ञिभी (JibhI)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
धातुपाठः (Krishnacharya)
Sanskrit भी
ञिभी
भये
जुहोत्यादिः
अकर्मकः
अनिट्
परस्मैपदी
बिभेति
ईकारान्तः, ञीत्
धातुप्रदीपः
Sanskritञिभी भये
- बिभेति बिभीतः बिभितः बिभ्यति बिभाय बिभयाञ्चकार अभैषीत् (1) भीषयते मुण्डो भापयते वा, शरैर्भाययति भीतमस्य भयम् भीतिः भीः, भियौ 2
क्षीरतरङ्गिणी
Sanskritञिभी भये
- चौरेभ्यो बिभेति, भीत्रार्थानां भयहेतुः (1425) अपादानम् भियोऽन्यतरस्याम् (64115) इत्त्वम्-बिभितः भीह्री (3139) इति बिभयांकार बिभाय भीस्म्योर्हेतुभये (1368) तङ्-भियो हेतुभये षुक् (7340)-मुण्डो भीषयते बिभतेर्हेतुभये (6156) आत्त्वं वा-मुण्डो भापयते, नेह-कुञ्चिकयैनं भाययति भियः क्रुक्लुकनौ (32174)-भीरुः, भीलुकः क्रुकन् अपि (द्र0 30174 भाष्य0)-भीरुकः भिय षुग् वा (उ0 1148) इति मक्-भीमः, भीष्मः अज्विधौ भयादीनामुपसंख्यानम् (3356 वा0)-भयम्, भीतिः, भीः ऋज्रेन्द्राग्र (उ0 228) इति भेरभेलौ आनकः शीङ्भियः (उ0 382)-भयानकः इण्भीका उ0 334) इति कन्-भेकः 2
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
धातुवृत्तिः
Sanskritञिभी (अर्थः) भये
(चोराद्बिभेति, बिभितः बिभीतः बिभ्यति बिभेषि, बिभीथः, बिभीथ, बिभिथ, बिभेमि, बिभीवः बिभिवः, ) "भीत्रार्थानां भयहेतुः'' इति भयहेतोः कारकस्य अपादानत्वम् "भियोऽन्यतरस्याम्'' इति हलादौ क्ङिति सार्वधातुके वा इकारः ( व्यतिबिभीत ) इत्यादावात्मनेपदे अप्ययमित्वविकल्प उदाहार्यः ( व्यतिबिभ्यत ) इत्यत्र "आत्मनेपदेष्वनतः'' इत्यद्भावे "परिहूत्यापवादविषयमुत्सर्गोऽभिनिविशते' इति न्यायेन द्विर्वचनोत्तरकालमनेकाच्त्वात् "एरनेकाच'' इत्यपवादस्य यणो भावित्वात् पूर्वमियङ् न प्रवर्तते यद्वात्रान्तरङ्गत्वात् "श्लौ'' इति द्विर्वचने पश्चादद्भाव इति नैव इयङः प्रसङ्गः ( बिभाय, बिभ्यतुः बिभयिथ, बिभेथ, बिभ्यिव, ) क्रादिनियमादिट् थलि भारद्वाजनियमाद्विकल्पः ( बिभयांचकार "भीह्री'' इत्यादिना पक्षे आम्प्रत्ययः श्लुवद्भावश्च ( भेता भेष्यति बिभेतु, बिभीतात्, बिभीताम्, बिभ्यतु, बिभीहि, बिभिहि, बिभितात्, बिभीतम्, बिभयानि, ) हेरपित्त्वात् ङित्त्वात् पक्षे इत्वम् एवं तातङ्यन्येषु ङित्सु चोक्तम् उत्तमआटि गुणायौ ( अबिभेत्, अबिभीताम्, अबिभयुः, ) यणं बाधित्वा परत्वात्जुसि गुणः ( अबिभेः, अबिभीतम्, अबिभियम्, अबिभयम्, अबिभीव, अबिभिव बिभीयात्, बिभीयाताम्, बिभियाताम्, बिभीयाः, बिभियाः, बिभीयां, ) पिद्वचनेष्वपि यासुटोङित्त्वादित्वे ( बिभियात् ) इत्याद्युदाहार्यम् आशिषि, ( भीयात्, भीयास्ताम् ) इत्यादि आर्धधातुकत्वान्नात्रेत्वपक्षः ( अभैषीत्, अभैष्टाम्, अभैषीः अभैषम्, ) सिचि वृद्धिः ( बिभीषति, ) "इको झल्'' इति सनः कित्त्वात् न गुणः (बेभीयते वेभेति, वेभीतः, बेभितः, ) प्रकृतिग्रहणन्योन "भियोऽन्यतरस्याम्'' इति वेत्वम् ( भापयते अबीभपत भीषयते, अभीषयत, अबीभषत ) मुण्डः "बिभेतेर्हेतुभये'' इतिणावात्वे पुक् अन्यदा "भियो हेतुभये षुक्'' अत्र हि ई इतीकारप्रश्लेषणेन ईकारान्तस्यषुको विधानात् आत्वपक्षे स न भवति "भीस्म्योर्हेतुभये'' इत्युभयत्र तङ् हेतुभयार्थः स्मयतावुक्तः अहेतुंभये तु कुञ्चिकयैनं भाययति अबीभयद् इति वृद्ध्यायौ ( बिभ्यत् भीषणः )नन्द्यादित्वात् ण्यन्ताल्ल्युः ( भीतः ) "ञितः क्तः'' इति वर्तमाने क्तः (भयम्) [अज्विधौ भयादीनामुपसङ्ख्यानं नपुंसके क्तादिनिवृत्त्यर्थम् ] इति क्तल्युटौ बाधित्वा अजेव भवति पारायणे तु वासरूपेण क्तो दर्शितः तदसत्, क्तल्युट्तुमुन्खलर्थेषु वासरूपविधिप्रतिषेधात् ( भीः, भियौ ) सम्पदादित्वात्क्विप् क्तिन्नपीष्यते ( भीतिः ) वृकेभ्यो भयं ( वृकभयम् ) "पञ्चमी भयेन'' इति तत्पुरुषः [भयभीतभीतिभीभिरिति वक्तव्यम् ] इति भीतादिभिरपि समासो नेयः ( भीरुः, भीलुकः ) "भिञः क्रुक्लुकनौ'' इति क्रुक्लुकनौ ( भीरुकः ) [क्रुकन्नपि वक्तव्यम] इति क्रुकन् ( भीमः, भीष्मः ) "भियष्युक्च'' इति मक्प्रत्यये पक्षे षुगागमः "भीमादयोऽयादाने'' इत्यपादाने ऽयं प्रत्ययः ( भयानकः ) आनकन् "शीङ्भिय'' इत्यानकन् अयमपि भीमादिः (भेकः) "इण्भी'' इति कन् 2
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
