| YouTube Channel

टुदु (Tudu)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दु
मूलधातुः:
टुदु
धात्वर्थः:
उपतापे
गणः:
स्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
दुनोति
धातुप्रदीपः
Sanskrit
टुदु उपतापे
- दुनोति दुदाव दोता दुत्वा दुतः (3) दवथुः दवः दावः 11
क्षीरतरङ्गिणी
Sanskrit
टुदु उपतापे
- इतश्चत्वारोऽनिटः दुनोति दोता दवथुः (द्र0 3389) भौवादिकेन ग्रहणानि, दु द्रु गतौ (1675)-दवति 10
धातुवृत्तिः
Sanskrit
टुदु (अर्थः) उपतापे
( दुनोति ) इत्यादि धनोतिवत् ( दावः ) "दुन्योरनुपसर्गे'' इति कर्त्तरि णः ( दव ) इति भौवादिकादचि तस्य नात्र ग्रह इति तत्रैवोक्तम् "समि युद्रुदुव'' इति घञ्विधौ दुसाहचर्यान्निरनुबन्धकत्वाच्च दवतेरेव ग्रह इत्यस्यावेव भवति सन्दव इति ( दवथुः ) "ट्वितोथुच्'' ( दुत्वा दुतः दुतवान् ) ल्वादौ "दुग्वोदीर्घश्च'' इत्यत्र यदुक्तं न्यासे टुदु उपतापे इति तदसत्, यदाह हरदत्तः दु द्रु गतावित्यस्य दोर्ग्रहणं टुदु उपतापइत्यस्य सानुबन्धकत्वात् तथा माघः मृदुतया दुतयेतीति 10