| YouTube Channel

जीवः (jIvaH)

 
Hindi
Hindi
जीवन
Apte Hindi
Hindi
जीवः
पुं*
- -
"जीवन का सिद्धान्त, श्वास, प्राण, आत्मा- गतजीव, जीवत्याग, जीवाशा आदि"
जीवः
पुं*
- -
आत्मा
जीवः
पुं*
- -
"जीवन, अस्तित्व"
जीवः
पुं*
- -
"जानवर, जीवधारी प्राणी"
जीवः
पुं*
- -
"आजीविका, व्यवसाय"
जीवः
पुं*
- -
कर्ण का नाम
जीवः
पुं*
- -
एक मरुत् का नाम
जीवः
पुं*
- -
पुष्य' नक्षत्रपुञ्ज
Wordnet
Sanskrit
Synonyms:
प्राणः, जीवः, जीवनम्, प्राणनम्
noun
प्राणधारणम्
"तवमेव चिन्तय सखि नोत्तरम् प्रतिभाति मे स्व कार्ये मुह्यते लोको यथा जीवं लभाम्यहम्"[ह.174.73]"
Synonyms:
सजीवः, जीवः, जीवितः, जीवकः, प्राणयुतः, प्राणोपेतः।
noun
यः प्राणीति।
"जीवितस्य विषये स्मृतिलेखनं साहसम् एव।"
Synonyms:
शमी, सक्तुफला, शिवा, शक्तुफला, शक्तुफली, शान्ता, तुङ्गा, कचरिपुफला, केशमथनी, ईशानी, लक्ष्मीः, तपनतनया, इष्टा, शुभकरी, हविर्गन्धा, मेध्या, दुरितदमनी, शक्तुफलिका, समुद्रा, मङ्गल्या, सुरभिः, पापशमनी, भद्रा, शङ्करी, केशहन्त्री, शिवाफला, सुपत्रा, सुखदा, जीवः
noun
वृक्षविशेषः।
"शम्याः काष्ठस्य उपयोगः पूजाकार्येषु भवति।"
Synonyms:
प्राणी, चेतनः, जन्मी, जन्तुः, जन्युः, शरीरी, जीवः
noun
प्राणविशिष्टः।
"अस्मिन् विश्वे नैके प्राणिनः सन्ति।"
Synonyms:
जीवः
noun
एकः चिकित्सकः
"बौद्धसाहित्ये जीवः ख्यातः अस्ति"
Synonyms:
जीवः
noun
एकः वृत्तः
"जीवः ऋग्वेदप्रातिशाख्ये वर्तते"
Synonyms:
जीवः
noun
अष्टमरुत्सु एकः
"जीवः याज्ञवल्क्येन परिगणितः"
Synonyms:
जीवः
noun
एकः युगः
"बृहस्पतेः षष्टिसंवत्सरेषु तृतीयः युगः जीवः वर्तते"
Tamil
Tamil
ஜீவ: : வாழ்க்கைத் தத்துவம், மூச்சுக் காற்று, பிராணன், ஆன்மா.
शब्दकल्पद्रुमः
Sanskrit
जीवः,
पुं,
(जीवनमिति जीव + “हलश्च ।”३ १२१ इति घञ् ।) असुधारणम् ।इत्यमरः ११९ (यथा, हरिवंशे ।१७४ ७३ ।“त्वमेष चिन्तय सखि ! नोत्तरं प्रतिभाति मे ।खकार्य्ये मुह्यते लोको यथा जीवं लभाम्वहम्
”)(जीवतीति जीव प्राणे + “इगुपधज्ञेति ।”३ १३५ इति कः ।) प्राणी (यथा, भागवते १३ ४४ ।“अहस्तानि सहस्तानामपदानि चतुष्पदाम् ।फल्गूनि तत्र महतां जीवो जीवस्य जीवनम्
”)वृत्तिः वृक्षविशेषः (स एव महानिम्बवृक्षः ।तत्पर्य्याया यथा, --“महानिम्बः स्मृतोद्रेका रम्यको विषमुष्टिकः ।केशामुष्टिनिम्बकश्च कार्म्मुको जीव इत्यपि
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)बृहस्पतिः इति मेदिनी वे,
(यथा, काशीखण्डे १७ ४४ ।“अस्माल्लिङ्गार्च्चनान्नित्यं जीवभूतोऽसि मे यतः ।अतो जीव इति ख्यातिं त्रिषु लोकेषु यास्यसि
”)कर्णः इति धरणी
क्षेत्रज्ञः तत्पर्य्यायः ।आत्मा पुरुषः पुद्गलः अन्तर्यामी ५ईश्वरः इति त्रिकाण्डशेषः (यथा, भग-वद्गीतायाम् १३ टीकायां श्रीधरस्वामिपादाः ।“तञ्च क्षेत्रज्ञं संसारिणं जीवं वस्तुतः सर्व्व-क्षेत्रेष्वनुगतं मामेव विद्धि
”) तस्य स्वरूपंयथा, --“कर्म्मणा जीवरूपश्च सन्ततं तत्फलप्रदः ।कर्म्मरूपश्च भगवान् श्रीकृष्णः प्रकृतेः परः
सोऽपि तद्धेतुरूपश्च कर्म्म तेन भवेत् सति ।जीवः कर्म्मफलं भुङ्क्ते आत्मा निर्लिप्त एव
आत्मनः प्रतिविम्बश्च देही जीवः एव ।प्राणदेहादिभृद्देही जीवः परिकीर्त्तितः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डम्
*
(तथाच भागवते १२ १८४ १७ ।“जीवं पश्यामि वृक्षाणामचैतन्यं विद्यते
”)वेदान्तमते घटावच्छिन्नाकाशवत् शरीरत्रित-यावच्छिन्नं चैतन्यम् केषाञ्चिन्मते दर्पणस्थमुख-प्रतिविम्बवत् बुद्धिस्थचैतन्यप्रतिविम्बम्
(जीव-यति लोकानन्तर्य्याम्यात्मकरूपेणेति जीव +णिच् + अच् विष्णुः यथा, महाभारते ।१३ १५९ ६८ ।“जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः
”जीवनविशिष्टे, त्रि यथा, महाभारते १२ ।२८८ २३ ।“मृते वा त्वयि जीवेवा यदा भोक्ष्यति वैजनः
”)
जीवः, पुं
क्ली,
(जीव + भावे घञ् ।) जीवितम् ।इति मेदिनी वे,
(यथा, भागवते ।१ १० ।“जीवस्य तत्त्वजिज्ञासा नार्थो यश्चेह कर्म्ममिः
”“जीवस्य जीवनस्य पुनर्द्धर्म्मानुष्ठानद्वाराकर्म्मभिर्य्य इह प्रसिद्धः स्वर्गादिः सोऽर्थो नभवति ।” इति तट्टीकायां श्रीधरस्वामी
)
कृदन्तरूपमाला
Sanskrit
1 {@“जीव प्राणधारणे”@} 2 धात्वर्थसङ्गृहीतकर्मत्वेनास्य धातोरकर्मकत्वम्।
जीवकः-विका, जीवकः-विका, जिजीविषकः-षिका, जेजीवकः-विका
जीविता-त्री, जीवयिता-त्री, जिजीविषिता-त्री, जेजीविता-त्री
जीवन्-न्ती, 3 मा 4 जीवन्, जीवयन्-न्ती, जिजीविषन्-न्ती
-- जीविष्यन्-न्ती-ती, जीवयिष्यन्-न्ती-ती, जिजीविषिष्यन्-न्ती-ती
-- -- -- -- जेजीव्यमानः-जेजीविष्यमाणः
5 प्रज्यूः-प्रज्युवौ-प्रज्युवः
-- -- जीवितम्-तः, जीवितः, जिजीविषितः, जेजीवितः-तवान्
6 जीवः, 7 उपजीवी 8 -अनुजीवी, 9 जीवकः- 10 -जीवका, 11 जीवञ्जीवकः, जीवः, 12 जिजीविषुः, जेजीवः
जीवितव्यम्, जीवयितव्यम्, जिजीविषितव्यम्, जेजीवितव्यम्
जीवनीयम्, जीवनीयम्, जिजीविषणीयम्, जेजीवनीयम्
जीव्यम्, जीव्यम्, जिजीविष्यम्, जेजीव्यम्
ईषज्जीवः-दुर्जीव
-सुजीवः
-- -- जीव्यमानः, जीव्यमानः, जिजीविष्यमाणः, जेजीव्यमानः
जीवः, जीवः, जिजीविषः, जेजीवः
जीवितुम्, जीवयितुम्, जिजीविषितुम्, जेजीवितुम्
ज्यूतिः, 13 अजीवनिः 14, 15 जीविका, जीवना, जिजीविषा, जेजीवा
16 जीवनम्, जीवनम्, जिजीविषणम्, जेजीवमम्
जीवित्वा, जीवयित्वा, जिजीविषित्वा, जेजीवित्वा
सञ्जीव्य, सञ्जीव्य, सञ्जिजीविष्य, सञ्जेजीव्य
17 यावज्जीवम् 18, जीवम् २, जीवित्वा २, जिजीविषम् २, जीवयित्वा २, जिजीविषम् २, जिजीविषित्वा २, जेजीवम्
जेजीवित्वा
19 20 इत्यातुप्रत्ययः।
जीवन्ति प्राणिनोऽनेनेति जीवातुः = जीवनौषधम्, अन्नं च।
‘जीवातुजींवनौषधम्।’ इत्यमरः।]] जीवातुः, 21 जीमूतः, 22 जैवातृकः, 23 जीवन्तः।
प्रासङ्गिक्यः
01
=>
(६०६)
02
=>
(१-भ्वादिः-५६२। अक। सेट्। पर।)
03
=>
[[४। ‘माङ्याक्रोश इति वक्तव्यम्’ (वा। ३-२-१२४) इति शता।]]
04
=>
[[आ। ‘मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति।’ शिशु{??}लवधे २। ४५।]]
05
=>
[[५। क्विपि, ‘च्छ्वोः शूडनुनासिके च’ (६-४-१९) इत्यूडादेशे, ईकारस्य यणि रूपम्। एवं क्तिन्प्रत्ययेऽपि प्रक्रिया बोध्या।]]
06
=>
[पृष्ठम्०५७४+ २६]
07
=>
[[१। ‘सुप्यजातौ--’ (३-२-७८) इति ताच्छील्ये णिनिः।]]
08
=>
[[आ। ‘भीमकान्तैर्नृपगुणैः बभूवोपजीविनाम्।’ रघुवंशे १-१६।]]
09
=>
[[२। ‘आशिषि च’ (३-१-१५०) इति वुन्। जीवतात् जीवकः। स्त्रियाम्, ‘प्रत्यय- स्थात्--’ (७-३-४४) इति प्राप्तस्येत्त्वस्य ‘आशिषि वुनश्च न’ (वा। ७-३-४५) इति निषेधः।]]
10
=>
[[B। ‘बन्धुना विगृहीतोऽहं भूयासं जीवकः कथम्।।’ भ। का। ६। ८७।]]
11
=>
[[३। ‘गमश्च’ (३-२-४७) इत्यत्र “चकारात् जीवञ्जीवक-शिवङ्कर-शुभङ्करादयः साधवः।” इति बृ। शेखरे।]]
12
=>
[[C। ‘तमुद्यतनिशातासिं प्रत्युवाच जिजीविषुः।’ भ। का। ५। ४६।]]
13
=>
[[४। ‘आक्रोशे नञ्यनिः’ (३-३-११२) इति अनिप्रत्ययः।]]
14
=>
[[ड्। ‘अभावे भवतां योऽस्मिन् जीवेत् तस्यास्त्वजीवनिः।’ भ। का। ७। ७७।]]
15
=>
[[५। स्त्रियां भावादौ ‘संज्ञायाम्’ (३-३-१०९) इति ण्वुल्।]]
16
=>
[[E। ‘सञ्चारनिष्ठ्यूतनखेन्दुचन्द्रिकं लोके जयन्तं सकलैकजीवनम्।’ धा। का। १। ७२।]]
17
=>
[[६। ‘यावति विन्दजीवोः’ (३-४-३०) इति णमुल्।]]
18
=>
[अग्निहोत्रं जुहुयात्]
19
=>
[पृष्ठम्०५७५+ २८]
20
=>
[[१। ‘जीवेरातुः’ [द। उ। १। १३२]
21
=>
[[२। जीवनं = जलम्, मूतं = बद्धं येन जीमूतः = मेघः। पृषोदरादित्वात् (६-३-१०९) जीवनशब्दस्य जीभावः।]]
22
=>
[[३। ‘जीवेरातृकन् वृद्धिश्च’ (द। उ। ३। १।) इत्यातृकन्प्रत्ययो वृद्धिश्च। जीवयतीति जैवातृकः = चन्द्रः।]]
23
=>
[[४। ‘रुहिनन्दिजीविप्राणिभ्यः षिदाशिषि’ [द। उ। ६-१८) इति झच्प्रत्ययो भवत्याशिषि। जीवतात् जीवन्तः = आयुष्मान्, ऋषिविशेषश्च। स्त्रियां षित्त्वात् ङीष्। जीवन्ती = ओषधिविशेषः।]]