जीवा (jIvA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishजीवा [jīvā], [जीव्-अच्]
Water.
The earth.
A bow-string
मुहुर्जीवाघोषैर्बधिरयति 6.3.
The chord of an arc.
Means of living.
The tinkling of metallic ornaments.
of a plant (वचा).
Life, existence.
Apte 1890
EnglishMonier Williams Cologne
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiजीवा
- जीव्+अच्+टाप्
जल
जीवा
- जीव्+अच्+टाप्
पृथ्वी
जीवा
- जीव्+अच्+टाप्
धनुष की डोरी
जीवा
- -
चाप के दो सिरों को मिलाने वाली रेखा
जीवा
- -
जीवन के साधन
जीवा
- -
धातु से बने आभूषणों की झंकार
जीवा
- -
"एक पौधा, वच"
Shabdartha Kaustubha
Kannadaजीवा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಧನುಸ್ಸಿನ ಗುಣ /ಬಿಲ್ಲಿನ ಹದೆ
निष्पत्तिः - > जीव (प्राणधारणे) + णिच् - "अच्"(३-१-१३४)
व्युत्पत्तिः - > जीवयति
जीवा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಸಿಹಿಹಾಲೆ ಗಿಡ /ಜೀವಂತೀ ವೃಕ್ಷ
जीवा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಬಜೆ
जीवा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಭೂಮಿ /ಮನುಷ್ಯ ಲೋಕ
जीवा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಆಭರಣಗಳ ಶಬ್ದ
विस्तारः - > "जीवा जीवन्तिका मौर्वी वचा शिञ्जितभूमिषु" - मेदि० ।
जीवा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ವೃತ್ತಿ /ಜೀವಿಕೆ /ಜೀವನೋಪಾಯ
विस्तारः - > "जीवा तु वचायां धनुषो गुणे । शिञ्जिते क्षितिजीवन्त्योर्वृत्तौ" - हेम० ।
जीवा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜೀವನ /ಬದುಕು
निष्पत्तिः - > जीव - भावे "अः" (३-३-१०३)
L R Vaidya
EnglishSchmidt Nachtrage zum Sanskrit Worterbuch
GermanWordnet
Sanskrit जीवन्ती, जीवनी, जीवा, जीवनीया, मधुस्रवा, मधुः, स्रवा, पयस्विनी, जीव्या, जीवदा, जीवदात्री, शाकश्रेष्ठा, जीवभद्रा, भद्रा, मङ्गल्या, क्षुद्रजीवा, यशस्या, शृङ्गाटी, जीवदृष्टा, काञ्जिका, शशशिम्बिका, सुपिङ्गला, मधुश्वासा, जीववृषा, सुखङ्करी, मृगराटिका, जीवपत्री, जीवपुष्पा, जीवनी
लताविशेषः।
"जीवन्ती औषधरूपेण उपयुज्यते।"
आयुः, आयुष, जीवनम्, जीवा, जीवित्वम्, जीव्यम्, मन्दसान
आमृत्योः कालः।
"तस्य जीवनं परोपकारे एव व्यतीतम्।"
अभिधानचिन्तामणिः
Sanskritमौर्वी जीवा गुणो गव्या शिञ्जा बाणासनं द्रुणा ।
शिञ्जिनी ज्या च गोधा तु तलं ज्याघातवारणम् ॥ ७७६ ॥
मौर्वी (स्त्री), जीवा (स्त्री), गुण (पुं), गव्या (स्त्री), शिञ्जा (स्त्री), बाणासन (क्ली), द्रुणा (स्त्री), शिञ्जिनी (स्त्री), ज्या (स्त्री), गोधा (स्त्री), तल (स्त्रीक्ली), ज्याघातवारण (क्ली)
जीवन्ती जीवनी जीवा जीवनीया मधुस्रवा ॥ ११८५ ॥
जीवन्ती (स्त्री), जीवनी (स्त्री), जीवा (स्त्री), जीवनीया (स्त्री), मधुस्रवा (स्त्री)
अभिधानरत्नमाला
Sanskritबाणासन
बाणासन, द्रुणा, मौर्वी, ज्या, सिञ्जिनी, गुण, जीवा
बाणासनं द्रुणा स्यान्मौर्वी ज्या सिञ्जिनी गुणो जीवा ॥ ४६४ ॥
verse 2.1.1.464
page 0053
नाममाला
Sanskritमौर्वी, जीवा, गुण, गव्या, ज्या
मौर्वी जीवा गुणो गव्या ज्याऽलिर्भृङ्गः शिलीमुखः ।
भ्रमरः षट्पदो ज्ञेयो द्विरेफश्च मधुव्रतः ॥ ८२ ॥
verse 0.1.1.82
page 0042
Tamil
Tamilஜீவா : தண்ணீர், பூமி, வில்லின் நாண் கயிறு, வசம்புச் செடி.
शब्दकल्पद्रुमः
Sanskritजीवा, (जीवयतीति । जीव + णिच् + अच् ।ततष्टाप् ।) जीवन्तीवृक्षः । मौर्व्वी । (यथा, आर्य्यासप्तशत्याम् । ३ । २१ ।“निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौविद्धि ।पश्य धनुर्गुणशून्यं निर्ज्जीवं तदिह शंसन्ति ॥
”“निर्गता जीवा ज्या यस्मात् तत् । ‘जीवा ज्याशिञ्जिनीत्यपि’ इत्यभिधानात् ।” इति तट्टीका ॥
)वचा । शिञ्जितम् । भूमिः । इति मेदिनी । वे, ८ ॥
जीवितम् । इति जटाधरः ॥
वाचस्पत्यम्
Sanskritजीवा स्त्री जीव--अच् जीवयतेरच् वा टाप् ज्या--क्विप्संप्रसारणे दीर्धः सा अस्त्यस्य वा । १ धनुषो गुणे ज्यायां२ जीवन्तिकायानौषधौ, ३ वचायां, ४ शिञ्जिते, ५ भूमौ६ जीवनोपाये च मेदि० जीव--भावे अ टाप् । जीवनेजटा० । धनुराकारक्षेत्रस्य वृत्तस्थोभयरेखावृत्तसंलग्नेक्षेत्रभेदे तन्मानानयनादिकं लीला० दर्शितं तच्च क्षेत्रशब्दे२४०३ पृ० दर्शितम् । ग्रहस्पष्टगत्याद्युपपयोगिलीराशिरूपक्षेत्रस्य जीवा तु क्रामज्याशब्दे २३०३ पृ० उक्ताअधिकं ज्याशब्दे वक्ष्यते ज्योत्पत्तिप्रकारः सि० शि०उक्तो यथा“इष्टाङ्गुलव्यासदलेन वृत्तं कार्य्यं दिगङ्गं भलवाङ्कितंच । ज्यासंख्ययाप्ता नवतेर्लवा ये तदाद्यजीवा धनुरेत-देव । द्वित्र्यादिनिघ्नं तदनन्तराणां चापे तु दत्त्वोभयतोदिगङ्कात् । ज्ञेयं तदग्रद्वयबद्धरज्जोरर्धं ज्यकार्धं निखि-लानि चैवम् । अथान्यथा वा गणितेन वच्मि ज्यार्धानितान्येव परिस्फुटानि । त्रिज्याकृविर्दोर्गुणवर्गहीनामूलं तदीयं खल् कोटिजीवा । दोःकोटिजीवारहितेत्रिभज्ये तच्छेषके कोटिभुजोत्क्रमज्ये । ज्याचापमध्येखलु योऽत्र वाणः सैवोत्क्रमज्या सुधियात्र वेद्या ।त्रिज्यार्धं राशिज्या तत्कोटिज्या च षष्टिभागानाम् ।त्रिज्यावर्गार्धपदं शरवेदांशज्यका भवति । त्रिज्याकृतीषुधातात् त्रिज्याकृतिवर्गपञ्चधातस्य । मूलोनादष्टहृतान्मूलंषट्त्रिंशदंशज्या । गजहयगजेषु ५८७८ भिघ्नी त्रिभ-जीवा वाऽयुतेन १०००० संभक्ता । पट्त्रिंशदंशजीवा तत्कोटिज्याकृतेषूणाम् । त्रिज्याकृतीषुधातान्मूलं त्रिज्यो-नितं चतुर्भक्तम् । अष्टादशभागानां जीवा स्पष्टा भव-त्येवम् । क्रमोत्क्रमज्याकृतियोगमूलाद्दलं तदर्धांशक-शिञ्जिनी स्यात् । त्रिज्योत्क्रमज्यानिहतेर्दलस्य मूलंतदर्धांशकशिञ्जिनी वा । तस्याः पुनस्तद्दलभागकानांकोटेश्च कोट्यं शदलस्य चैवम् । अन्यज्यकासाधनमुक्तमेवंपूर्बैः प्रवक्ष्येऽथ बिशिष्टमस्मात् । त्रिज्याभुजज्याहति-हीनयुक्ते त्रिज्याकृती तद्दलयोः पदे स्तः । भुजोनयुक्त-त्रिभखण्डयोर्ज्ये कोटिं भुजज्यां परिकल्प्य चैवम् ।यद्दोर्ज्ययोरन्तरमिष्टयोर्यत्कोटिज्ययोस्तत्कृतियोगमूलम् ।दलीकृतं स्यादुभुजयोर्वियोगखण्डस्य जीवैवमनेकधा वा ।दोःकोटिजीवाविवरस्य वर्गो दलीकृतस्तस्य पदेन तुल्या ।स्यात् कोटिवाह्वोर्विवरार्धजीवा वक्ष्येऽथ मूलग्रहणंविनापि । दोर्ज्याकृतिर्व्यासदलार्धभक्ता लब्धत्रिमौर्व्यो-र्विवरेण तुल्या । दोःकोटिभागान्तरशिञ्जिनी स्याज्ज्या-र्धानि वा कानिचिदेवमत्र । स्वगोऽङ्गेषुषडशेन (६५६९)वर्जिता भुजशिञ्जिनी । कोटिज्या दशभिः क्षुण्णात्रिसप्तेषु० (५७३) विभाजिता । तदैक्यमग्रजीवा स्यादन्तरंपूर्वशिञ्जिनी । प्रथमज्या भवेदेव” षष्टिरन्यास्ततस्ततः ।व्यासार्धेऽष्टगुणाब्ध्यग्नितुल्ये स्युर्नवतिर्ज्यकाः । कोठि-जीवा शताभ्यस्ता गोदस्ततिथि (१५२९) भाजिता । दोर्ज्यास्वाऽद्र्यङ्गवेदांश (४६७) हीना तद्योगसंमिता । तदग्रज्यातयोश्चापि विवरं पूर्वशिञ्जिनी । तत्त्वदस्रा २२५ नगां-शोना एवमत्राद्यशिञ्जिनी । ज्यापरम्परयैवं वाचतुर्विंशतिमौर्विकाः । चापयोरिष्टयोर्दोर्ज्ये मिथः-कोटिज्यकाहते । त्रिज्याभक्ते तयोरैक्यं स्याच्चापैक्यस्यदोर्ज्यका । चापान्तरस्य जीवा स्यात् तयोरन्तरसंमिता ।अन्यज्यासाधने सम्यगियं ज्याभावनोदिता । समास-भावना चैका तथान्यान्तरभावना । आद्यज्याचाप-भागानां प्रतिभागज्यकाविधिः । या ज्यानुपाततः सेष्ट-व्यासार्धे परिणाम्यते । आद्यदोःकोटिजीवाभ्यामेर्वकार्य्या ततो मुहुः । भांवनाः स्युस्तदग्रज्या इष्टे व्यास-दले स्फुटाः । स्थूलं ज्यानयनं पाठ्यामिह तन्नो०दितं मया । उक्ता संक्षेपतः पूर्वं ज्योमत्तिःसुगमा च सा । सविशेषाधुना तत्र विशेषाद्विवृणो-म्यतः” । तत्र तावदाचार्य्याणां पदवीमित्यादि श्लोकपञ्चकंसुगभम् । अत्र गणितेन ज्याज्ञानार्थं मूलमूतज्याचतु-ष्कसिद्धप्रकारमेवाह । तत्प्रकारो हि बीजगणित-क्रियया । त्रिज्यार्धं राशिज्येत्यादि । त्रिज्यार्धेन१७१९ तुल्या त्रिंशदंशानां ज्या भवति । तस्याःकोटिज्या षष्टिभागानाम् । त्रिज्यावर्गार्धपदं पञ्च-चत्त्वारिशदंशानां ज्या भवति । अथ त्रिज्यावर्गात्पञ्चगुणात् त्रिज्याकृतिवर्गपञ्चथातस्य मूलेन हीना-दष्ट८ हृतात् पदं षट्त्रिंशदंशानां ज्या । अथ वा गजहयगजेषु ५८७८ निघ्नी त्रिज्याऽयुतेन १०००० भक्ता षट्-त्रिंशदंशानां ज्या स्यात् । इति गणितलाघवम् । तत्कोटिज्यार्द्धाच्चतुष्पञ्चादंशानां ज्या । तथा त्रिज्यावर्गस्यपञ्चगुणस्यमूलं त्रिज्याहीनं चतुर्भक्तं सदष्टादशमागानांज्या भवति । तत्कोटिज्यार्द्धात् द्विसप्ततिभागानाम् ।अतोऽन्यथा साधनमाह । क्रमोत्क्रमज्येत्यादि । कोटि-ज्योना त्रिज्यामुजस्योत्क्रमज्या स्यात् । भुजज्योनात्रिज्याकोट्युत्क्रमज्या स्यात् । भुजक्रमज्योत्क्रमज्य-योश्च वर्गयोगपददलं भुजांशानामर्धस्य ज्या स्यात् ।अथवा त्रिज्योत्क्रमज्याधातदलस्य मूलं तदर्धांशक-शिञ्जिनी स्यादिति क्रियालाघवम् । एवमुत्पन्नज्यायाअपि कोटिज्या सा तत्कोटिमागानाम् । ततः पुनरेव-मन्यास्तदर्धांशकज्याः साध्याः । कोटेश्चैवमन्याः ।तद्यथा । यत्र चतुर्विंशतिर्ज्यास्तत्र त्रिज्यार्धमष्टमंज्यार्धम् । तत्कोटिज्या तु षोडशम् । शरवेदांशज्याद्वादशम् । अथाष्टमात् तदर्धांशप्रकारेण चतुर्थम् । ४ ।तत्कोटिज्या विंशम् । २० । एवं चतुर्थात् द्वितीयं २द्वाविशं च । २२ । द्वितीयादाद्यं २ त्रयोविंशं च २३ ।विंशतितमाद्दशमं १० चतुर्दशं च १४ । दशमात् पञ्चमम्५ एकोनविंशं च १९ । द्वाविंशादेकादशं ११ त्रयोदशंत्त १३ । चतुर्दशात् सप्तमं ७ सप्तदशं च १७ । अथद्धादशात् षष्ठ ६ मष्टादशं च १८ । षष्ठात् तृतीयं ३मेकविशं च २१ । अष्टादशान्नवमं ९ पञ्चदशं च १५ ।त्रिज्या चतुर्विंशमिति । एवं किल पूर्वैरन्यज्यासाधन-मुक्तम् । इदानीं विनाप्युत्क्रमज्ययाभिनवप्रकारेणाह ।त्रिज्याभुजज्याहतीत्यादि । त्रिज्याभुजज्याधातेनत्रिज्याकृतिरेकत्रोनान्यत्र युता । द्वे चार्धिते । तयोर्मूले ।आद्यं भुजोनखाङ्कांशानां दलस्य ज्या । द्वितीयं भुजा-द्यखाङ्कांशानां दलस्यं । एवमतोऽप्यन्याः । तद्यथा ।अष्टमात् षोडशं १६ ज्यार्धम् । षोडशाच्चतुर्थं च विंशंच ३० । चतुर्थाद्दशमं १० । चतुर्दशं च १४ । एवंसर्वाण्यपि । प्रकारान्तरमाह । यद्दोर्ज्ययोरन्तरनित्यादि ।इष्टदोर्ज्ययोर्यदन्तरं कीटिज्ययोश्च यत् तयोर्बर्गैक्यमूलस्यदलं भुजयोरन्तरार्धस्य ज्या भवति । एवमन्ययोर-न्यान्याः । यथैका किल चतुर्थीं ४ । अन्याष्टमी ४दोर्ज्या । ताभ्यां द्वितीया मिध्यति । द्वितीयाचतुर्थीभ्यांप्रथमेत्यादि । तथा दोःकोटिज्ययोरन्तरवगदलस्य मूलंदोःकोटिभागान्तरार्धस्य ज्या स्यात । तथाष्टमी चदोर्ज्या । षोडशी १६ कोटिज्या । ताभ्यां चतुर्थी ८स्यादित्यादि । अथ मूलग्रहणक्रियया विनापि दोःको-टिभागान्तरज्य्तानयनमाह । दोर्ज्याकृतिरित्यादि । दो-र्ज्यावर्गस्त्रिज्यार्धेत भक्तः । तस्य त्रिज्यायाश्च विबरंदोःकोथन्तरस्य ज्या स्यात् । कानिचिदेबमत्र ज्यार्धानिसाध्यानि । तद्यथा । यत्र किल त्रिंशज्ज्यार्धानि तत्रत्रिज्यार्धं दशमम् । १० । तत्कोटिज्या विंशतितमम् ।शरवेदांशज्या पञ्चदशम् । षट्धिं शज्या द्वादशम् ।तत्कोटिज्याष्टादशं ज्यार्धम् । अष्टादशभागानां ज्याषष्टम् । ६ । तत्काटिज्या चतुर्विशमिति । क्रमोत्क्रम-ज्याकृतियोगमूलादित्यादिना पूर्वोक्तप्रकारेण दशमात्पञ्चमम् । तत्कोटिज्या पञ्चविंशम् । एवं द्वादशात् षष्ठंचतुर्विंशं च । षष्ठात् तृतीयं सप्तविंशं च । अष्टा-दशान्नवममेकविंशं च । एतान्येवानेन प्रकारेण सिध्यन्तिनान्यानि । अत उक्तं कानिचिदेवमत्रेति । यद्दोर्ज्ययो-रन्तरमित्यादिप्रकारेण । अतोऽत्र पञ्चममेका दोर्ज्या ।नवममन्या । आम्यां यद्दोर्ज्यायोरन्तरमित्यादिना प्रका-रेण भुजयोरन्तरार्धस्य ज्योत्पद्यते । तच्च द्वितीयं ज्यार्धम् ।तत्कोटिज्याष्टाविशम् । आभ्यां कमोत्क्रमज्याकृति-योगमूलाद्दलमित्यादिप्रकारेणाद्यं चतुर्दशं च । एवमन्या-श्चतुर्दश सिध्यन्ति । अथ ज्याभावना । सा च द्वेधा ।एका समासमावना । अन्यान्तरभावना । तदर्थमाह ।स्वगोङ्गोषुषडंशेनेत्यादि । यत्र किल वसुत्रिवेदाग्नि३४३८ तुल्या त्रिज्या नवतिश्च ज्यार्धानि तत्र ताव-दुच्यते । तत्र मूलभूतज्यानां मध्ये काचनेष्टा भुजज्यातत्कोटिज्या च पृथक् स्थाप्या । भूजज्या स्वनवषडिषु-रस ६५६९ विभागेन रहिता कार्य्या । कोटिज्या तुदशगुणा त्रिसप्तपञ्चभिर्भाज्या । तयोरेक्य तदग्रज्या ।अन्तरं पूर्वज्या स्यात् । यथा त्रिज्यार्धं त्रिंशत्संख्याकं३० ज्यार्धम् । ततः समासभावनयैकत्रिंशत्संख्यकम् ।सस्माद्द्वात्रिं शत्संख्यमित्यादि । अन्तरभावनया त्वेकोन-त्रिंशनष्टाविंशमित्यादि । पूर्णं दोर्ज्या कोटिज्यांत्रिज्यां च प्रकल्प्य प्रथमं खण्डमेवं षष्टिः ६० स्यात् ।अथ यदि सैव त्रिज्या चतुर्विंशतिर्ज्यार्नि तदर्धमाह ।कोटिजीवाशताभ्यस्तेत्यादि । अत्रापि त्रिज्यार्धमष्टमंज्यार्धं सा भुजज्या । षोडशं कोटिज्या सा कोटि-ज्या अतगुणा नोदस्रतिथि (१५२९) भाजिता । या तुदोज्यां सा तु निजेन सप्ताङ्गवेदांशेन ४६७ हीना कार्य्या ।यदि तयोरेक्यं क्रियते तदा नवमं ज्यार्धं भवति ।यद्यन्तरं तदा सप्तमं स्यात् । एवं समासभावनयानवमाद्दशमं दशमादेकादशमित्यादि । तथान्तरभावनयासप्तमात् षष्ठं षष्ठात् पञ्चममित्यादि । एवं प्रथमं सप्तांशोनंतत्त्वदस्र २२५ मितं मवति । अथवा पूर्णं० दिर्ज्यांत्रिज्यां च कोटिज्यां प्रकल्प्य साध्यते तथापि तदेव ।ततः समासभावनया द्वितीयादीन्यखिलानि भवन्ति ।अथ वा त्रिज्यां दोर्ज्यां प्रकल्प्य पूर्णं कोटिज्यां चप्रकल्प्य साध्यते तदा व्रयोविंशमुत्पद्यते तस्मादन्तर-भावनया द्वाविंशम् २२ । ततोऽप्येकविंशम् २१ । एवमखिलान्यपि निष्पद्यन्ते । अथ भवानामाह । चापयो-रिष्टयोरित्यादि । इष्टयोशापयोर्ये दोर्ज्येते कर्णभूमौव्याप्ये । तयोरधस्तात् कोटिज्ये च । ततः प्रथमको-टिज्या द्वितीयदोर्ज्यया गुण्या । ततो द्वितीयकोटिज्याप्रथमदोर्ज्यया गुण्या । द्वे अपि त्रिज्यया भाज्ये ।फलयोः समासश्चापैक्यभुज्यस्य ज्या भवति । अन्तरं चा-पान्तरस्य ज्या भवति । इयं सिद्धज्यातोऽन्यज्यासाघनेभावना । तद्यया । तुल्यभावनया प्रथमज्यार्बस्य प्रथम-ज्यार्धेन सह समासभावनया द्वितीयं, द्वितीयस्य द्वितीयेनैवं चतुर्थमित्यादि । अथातुल्यभावनया द्वितीयतृतीययोः-समासभावनया पञ्चमम् । अन्तरभावनया प्रथमं स्यादि-त्यादि । अथेष्टव्यासार्धे ज्याज्ञानार्थमाह । आद्यज्या-चापमागानामित्यादि । यावद्भिरंशैरेका ज्या लभ्यते तेआद्यज्याचापांशाः । प्रतिमागज्यकाविधिरिति । त्रिसप्त-पञ्चभि ५७३ र्भक्तेत्यादिना प्रागुक्तप्रकारेणैकभागस्यज्यामानीय तद्भावनातो भागद्वयस्यैवं तेषां भागानांज्या साध्या साभीष्टत्रिज्यया हृता वस्वनलाब्धिवह्निभि३४३८ र्भक्ता प्रथमज्या स्यात् । तस्यास्तयैव सह भावनया द्वितीयाद्याः सिध्यन्ति” प्रमिताक्षरा ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
