| YouTube Channel

ज्ञानवापी (jJAnavApI)

 
Monier Williams Cologne
English
ज्ञान—वापी
f.
‘knowledge-pool’,
N.
of a Tīrtha,
KāśīKh.
xxxiii
f.
शब्दकल्पद्रुमः
Sanskrit
ज्ञानवापी,
स्त्री,
(ज्ञानस्य ज्ञानरूपोदकस्यवापी दीर्घिकेव ।) वाराणस्यन्तर्गततीर्थ-विशेषः तदुत्पत्त्यादिर्यथा, --अगस्त्य उवाच ।“स्कन्द ! ज्ञानोदतीर्थस्य माहात्म्यं वद साम्प-तम् ।ज्ञानवापीं प्रशंसन्ति यतः स्वर्गौकसोऽप्यलम्
स्कन्द उवाच ।घटोद्भव ! महाप्राज्ञ ! शृणु पापापनोदिनीम् ।ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाधुना
अनादिसिद्धे संसारे पुरा दैवयुगे मुने ! ।प्राप्तः कुतश्चिदीशानश्चरन् स्वैरमितस्ततः
वर्षन्ति यदाभ्राणि प्रावर्त्तन्त निम्नगाः ।जलाभिलाषो यदा स्नानपानादिकर्म्मणि
क्षारस्वादूदयोरेव यदासीज्जलदर्शनम् ।पृथिव्यां नरसञ्चारे वर्त्तमाने क्वचित् क्वचित्
निर्व्वाणकमलाक्षेत्रं श्रीमदानन्दकाननम्
”“सुखसन्तानजनकं मोक्षसाधनसिद्धिदम् ।प्रविश्य क्षेत्रमेतत् ईशानो जटिलस्तदा ।लसत्त्रिशूलविमलरश्मिजालसमाकुलः
आलुलोके महालिङ्गं वैकुण्ठपरमेष्ठिनोः ।महाहमहमिकायां प्रादुरास यदादितः
ज्योतिर्म्मयीभिर्म्मालाभिः परितः परिवेष्टितम्
”“अस्येशानस्य तल्लिङ्गं दृष्ट्वेच्छेत्यभवत्तदा ।स्नापयामि महालिङ्गं कलसैः शीतलैर्जलैः ।चखान त्रिशूलेन दक्षिणाशोपकण्ठतः
कण्डं प्रचण्डषेगेन रुद्रो रुद्रवपुर्धरः ।पृथिव्यां वरुणाम्भांसि निष्क्रान्तानि तदा मुने !
भूप्रमाणाद्दशगुणैर्यैरियं वसुधावृता ।तैर्जलैः स्नापयाञ्चक्रे त्वस्पृष्टैरन्यदेहिभिः
”“विश्वभर्त्तुरुमास्पर्शसुखातिसुखकारिभिः ।महावभृथसुस्नानमहाशुद्धिविधायिभिः
सहस्रधारैः कलसैः ईशानो घटोद्भव ! ।सहस्रकृत्वः स्नपयामास संहृष्टमानसः
ततः प्रसन्नो भगवान् विश्वात्मा विश्वलोचनः ।तमुवाच तदेशानं रुद्रं रुद्रवपुर्द्धरम्
तव प्रसन्नोऽस्मीशान ! कर्म्मणानेन सुव्रत ! ।गुरुणानन्यपूर्व्वेण ममातिप्रीतिकारिणा
ततस्त्वं जटिलेशान ! वरं ब्रूहि तपोधन ! ।अदेयं तवास्त्यद्य महोद्यमपरायण !
ईशान उवाच ।यदि प्रसन्नो देवेश ! वरयोग्योऽस्माहं यदि ।तदेतदतुलं तीर्थं तव नाम्नास्तु शङ्कर !
विश्वेश्वर उवाच ।त्रिलोक्यां यानि तीर्थानि भूर्भुवःस्वःस्थितान्यपि ।तेभ्योऽखिलेभ्यस्तीर्तेभ्यः शिवतीर्थमिदं परम्
शिवं ज्ञानमिति ब्रूयुः शिवशब्दार्थचिन्तकाः ।तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात्
अतो ज्ञानोदनामैतत्तीर्थं त्रैलोक्यविश्रुतम् ।अस्य दर्शनमात्रेण सव्वपापैः प्रमुच्यते
ज्ञानोदतीर्थसंस्पर्शादश्वभेधफलं लभेत् ।स्पर्शनाचमनाभ्याञ्च राजसूयाश्वमेधयोः
फल्गुतीर्थे नरः स्नात्वा संतर्प्य तु पितामहान् ।यत् फलं समवाप्नोति तदत्र श्राद्धकर्म्मणा
”“ज्ञानरूपोऽहमेवात्र द्रवमूर्त्तिं विधाय ।जाड्यविध्वंसनं कुर्य्यां कुर्य्यां ज्ञानोपदेशनम्
इति दत्त्वा वरान् शम्भुस्तत्रैवान्तरधीयत ।कृतकृत्यमिवात्मानं सोऽप्यमंस्त त्रिशूलभृत्
ईशानो जटिलो रुद्रस्तत् प्राश्य परमोदकम् ।अवाप्तवान् परं ज्ञानं येन निर्व्वृतिमाप्तवान्
”इति स्कान्दे काशीखण्डे ३३ अध्यायः
वाचस्पत्यम्
Sanskrit
ज्ञानवापी स्त्री काशीस्थे वापीरूपे तीर्थभेदे तदाविर्भवादिकथा काशी० १२ अ० ।“घटोद्भव! महाप्राज्ञ! शृण पापापनोदिनीम्ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाऽधुना ।अनादिसिद्धे संसारे पुरा देवयुगे मुने! प्राप्तः कुत-शिदीशानश्चरन् स्वैरमितस्ततः वर्षन्ति यदाऽभ्राणिन प्रावर्त्तन्त निम्नगाः जलाभिलाषो यदा स्नान-पानादिकर्म्मणि क्षीरस्वादूदयोरेव यदासीज्जल-दर्शनम् पृथित्यां नरसञ्चारे वर्त्तमाने क्वचित् क्वचित् ।निर्वाणकमलक्षेत्रं श्रीमदानन्दकाननम् महाश्मशानंसर्वेषां वीजाना परमूषरम् महाशयनसुप्तानां जन्तूनांप्रतिबोधकम् संसारसागरावर्त्तपतज्जन्तुतरण्डकम् ।यातायातातिसंखिन्नजन्तुविश्राममण्डपम् अनेकजन्मगुणितकर्मसूत्रच्छिदक्षरम् सच्चिदानन्दनिलयंपरं ब्रह्म रसायनम् सुखसन्तानजनकं मोक्षसाधन-सिद्धिदम् प्रविश्य क्षेत्रमेतत् ईशानो जटिलस्तदा ।लसत्त्रिशूलविमलरश्मिजालसमाकुलः आलुलोकेमहालिङ्गं वैकुण्ठपरमेष्ठिनोः महाहमहमिकायांप्रादुरास यदादितः ज्योतिर्मयीभिर्मालाभिः परितःपरिवेष्टितम् वृन्दर्वृन्दारकर्षीणां गणानाञ्च निर-न्तरम् सिद्धानां योगिनां स्तोमैरर्च्यमानं निरन्तरम् ।गीयमानञ्च गन्धर्वैः स्तूयमानञ्च चारणेः अङ्गहारै-रप्सरोभिः सेव्यमानमनेकधा नीराज्यमानं सततंनागीभिर्मणिदीपकैः विद्याधरीकिन्नरीभिस्त्रिकालंकृतमण्डनम् अमरीचमरीराजिवीज्यमानमित-स्ततः तस्येशानस्य तल्लिङ्गं दृष्ट्वेच्छा ह्यभवत्तढा ।स्नपयामि महालिङ्गं कलसैः शीतलैर्जलैः चस्वान त्रिशूलेन दाक्षणांशोपकण्ठतः कुण्डंप्रचण्डवेगेन रुद्रो रुद्रवपुर्धरः पृथिव्यावरणाम्भांसिनिष्क्रान्तानि तदा मुने! भूप्रमाणाद्दशगुणैर्यैरियं वसुधावृता तैर्जलैः स्नपयाञ्चक्रे दुष्पृष्टैरन्यदेहिभिः ।तुषारैर्जाद्धविनदैर्जंजपूकौ वहारिभिः सम्भनोभि-रिवात्यच्छैरनच्छैर्व्योमवत्मेवत् ज्योत्स्तावदुज्ज्वल-च्छायैः पावन्ते शम्भु नामवत् पीयूषवत् स्वादुतरैःसुश्चस्पर्शैर्गवाङ्गवत् निष्पापधीरकुम्ज्भीरैस्तरलैः पापि-शर्म्मवत् विजिताब्जमहागन्धैः पाटलामोद-नोदिभिः अदृष्टपर्वलोकानां मनोनयनहारिभिः ।अज्ञानतापसन्तप्तप्राणिप्राणैकरक्षिभिः पञ्चामृतानांकलसेः स्नपनातिफलप्रदैः श्रद्धोपस्पर्शिहृदयलिङ्ग-त्रित्यहेतुभिः अज्ञानतिमिरार्काभैर्ज्ञानदाननिदा-नकैः विश्वभर्त्तुरुमास्पर्शमुणातिसुखकारिभिः ।महावभृथसुस्नातमहाशुद्धिविधायिभिः सहस्रधाःरैकलसैः ईशानो घटोद्धव! सहस्रकृत्वः स्रपयामास संहृष्टमानसः ततः प्रसन्नो भगवान् विश्वात्माविश्वलोचनः तमुवाच तदेशानं रुद्रं रुद्रवपुर्धरम् ।तव प्रसन्नोऽस्मीशान! कर्मणानेन सुवत! गुरुणानन्य-पूर्वेण ममातिप्रीतिकारिणा ततस्त्वं जटिलेशान वरंब्रूहि तपोधन! अदेयं तवास्त्यत्र महोद्यमपरा-यण ईशान उवाच यदि प्रसन्नोदेवेश! वरयोग्यो-ऽस्म्यहं यदि तदेतदतुलं तीर्थं तव नाम्तास्तु शङ्कर ।श्रीविश्वेश्वर उवाच त्रैलोक्यां यानि तीर्थानि भू-र्भुवःस्वःस्थितान्यपि तेभ्योऽखिलेभ्यस्तीर्थेभ्यः शिव-तीर्थमिदं परम् शिवो ज्ञानमितिब्रूयुः शिवशब्दार्थ-चिन्तकाः तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात ।अतो ज्ञानोदनामैतत्तीर्थन्त्रैलोक्यविश्रुतम् अस्यदर्शनमात्रेण सर्वपापैः प्रमुच्यते ज्ञानोदतीर्थसंस्पर्शा-दश्वमेधफलं लभेत् स्पर्शनाचमनाभ्याञ्च राजसूयाश्व-मेधयोः फल्गुतीर्थे नरः स्नात्वा सन्तर्ष्य पिता-महान् यत् फलं समवाप्नोति तदत्र श्राद्धकर्मणा ।गुरुपुष्यसिताष्टम्यां व्यतीपातो यदा भवेत् तदात्रश्राद्धकरणाद्गयाकोटिफलं भवेत् यत् फलं समवाप्नोतिपितॄन् सन्तर्प्य पुष्करे तत्फलं कोटिगुणितं ज्ञानतीर्थेतिलोदकैः सन्निहत्यां कुरुक्षेत्रे तमोग्रस्ते विवस्वति ।यत्फलं पिण्डदानेन तज्ज्ञानोदे दिने दिने पिण्ड-निर्वपनं येषां ज्ञानतीर्थे सुतेः कृतम् मोदन्ते शिव-लोके ते यावदाहूतसंप्लवम् अष्टम्याञ्च चतुर्दश्यामप-वार्सीं नरोत्तमः प्रातः स्नात्वाऽथ पीत्वाम्भस्त्वन्तर्लिङ्गमयो भवेत् एकादश्यामुपोष्याथ प्राशेदु यश्चुलुक-त्रयम् हृदये तस्य जायन्ते त्रीणि लिङ्गान्यसंशयम् ।ईशानतीर्थे यः स्तायाद्विशेषात् सोश्च्रवासरे सन्तर्प्यदेवर्षिपितॄन् दत्त्वा दानं स्वशक्तितः ततः समर्च्च्यश्रीलिङ्गं महासम्भारविस्तरैः तत्रापि दत्त्वा नाना-र्थान् कृतकृत्यो भवेन्नरः उपास्य सन्ध्यां जानोदे यत्पाप काललोपजम् क्षणेन तदपाकृत्य ज्ञानवान्जायते नरः शिवतीर्थमिदं प्रोक्तं ज्ञानतीर्थमिदंशुभम तारकाख्यमिदं तीर्थं मोक्षतीर्थमिदं स्मृतम् ।स्यरणादपि पापौघा ज्ञानोदे क्षीयते ध्रुवम् दर्शनात्स्पर्शनात् स्नानात् पानाद्धर्मादिसम्भवः डाकिनी-शाकिनीभूतप्रेतवेतानराचसाः ग्रहकस्माण्डखेटाङ्गाःकालकर्णीशिशुग्रहाः व्यरापस्मारविस्फोटतृतीयक-चतुर्थकाः सर्वे प्रशममायान्ति शिवतीर्थजलोक्षणात् ।ज्ञानोदतीर्थपानीयैर्लिङ्गं यः स्नपयेत् सुधीः सर्व-तीर्थोदकैस्तेन ध्रुवं संस्तपितं भवेत् ज्ञानरूपोऽह-मेवात्र द्रवमूर्त्तिं विधाय जाह्यविध्वंसनं कुर्य्या-कुर्य्यां ज्ञानोपदेशनम्” “इति दत्त्वा वरान् शम्भुस्तत्रैवा-न्तरधीयत कृतकृत्यमिवात्मानं सोऽप्यमंस्त त्रिशूलभृत् ।ईशानो जटिलो रुद्रस्तत्पीत्वा परमोदकम् अवाप्त-वान् परं ज्ञानं येन निर्वृतिमाप्तवान्”