| YouTube Channel

जातिस्फोट (jAtisphoTa)

 
वाचस्पत्यम्
Sanskrit
जातिस्फोट
पु०
व्याकरणमतसिद्धे स्फोटभेदे बैयाकरणभूषण-सारे हि वर्ण्णस्फोटः पदस्फोटः वाक्यस्फोटः अखण्ड-पदवाक्यस्फोटौ इति व्यक्तिस्फोटाः पञ्च वर्णपदवाक्य-भेदेन जातिस्फोटास्त्रय इत्यष्टौ स्फोटा उक्ताः तत्रजातिस्फोटत्रयं क्रमेण हरिणा दर्शितं यथा“शक्यत्व इव शक्तत्वे जातेर्लाघवमीक्ष्यताम् औ-पाधिको वा भेदोऽस्तु वर्णानां तारमन्दवत्” अयंभावः वर्णास्तावदावश्यकाः उक्तरीत्या सोऽयंगकार इति वद् योऽयं गकारः श्रुतः सोऽयं हंकारइत्यपि स्यात् स्फोटस्यैकत्वात् गकारोऽयं हकारइत्यनापत्तेश्च किञ्च स्फोटे गत्वाद्यभुपेयं वाआद्ये तदेव गकारोऽस्तु वर्णनित्यतावादिभिरतिरिक्त-गत्वानङ्गीकारात् तथा चातिरिक्तस्फोटकल्पन एवगौरवम् अन्त्ये गकारादिप्रतीतिविरोधः वायु-संयोगवृत्ति ध्वनिवृत्ति वा वैजात्यमारोप्य तथा प्रत्ययइति चेन्न प्रतीतेर्विना बाधकं भ्रमत्वासम्भवात् अस्तुवा वायुसंयोग एव गकारोऽपि तस्यातीन्द्रियत्वं दोषइति चेद्धर्मवदुपपत्तेरिति कृतं स्फोटेन तस्मात्सन्त्येववर्ण्णाः परन्तु वाचकाः गौरवात् आकृत्यधिक-रणन्यायेन जातेरेव वाच्यत्ववद्वाचकत्वस्यापि युक्तत्वाच्च ।इदं हरिपदमित्यनुगतप्रतीत्या हर्य्युपस्थितित्वावच्छेदेनहरिपदज्ञानत्वेन हेतुत्वात्तदवच्छेदकतया चं जातिविशेषस्यावश्यकल्प्यत्वात् वर्णानुपूर्व्यैब प्रतीत्यव-च्छेदकत्वयोर्निर्वाहः घटघटत्वादेरपि संयोगविशिष्ट-मृदा आकारादिभिश्चान्यथासिद्ध्यापत्तेः तस्मात्साजातिरेव वाचिका तादात्म्येनावच्छेदिका चेति ननुसरोरस इत्यादौ जात्योः सत्त्वादर्थभेदबोधो स्यादि-त्यत आह औपाधिको वेति! वा त्वर्थे उपाधिरानु-पूर्व्वी सैव जातिविशेषाभिव्यञ्जिकेति भेदः कारणीभूत-ज्ञानस्येति नातिप्रसङ्ग इति भावः उपाधिप्रयुक्त-ज्ञानवैलक्षण्ये दृष्टान्तमाह वर्णानामिति ननु जातेःप्रत्येकं वर्णेष्वपि सत्त्वात् प्रत्येकादर्थबोधः स्यादित्यतआह “अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इतिस्मृता कैश्चिद्व्यक्तय एवास्या ध्वनित्वेन प्रकल्पिताः ।”अनेकामिर्वर्णव्यक्तिभिरभिव्यङ्ग्यैव जातिः स्फोट इतिस्मृता योगार्थतया बोधिकेति यावत् एतेन स्फोटस्यनित्यत्वात्सर्वार्थबोधापत्तिरित्यपास्तम् अयं भावः यद्यपिवर्णस्फोटपक्षे कथितदोषोऽस्ति तथापि पदवाक्यपक्षयोर्न, तत्र तस्या व्यासज्यवृत्तित्वस्य धर्मिग्राहकमानसिद्धत्वा-दिति कैश्चिद्व्यक्तयोध्वनय एव ध्वनिवर्णयोर्मेदाभावादि-त्यभ्युपेयन्ते इति शेषार्थः उक्तं हि काव्यप्रकाशे“बुधैर्वैयाकरणैः प्रधानीभूतस्फोटरूपव्यङ्ग्यव्यञ्जकशब्दस्यध्वनिरिति व्यवहारः कृतः” इति ।ननु का सा जातिस्तत्राह “सत्यासत्यौ तु यौ भागौप्रतिभावं व्यवस्थितौ सत्यं यत्तत्र सा जातिरसत्याव्यक्तयोमताः ।” प्रतिभावम् प्रतिपदार्थम् सत्यांशोजातिः असत्या व्यक्तयः तत्तदुव्यक्तिविशिष्टं व्रह्मैवजातिरिति भावः उक्तञ्च कैयटेन “असत्योपाध्यव-च्छिन्नं व्रह्मतत्त्वं द्रव्यशब्दवाच्यमित्यर्थ इति” “ब्रह्म-तत्त्वमेव शब्दस्वरूपतया भातीति” कथं तर्हिब्रह्मदर्शने गोत्वादिजातेरप्यसत्त्वादनित्यत्वम्, आत्मैवैदंसर्वमिति श्रुतिवचनादिति कैयटः सङ्गच्छताम् अविद्याआविद्यिको धर्मविशेषोवेति पक्षान्तरमादायेति द्रष्टव्यम्”