति चोरशब्दोऽपि स्वरूपपरः, तदयमर्थः-चोरशब्दमुच्चार्याक्रोशतीति अस्य धातुसम्बन्धमात्रे विधानेऽपि णमुलन्तार्थानुरोधायाक्रोशार्थस्यैवानुप्रयोगः ( स्वादुङ्कारं भुङ्क्ते )"स्वादुमि णमुल्'' इति णमुल् स्वादुमित्यर्थग्रहणात्-(सम्पन्नंकारं भुङ्क्ते लवणंकारं भुङ्क्ते) इत्यत्रापि णमुल् भवति अत एव स्वादुमीतिनिर्द्देशादुपपदस्य मान्तत्वम् ननु प्रकृतः खमुञ् विधीयतां खित्त्वान्मान्तत्वं भविष्यति किं निपातनेन, एवं तर्हि लिङ्गविशिष्टपरिभाषया "वोतो गुणवचनात्'' इति ङीषन्तस्य स्वाद्वीशब्दस्योपपदत्वं माभूदिति निपातनम्, भावप्रत्ययविषये हि मान्तत्वनिपातने उकारान्तत्वाभावान्नास्ति ङीषः प्रसङ्गः किं च्व्यन्तस्य स्वाद्वादेर्मान्ततार्थं, तस्य ह्यव्ययत्वात् खित्त्वनिबन्धनो मुम्नास्ति अत्र णमुल्विषये वारूपविधिना क्त्वापि भवति (स्वादुंकृत्वा भुङ्क्ते) इत्यादि (अन्यथाकारं भुङ्क्ते) ( सूत्रम्) "अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्'' (इति सूत्रम्) इत्यन्यथादिषु उपपदेषु णमुल्, सिद्धशब्दः प्राप्तवचनः, प्राप्तप्रयोगश्चेत्करोतिरित्यर्थः, प्राप्तप्रयोगत्वं निरर्थकत्वात्, तेनान्यथेति यावानर्थस्तावानेवान्यथाकारमिति एवमेवङ्कारमित्यादि अत्रापि वासरूपेण क्त्वापि भवति) तेनान्य ( 1 ) ( 1 ) तेनान्यथा चोदितमन्यथाकृत्वा परिहार इत्यादि भवतीति पुस्तकान्तरे पाठः थाकृत्वा परिहरतीत्यादि भवति (यथाकारमहं भोक्ष्ये तथाकारमहं भोक्ष्ये किन्तवानेन) ( सूत्रम्) "यथातथयोरसूयाप्रतिवचने'' (इति सूत्रम्) इति कृञः सिद्धाप्रयोगाद्यथातथयोरुपपदयोरसूयाप्रतिवचने गम्यमाने णमुल्, यत्र प्रश्ने प्रतिवचनमसूयायां भवति तदसूयाप्रतिवचनम् (अकृताकारं) करोति, अकृतं करोतीत्यर्थः "समूलाकृतजीवेषु हन्कृञ्ग्रहः'' इति णमुल् कषादित्वाद्यथाविध्यनुप्रयोगः ब्राह्मण पुत्रस्ते जातः र्कि तहिं ( नीचैःकारमाचक्षे, नीचैःकृत्य, नीचैःकृत्वेति वा ) "अव्ययेऽयथाभिप्रेताक्ष्याने कृञः क्त्वाणमुलौ'' इति कत्वाणमुलौ यथाभिप्रेतं भवति तथा ऽऽख्याने गम्यमाने, अत्र हि पुत्रजन्मनि प्रियमुच्चैराख्येयं गोपनीयवत्केनचिन्नीचैराख्याते, "तृतीयाप्रभृतीन्यजन्यतरस्याम्'' "क्त्वा च'' इति समासविकल्पः, ( तिर्यक्कृत्य गतः तिर्यक्कृत्वा गतः, तिर्यक्कारमिति वा ) समाप्य गत इत्यर्थः "तिर्यच्यपवर्गे'' इति क्त्वाणमुलौ, अपवर्गः समाप्तिः, पूर्ववत्समासविकल्पः, ( मुखतःकृत्य, मुखतःकृत्वा, मुखतःकारं गच्दति ) "स्वाङ्गे तस्प्रत्यये कृभ्वोः'' इति क्त्वाणमुलौ, पूर्ववदत्रापि समासविकल्पः ( नानाकृत्य, नानाकृत्वा नानाकारं, विनाकृत्य, विनाकृत्वा, विनाकारम् द्विधाकृत्य, द्विधाकृत्वा, द्विधाकारम् द्वेधाकृत्य, द्वेधाकृत्वा, द्वेधाकारम्, ) एवं द्वैधंकृत्वेत्यादि "नाधार्थप्रत्यये च्व्यर्थः'' इति क्त्वाणमुलौ पूर्ववत्समासः सूत्रार्थो भवतावुक्तः ( कृतः कृतवान् ) कृतं गृह्णाति ( कृतयति ) "मुण्डमिश्र'' इत्यादिना णिच्, स्वभावाद्गृह्णात्यर्थे प्रत्ययः कृतमनेन ( कृती ) "इष्टादिभ्यश्च'' इतीनिः कृतञ्च तदपकृतं च--(कृतापकृतं, ) [ कृतापकृतानामुपसंख्यानम् ] इति समासः ( कृत्रिमम् ) "ड्वितः क्त्रिः, '' "क्त्रेर्मेम्नित्यम्'' इति कडति माद्यतीति ( कडः ) अच् कडं करोतीति कडंकरो माषमुद्गादिकाष्ठं, तदर्हतीति ( कडङ्कर्यः, कडङ्करीयः, ) "कडङ्करदक्षिणाच्छ च'' इति अर्हतीत्यर्थे यच्छौ अत्रैव निर्देशादचि मुमागमः ( कर्म ) मनिन् कर्म शीलोऽस्य (कार्मः) "छत्रादिभ्यो णः'' इति णः "कार्मस्ताच्छील्ये'' इति निपातनाट्टिलोपः "नस्तद्धित'' इति टिलोपे सिद्धे निपातनं णेऽपि क्वचिदण्कृतं कार्यं भवतीति ज्ञापनार्थं, तेन तापसी चौरीत्यत्र णेऽप्यण्कृतो ङीब् भवतीति पूर्वत्रोक्तम् कर्मणे प्रभवति ( कार्मुकम् ) "कर्मण उकञ्'' इति "तस्मै प्रभवति'' इत्यर्थे उकञ् सर्वकर्म व्याप्नोति ( सर्वकर्मीणः ) "तत्सर्वादेः'' इत्यादिना खः, कर्मणि घटते ( कर्मठः ) "कर्मणि घटो ऽठच्'' इति अठच् ( कर्मी, ) व्रीह्यादित्वादिनिः ( कार्मणम् ) "तद्युक्तात्कर्मणोः'' इति व्याहृतार्थवाग्युक्तात्कर्मणः स्वार्थेऽण् "अन्'' इति प्रकृतिभावः ( कारुः ) "कृवापाजि'' इत्युण् ( क्रतुः ) "कृञः कतुः'' इति कतुप्रत्ययः ( कार्पासः ) "कृञः पासण्'' इति पासण्, ( कृकः ) "6kqxAXArArcikaliByaH कः'' इति कः, बाहुलकात्कलोपगुणयोरभापवः ( ऊरीकृत्य, पटपटाकृत्य ) "ऊर्यादिच्विडाचश्च'' इति कृभ्वस्तियोगे ऊर्यादीनां गतिसंज्ञा तथा वृत्तिः च्विडाचोः कृभ्वस्तियोगे विधानादूर्यादीनामपि तैरेव योगे गतिसंज्ञेति, वार्तिकमपि [ कृभ्वस्तियोग इति वक्तव्यम् ] इति संज्ञाप्रयोजनं समासादि ऊर्यादीनां प्रयोगोऽपि कृभ्वस्तियोग एवेति केयटपदमञ्जर्योः कथं तर्हि भवति "आविश्चक्षुषोर्भवदसाविव राग' इति "अभवद्युगपद्विलोलजिह्वा युगलीढोभयसृक्कभागमाविः'' इति स्वतन्त्राः कवय इति हरदत्तःतत्राप्याविःप्रादुशब्दौ मुक्त्वा अन्येषामूर्यादीनामर्थस्वभावात्करोतियोग एव प्रयोगः अत एव वृत्तिकृता गणवृत्तिकृता अन्यैश्च शाकटायनादिभिः करोतियोग एवोदाहरणं दर्शितम् श्रच्छब्दस्य दधातिनैवयोग इत्यन्ये, श्रौषट् वौषट् स्वाहा स्वधेत्येतेषां पञ्चानां चादिषु पाठादिक्रियायोगेऽपि प्रयोगः अन्येऽप्यूर्यादय उदाहार्य्याः ( कारिकाकृत्य ) क्रियां कृत्वेत्यर्थः [ कारिकाशब्दस्योपसंख्यानम् ] इति गतित्वम्, "धात्वर्थनिर्द्देशे ण्वुल्'' इति ण्वुलन्तःकारिकाशब्द इति न्यासे, ( खाट्कृत्य ) "अनुकरणं चानितिपरम्'' इति गतिसञ्ज्ञा, अनुकरणस्य इति परत्वे तु खाडिति कृत्वा ( सत्कृस्य ) "आदरानादरयोः सदसती'' इति गतित्वं, प्रीतिपूर्वकप्रत्युत्थानादिविषयत्वरा आदरः, अवज्ञया कर्त्तव्यं प्रत्युत्थानादिकं प्रत्युपेक्षा ऽनादरः अन्यत्र सत्कृत्वा, असत्कृत्वा शोभनमशोभनञ्च कृत्वेत्यर्थः ( अलंकृत्य ) "भूषणे ऽलम्'' इति गतित्वं, भूषाणादन्यत्रालंकृत्वा, करणेनालमित्यर्थः अनुकरणमित्यादयस्त्रयो योगाः स्वभावात् कृञ्विषयाः, पुरस्कृत्य पूर्वदेशे कृत्वेत्यर्थः "पुरोऽव्ययम्'' इति गतिसंज्ञा, "पूर्वाधरावाराणामसिपुरधवश्चैषाम्'' इति सप्तम्यन्तात् स्वार्थे ऽसिप्रत्ययः पुरादेशश्च, "तिद्धतश्चासर्वविभक्तिः''इत्यव्ययत्वम्, "नमस्पुरसोर्गत्योः'' इति विसर्जनीयस्य सत्वम् अव्ययादन्यत्र, पुरः कृत्वा गतः ( अस्तंकृत्य ) "अस्तञ्च'' इति गतिसंज्ञा, चकारोऽव्ययमित्यनुकर्षणार्थः, तेनात्रैव निर्द्देशादस्तंशब्दो मकारान्तो ऽव्ययमस्तीति ज्ञायते अस्य त्वदर्शनमर्थः अन्यत्रास्तङ्गतः क्षिप्तंकृत्वेत्यर्थः द्वाविमौ योगौ करोत्यविषयावपि दृश्येते, यथा "तुरासाहं पुरोधाय' अस्तङ्गत्य सविता पुनरुदेति'' ( अदःकृत्य ) "अदोऽनुपदेशे'' इति गतित्वम् उपदेशः परार्थे वाक्यप्रयोगः ततोऽन्योपदेशः, स्वयमेव बुद्ध्या परामर्श इति यावत्, परस्य कथने त्वदः कृत्वा गत इति, सूत्रे ऽद इति द्वितीयान्तानुकरणेनामुना कृत्वेत्यर्थेऽदः कृत्वेत्येव भवतीत्यात्रेयः ( तिरस्कृत्य ) "विभाषा कृञि'' इति तिरसो वा गतित्वम्, अन्तर्द्धौ "तिरसोऽन्यतरस्याम्'' इति विसर्जनीयस्य वा सत्वम्, अन्यदा तु "कुप्वोःकःपौ च'' इति जिह्वामूलीयविसर्जनीयौ द्रष्टव्यौ, अगतित्वे "तिरसोऽन्यतरस्याम्'' इति सत्वं गतेरितीह भवतीत्यात्रेयः केचित्तु तत्र गतिग्रहणं नानुवर्तयन्ति, तेन तिरस्कृत्येत्यत्रापि सत्वम् अत एव पराभवेऽपि तिरस्कार इति, अयं पक्षा भाष्यवृत्तिन्यासपदमञ्जर्यादौ दृश्यते ( उपाजेकृत्य उपाजेकृत्वा अन्वाजेकृत्य अन्वाजे कृत्वा ) इति, "उपाजेऽन्वाजे'' इति वा कृञि गतित्वम् उपाजेऽन्वाजेशब्दौ विभक्तिप्रतिरूपकौ निपातौ दुर्बलस्य सामर्थ्याधाने वर्तते ( साक्षात्कृत्य साक्षात्कृत्वा ) "साक्षात्प्रभृतीनि च'' इति कृञि वा गतित्वम्, अत्र वार्तिकम् [ साक्षात्प्रभृतिषु च्व्यर्थग्रहणम् ] तत्र च्विप्रत्ययप्रतिषेध इति तेन च्व्यन्तस्योर्यादित्वाद् नित्यं गतित्वम् अस्य प्रयोजनमकारान्तेषु लवणीकृत्येत्यादौ अत्र लवणमुष्णमुदकं शीतमार्द्रमिति पञ्च पठ्यन्ते, एषामत्रैव निपातनाद्गतित्वसन्नियोगेन मान्तत्वम् अत्राग्नौवशेप्रभृतयः केचिदेजन्ताः पठ्यन्ते, ते विभक्तिप्रतिरूपका निपाताः, प्रादुसाविस्शब्दाविह पठ्येते, तयोरूर्यादित्वान्नित्ये प्राप्ते विकल्पार्थः पाठः ऊर्यादिपाठस्तु कृभ्वस्तियोगे नित्यार्थः अत्र नमःशब्दः पठ्यते यदा गतिसंज्ञकस्तदोपसर्गवद्वृत्त्या कृञः प्रणामवचनत्वं द्योतयतीति प्रणामापेक्षया कर्मणि देवादौ "नमःस्वस्ति'' इत्येतद् बाधित्वा "उपपदविभक्तेः कारकविभक्तिर्बलीयसी' इति नमस्यति देवानितिवत् नमस्करोति देवानितिद्वितीयैव भवति अगतित्वे तु करोतिक्रियाकर्मभावापन्नं विशेष्यभूतं प्रणाममाचष्ट इति देवादावकर्मणि "नमः स्वस्ति'' इति चतुर्थी तथा भट्टिः--"नमश्चकार देवेभ्यो, रावणाय नमस्कुर्याः' इति स्वयं भुवे नमस्कृत्येत्यत्र तु नमसो गतित्वे कृञो विशेषकत्वात्प्राप्तां कारकविभक्तिं द्वितीयां "क्रियार्थोपपदस्य'' इति चतुर्थी बाधते, तदत्रायमर्थो वाच्यः, स्वयम्भुवं प्रीणयितुं प्रणम्येति वर्द्धमानस्तु श्राद्धाय निगृह्णते इतिवत्क्रियाग्रहणं कर्तव्यमिति चतुर्थीमाह ( उरसिकृत्य उरसि कृत्वा मनसिकृत्य मनसि कृत्वा ) बुद्धौ कृत्वेत्यर्थः "अनत्याधानउरसिमनसी'' इति उरसिमनसीत्यनयोर्वा गतित्वम् अत्याधानमुपश्लेषस्तदभावोऽनत्याधानम् अत्याधाने तु उरसि कृत्वा पाणिं शेते इति सप्तम्यन्तप्रतिरूपकावेतौ ( मध्येकृत्वा मध्येकृत्य पदे कृत्वा पदेकृत्य निवचने कृत्वा निवचनेकृत्य, ) "मध्येपदेनिवचने च'' इति वा गतित्वम् अनत्याधाने मध्येपदेशब्दौ विभक्तिप्रतिरूपकौ, निवचनं वचनाभावः सतृणमितिवदव्ययीभावः उच्चारणसामर्थ्यात्सप्तम्या लुङ् भवीतति न्यासे हरदत्तस्तु निपातनादेकारान्तत्वं पुनरेषा सप्तमी वाचं नियम्येति व्याख्यानात् निपातनं चाविशेषेण तु संज्ञासंज्ञियुक्तं, निवचनेकृत्वेत्युदाहृतत्वादित्याहुरिति अत्याधाने पदेकृत्वा शिरःशेते ( हस्तेकृत्य पाणौकृत्य ) "नित्यं हस्ते पाणावुपयमने'' इति नित्यं गतित्वम्, निपातनादलुगिति न्यासे, सप्तम्यन्तप्रतिरूपकाविति हरदत्तादयः उपयमनं दारकमति वृत्तौ, अन्ये तु स्वीकरणमात्रमिच्छन्ति हस्तेकृत्य महास्त्राणीति आत्रे यस्तूपयमनपन्नामपरित्यागलक्षणं स्वीकरणं, तथा भट्टिः---"हस्तेकृतय त्वमाश्वासीः'' इति (प्राध्वंकृत्य, शकटं गतः) बन्धनेनाकूलं कृत्वा गत इत्यर्थः "प्राध्वं बनधने'' इति गतित्वम् पाध्वंशब्दस्य मान्तस्याव्ययस्यानुकूल्यार्थत्वाद्वन्धनइत्यर्थद्वारेण बन्धने सति यदानुकूल्यमिति, अबन्धने तु प्राध्वं कृत्वा शकटं गतः विनापि बन्धनेनानुकूलं कृत्वेत्यर्थः, ( जीविकामिवकृत्वा जीविकाकृत्य, उपनिषदमिव कृत्वा उपनिषत्कृत्य ) "जीविकोपनिषदावौपम्ये'' इति गतित्वम् इवशब्दप्रयोगे जीविकोपनिषदौ स्वार्थे वर्तेते नौपम्यइत्यगतित्वान्न समासः मामधिकृत्वा ईश्वरो भवेति, मां विनियुज्येत्यर्थः यथा "स्वरितेनाधिकारः, ग्रामे ऽधिकृतः''इत्यनयोः प्रयोगयोर्विनियोगो ह्यर्थः "विभाषा कृञि'' इत्यधेरैश्वर्ये गम्यमाने कर्मप्रवचनीयसंज्ञा अस्याः फलम् "आकडारात्'' इति गतिसंज्ञाबाधः द्वितीया त्वधिकृञोविनियोगार्थत्वात्कर्मणीत्येव सिद्धा अगतित्वे तु प्रादिसमासस्य [ कर्मपवचनीयानां प्रतिषेध ] इति निषेधाद्वाक्यमेव भवति कर्मप्रवचनीयत्वाभावे तु गतित्वात्समासे मामधिकृत्येति अनुदात्त उभयतोभाषः 8