जल्प (jalpa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English जल्प jalpa talk
जल्प jalpa chatter
जल्प jalpa discourse
जल्प jalpa kind of disputation
जल्प jalpa speech
जल्प jalpa gossip
Wilson
EnglishApte
Englishजल्पः [jalpḥ], [जल्प् भावे घञ्]
Talk, speech.
Discourse, conversation.
Babble, prattling, gossip
Debate, wrangling discussion.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishMacdonell
EnglishApte Hindi
Hindiजल्पः
- जल्प् + घञ्
"वक्तृता, भाषण"
जल्पः
- -
"प्रवचन, बातचीत"
जल्पः
- -
"बालकलरव, प्रलाप, गप-शप"
जल्पः
- -
"वादविवाद, वाग्युद्ध"
Shabdartha Kaustubha
Kannadaजल्प - व्यक्तायां वाचि (भ्वा० पर० सक० से०) जल्पति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಅಸ್ಪಷ್ಟವಾಗಿ ಮಾತನಾಡು /ಸ್ಪಷ್ಟವಾಗಿ ಉಚ್ಚಾರಣೆಯಿಲ್ಲದೆ ಮಾತನಾಡು
जल्प - व्यक्तायां वाचि (भ्वा० पर० सक० से०) जल्पति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಹರಟು /ವಟಗುಟ್ಟು
जल्प - व्यक्तायां वाचि (भ्वा० पर० सक० से०) जल्पति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಮಾತಾಡು /ಸಂಭಾಷಣೆ ಮಾಡು
जल्प - व्यक्तायां वाचि (भ्वा० पर० सक० से०) जल्पति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಹೇಳು
जल्प
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮಾತು /ಉಕ್ತಿ
निष्पत्तिः - > जल्प (व्यक्तायां वाचि) - भावे "घञ्" (३-३-१८)
प्रयोगाः - > "इति प्रियां वल्गुविचित्रजल्पैः स सान्त्वयित्वाच्युतमित्रसूतः"
उल्लेखाः - > भाग० १-७-१७
Edgerton Buddhist Hybrid
Englishjalpa, m., or better jalpā (= Pali jappā, desire), desire: in Mv 〔iii.284.19〕 (vs) mss. sarvāṃ prahāya bhavalobhajalpaṃ, not to be emended
same vs in Pali SN 〔i.123.8〕 chetvāna (v.l. hitvāna) sabbaṃ bhavalobhajappaṃ. It is tempting to interpret in the same way such passages as Laṅk 〔186.8, 9〕 (vss) jalpaprapañcābhiratā hi bālās … jalpo hi traidhātukaduḥkhayonis, fools delight in jalpa and idle fancies (? see prapañca) … for jalpa is the source of the misery of the universe. This seems more naturally to mean desire than (idle) talk
but acc. to Suzukiʼs Index Tib. (smra ba) supports the latter
this might however only mean that Tib. knew the regular Skt. jalpa and had lost the tradition of the old word represented by Pali jappā.
धातुपाठः (Krishnacharya)
Sanskrit जल्प्
जल्प
व्यक्तायां वाचि
भ्वादिः
सकर्मकः
सेट्
परस्मैपदी
जल्पति
Sanskrit Tibetan
Tibetanbrjod pa
१) अनुव्याहरत् २) अभिधान ३) अभिधायिन् ४) अभिधीयते ५) आभिलाप ६) अभिलाप्य ७) अभिहित ८) आख्यान ९) आचक्षते १०) आम्नात ११) आम्नायते १२) आरोचन १३) आह १४) इरित १५) उक्त १६) उच्चारण १७) उच्चारयितव्य १८) उच्यते १९) उच्यमान २०) उदाहार २१) उदीरयति २२) उद्दिष्ट २३) उद्भावक २४) उद्भावन २५) उद्भावना २६) उद्भावित २७) उपदिश्यमान २८) कथयत् २९) कथ्यते ३०) कीर्ति ३१) ख्याप्यते ३२) जल्प ३३) जल्पते ३४) निश्चारयति ३५) पठन्ति ३६) पर्याय ३७) पाठ ३८) प्रकाशित ३९) प्रभावना ४०) प्रयुक्त ४१) प्रलाप ४२) प्रव्याहार ४३) प्रशंसा ४४) भणामि ४५) भाषते ४६) भाषिन् ४७) मत ४८) मन्त्रणा ४९) युक्त ५०) लपति ५१) वक्तव्य ५२) वक्ति ५३) वक्तुम् ५४) वचन ५५) वर्ण ५६) वर्णित ५७) वाचक ५८) वाचना ५९) वाचिन् ६०) वाद ६१) व्यपदेश ६२) व्याहरमाण ६३) व्याहार ६४) सूचयसि ६५)
एकाक्षरनाममाला
Sanskritफ, निष्फल, जल्प, पुष्कर, भयरक्षण, झञ्झावात, फल, फेन
फूत्कार
फकारो निष्फले जल्पे पुष्करे भयरक्षणे ।
झंझावाते फले फेने फूत्कारे फूस्तथोदितः ॥ ३२ ॥
verse 1.1.1.32
page 0121
शब्दकल्पद्रुमः
Sanskritजल्प, वाचि । इति कविकल्पद्रुमः ॥
(भ्वां-परं-सकं-सेट् ।) अन्तःस्थतृतीयोपधः । जल्पति ।इति दुर्गादासः ॥
(यथा, महाभारते । ७ ।१४६ । १२ ।“नारिं जित्वा विकत्थन्ते नच जल्पन्ति दुर्वचः ॥
”)
जल्पः, (जल्प वाचि + घञ् ।) विजिगीषोःकथा । परमतखण्डनपूर्व्वकं स्वमतव्यवस्थापनम् ।इति जटाधरो गौतमश्च ॥
(“यथोक्तोपपन्न-श्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः ॥
”इति न्यायसूत्रम् । १ । ४२ ॥
“स वादो द्बिविधः संग्रहेण जल्पो वितण्डा च ।तत्र पक्षाश्रितयोर्वचनं जल्पः ।”“यथैकस्य पक्षः पुनर्भवोऽस्तीति नास्तीत्यपरस्यतौ च स्वपक्षं स्वस्वहेतुभिः स्थापयतस्तत्परपक्ष-मुद्भावयतः एषः जल्पः ।” इति चरके विमान-स्थानेऽष्टमेऽध्याये ॥
) कथा । (यथा, भाग-वते । १ । ७ । १७ ।“इति प्रियां वल्गुविचित्रजल्पैःस सान्त्वयित्वाच्युतमित्रसूतः ॥
”)
वाचस्पत्यम्
Sanskritजल्प वाग्विशेषे उक्तौ च सेट् । जल्पति अजल्पीत् ।जजल्प तत्र कथाभेदे “मयि जल्पति कल्पनाधिनाथे रघु-नाथे मनुतां तदन्यथैव” इति अनुमानशिरोमणिः । कथा-मात्रे “अनागमः प्रजानाञ्च प्रमादादिव जल्पतः” भा० स० २१अ० “हसते जल्पते वैरी एकपात्रे च भुञ्जते” हरिवं० २० अ०अत्र आर्षत्वात् पदव्यत्ययः, भुञ्जते इत्यत्र गणव्यत्ययश्च ।अनु + कथनोत्तरकथने पश्चात् कथने तुल्यरूपकथने च “जल्प-न्त्यामनुजल्पति” भाग० ४ । २५ । ५८ ।अभि + आमिमुख्येन कथने “अन्योन्यमभिजल्पन्तः” रामा० आर० १ अ० ।प्रति + प्रत्युत्तरकथने प्रतिरूपकथने च । “न चैवोक्ता नवा-ऽनुक्ता हीनतः परुषा गिरः । भारत! प्रतिजल्पन्ति सदातूत्तमपुरुषाः” भा० स० ७० अ० ।वि + अति + अन्योन्यकथने शब्दकर्म्मकत्वात् व्यतिहारे न तड् ।व्यतिजल्पति” सि० कौ० ।
जल्प जल्प--भावे घञ् । १ कथने । “इति प्रियां वल्गु-विचित्रजल्पैः” भाग० १ । ७ । १८ । आर्षेऽस्य क्लीव-तापि । “तूष्णींभव न ते जल्पमिदं कार्य्यं कथञ्चन”भा० आ० १२९ अ० “कैकेयीं संश्रितं जल्पं नेदानींप्रतिभाति मे” रामा० अयो० ६० अ० । उभयत्र जल्प्यमितिपाठस्तु सम्यक् । परमतनिराकरणपूर्वकस्वमतस्थापनरूपेविजिगीषोः २ कथाभेदे च । तल्लक्षणं गौतमेनोक्तं यथा“यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भोजल्पः” गौत० सू० । व्याख्यातञ्चैतत् विश्वनाथेन ।“यथोक्तेषु यदुपपन्नं तेनोपपन्न इत्यर्थः । मध्यपद०लोपी समासः । तथा च प्रमाणतर्कसाधनोपालम्भःपक्षप्रतिपक्षपरिग्रह इत्यस्य योग्यतया परामर्शः अन्यथाजल्पस्य वादविशेषत्वापत्तिः प्रमाणतर्काभ्यां तद्रूपेणज्ञाताभ्यां न तु ज्ञानेऽनाहार्य्यत्वं विवक्षितम् आरो-पितप्रमाणभावेनाभासेऽपि जल्पनिर्वाहात् । यद्यपिछलादिभिरुपालम्भ एव न तु साधनं तथापि साधनस्यपरकीयानुमानस्योपालम्भो यत्रेत्यर्थान्न दोषः । परपक्षदूषणेसति स्वपक्षसिद्धिरित्यतः साधने तदुपयोग इत्यन्ये । उभयपक्षस्थापनावत्त्वेन च विशेषणीयमतो वितण्डायान्नाति-त्याप्तिः “स प्रतिपक्षस्थापनाहीनः” इत्युत्तरसूत्रात् प्रकृतेउभयपक्षस्थापनावत्त्वादेव च पञ्चावयवनियमोऽपि लभ्यतइति वदन्ति । अत्र च छलादिभिः सर्वैरुपालम्भो न विशे-षेण व्याप्तिरपि तु तद्योग्यतयैव, योग्यतावच्छेदकन्तुवादभिन्नकथात्वमेव तत्र चोक्तवादत्वावच्छिन्नभेदस्तत्तद्वादनेदो वा विशेषणमिति छलेत्यादिना विजिगीषुकथात्वंबोध्यते विजिगीषुर्हि छलादिकं करोति तथाचोभय-पक्षस्थापनावती विजिगीषुकथा जल्प इत्यर्थः इत्यपिवदन्ति । अत्र चायं क्रमः वादिना स्वपक्षसाधनं प्रयुज्यनायंहेत्वाभासस्तल्लक्षणायोगादिति सामान्यतो न्यायसिद्धइत्यादि विशेषतो वा । प्रतिवादिना स्वस्याज्ञानादिनिरासायपरोक्तसम्भवादेव लाभे उच्यमानग्राह्याणामप्राप्तकालार्था-न्तरनिरर्थकानामलाभे उक्तग्राह्याणां प्रतिज्ञाहानिप्रति-ज्ञान्तरप्रतिज्ञाविरोधप्रतिज्ञासंन्यासहेत्वन्तराविज्ञातार्थवि-ज्ञेयमतानुज्ञान्यूनाधिकपुनरुक्तनिरनुयोज्यानुयोगापसि-द्धान्तानामलाभे पर्य्यनुयोज्योपेक्षणस्य मध्यस्थोद्भाव्यत्वादेवानुपन्यासार्हतया यथासम्भवहेत्वाभासेन परोक्तंदूषयित्वा स्वपक्ष उपन्यसनीयः । ततो वादिना तृतीय-कक्षाश्रितेन परोक्तमनूद्य स्वपक्षदूषणमुद्धृत्यानुक्तग्राह्यो-च्यमानग्राह्यहेत्वाभासातिरिक्तोक्तग्राह्याणामलाभे हेत्वा-भासेन यथासम्भवं प्रतिपक्षवादिनः स्थापना दूषणीया ।अन्यथा क्रमविपर्य्यासेऽप्राप्तकालं चानवसरे दूषणीयेन चनिरनुयोज्यानुयोगः यथा त्यक्ष्यसि चेत् प्रतिज्ञाहानि-र्विशेसयसि चेद्धेत्वन्तरमित्यादिप्रतिज्ञाहान्यादिवद्धेत्वाभा-सानामुक्तग्राह्यत्वाविशेषेऽपि अर्थदोषत्वेनाप्रधानत्वाच्चर-मसन्धानमिति” । उञ्छादि० अस्यान्तोदात्तता ।
क्षीरतरङ्गिणी
Sanskritजल्पँ जल्प
मानकरूपान्तरम् - जपँ
जप व्यक्तायां_वाचि
- जल्पति प्रतिषेधे हसादीनामुपसंख्यानात् (द्र0 1315वा0) व्यतिजल्पन्ति घञि (3118) जल्पः जल्पभिक्ष (32155) इति जल्पाकः 289
धातुवृत्तिः
Sanskritजल्पँ जल्प
मानकरूपान्तरम् - जपँ
जप (अर्थः) व्यक्तायां_वाचि
जप मानसे च ( जल्पति जजल्प जल्पितेत्यादि जल्पाकः ) "जल्पभिक्षकुट्टलुण्टवृङः षाकन् इति तच्छीलादौ षाकन् स्त्रियां जल्पाकी जल्पति पुत्रं देवदत्तः जल्पयति पुत्रं देवदत्तं यज्ञदत्तः [ "जल्पत्यादीनामुपसंख्यानम् ]इति प्रयोज्यस्याशब्दकारकत्वेपि कर्मत्वम्( जपति जजाप जेपतुः जपिता अजपीत् अजापीत् ) "अतो हलादेः'' इति वा वृद्धिः ( जिजपिषति जञ्जप्यते ) "लुपसद'' इत्यादिना भावगर्हायां यङ् "जपजभ'' इत्यादिनाभ्यासस्य नुक्यनुस्वारे परसवर्णविकल्पो जभतिवत् ( जञ्जपीतिजञ्जप्ति जापयति अजीजपत् जप्यम् ) "पोरदुपधात्'' इति यत् (कर्णेजपः) ( सूत्रम्) स्तम्बकर्णयोरमिजपोः (इति सूत्रम्) इति यथासंख्यं जपेः कर्णे सुबन्ते उपपदे च [हस्तिसूचकयोः] इति वचनात् सूचकविषयः, "तत्पुरुषे कृति बहुलम्'' इति सप्तम्या अलुक् ( जञ्जपूकः) "यजजप'' इति यङन्तात्तच्छीलादावुकप्रत्यये "अतो लोपः'' यस्य हलः'' इति अतो लोपयलोपौ ( जपः )"व्यधजपोरनुपसर्गे'' इति अप् उपसृष्टात्तु घञि ( उपजापः ) अनयोः कर्मव्यतिहारे न तङस्ति [ प्रतिषेधे हसादीनामुपसंख्यानम् ] इत्यूक्तत्वात् 395
कृदन्तरूपमाला
Sanskrit1 {@“जल्प व्यक्तायां वाचि”@} 2 जल्पकः-ल्पिका, जल्पकः-ल्पिका, जिजल्पिषकः-षिका, जाजल्पकः-ल्पिका
जल्पिता-त्री, जल्पयिता-त्री, जिजल्पिषिता-त्री, जाजल्पिता-त्री
जल्पन्- 3 व्यतिजल्पन्-न्ती, जल्पयन्-न्ती, जिजल्पिषन्-न्ती
-- जल्पिष्यन्-व्यतिजल्पिष्यन्-न्ती-ती, जल्पयिष्यन्-न्ती-ती, जिजल्पिषिष्यन्-न्ती-ती
-- 4 -- जल्पयमानः, जल्पयिष्यमाणः, -- जाजल्प्यमानः, जाजल्पिष्यमाणः
5 प्रजल्-प्रजल्पौ-प्रजल्पः
-- -- -- जल्पितम्-तः, जल्पितः, जिजल्पिषितः जाजल्पितः-तवान्
जल्पः, 6 जल्पाकः- 7 जल्पाकी, जल्पः, जिजल्पिषुः, जाजल्पः
जल्पितव्यम्, जल्पयितव्यम्, जिजल्पिषितव्यम्, जाजल्पितव्यम्
जल्पनीयम्, जल्पनीयम्, जिजल्पिषणीयम्, जाजल्पनीयम्
जल्प्यम्, जल्प्यम्, जिजल्पिष्यम्, जाजल्प्यम्
ईषज्जल्पः-दुर्जल्पः-सुजल्पः
-- -- जल्प्यमानः, जल्प्यमानः, जिजल्पिष्यमाणः, जाजल्प्यमानः
8 जल्पः, जल्पः, जिजल्पिषः, जाजल्पः
जल्पितुम्, जल्पयितुम्, जिजल्पिषितुम्, जाजल्पितुम्
9 जल्पा, जल्पना, जिजल्पिषा, जाजल्पा
जल्पनम्, जल्पनम्, जिजल्प्रिषणम्, जाजल्पनम्
जल्पित्वा, जल्पयित्वा, जिजल्पिषित्वा, जाजल्पित्वा
प्रजल्प्य, प्रजल्प्य, प्रजिजल्पिष्य, प्रजाजल्प्य
जल्पम् २, जलिपत्वा २, जल्पम् २, जल्पयित्वा २, जिजल्पिषम् २, जिजल्पिषित्वा २, जाजल्पम् २
जाजल्पित्वा २।
01 (५९२)
02 (१-भ्वादिः-३९८। सक। सेट्। पर।)
03 [[१। ‘प्रतिषेधे हसादीनामुपसंख्यानम्’ (वा। १-३-१५) इति कर्मव्यतीहारेऽपि आत्मनेपदं न। तेन शतैव।]]
04 [पृष्ठम्०५६१+ २६]
05 [[१। ‘संयोगान्तस्य--’ (८-२-२३) इति पकारस्य लोपः।]]
06 [[२। ‘जल्पभिक्षकुट्टलुण्ठवृङः षाकन्’ (३-२-१५५) इति तच्छीलादिषु कर्तषु षाकन् प्रत्ययः। षाकनः षित्त्वात् स्त्रियां ‘षिद्गौरादिभ्यश्च’ (४-१-४१) इति ङीष्।]]
07 [[आ। ‘प्रचलदखिलक्ष्माभृन्मूलोपलव्यतिघट्टनो- ल्वणमणिशिखाजल्पाकीभिः फणाभिरहीश्वरः।।’ अनर्धराधवे ६। ८१।]]
08 [[B। ‘गोपायतां धर्ममधूपितात्मनां जल्पान् विमुच्याभवदुद्यमो जये।।’ धा। का। १। ५१।]]
09 [[३। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियां भावादावङ्।]]
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
