जलायुका (jalAyukA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiजलायुका
जल-आयुका -
जोंक
Shabdartha Kaustubha
Kannadaजलायुका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಜಿಗಣೆ
निष्पत्तिः - > "कप्" (५-४-१५४) पृषो० ।
व्युत्पत्तिः - > जलमायुरस्याः
Wordnet
Sanskrit जलौका, रक्तपा, जलौकसः, जलूका, जलाका, जलोरगी, जलायुका, जलिका, जलासुका, जलजन्तुका, वेणी, जलालोका, जलौकसी, जलौकसम्, जलौकसा, रक्तपायिनी, रक्तसन्दशिका, तीक्ष्णा, वमनी, जलजीवनी, रक्तपाता, वेधिनी, जलसर्पिणी, जलसूचिः, जलाटनी, जलाका, जलपटात्मिका, जलिका, जलालुका, जलवासिनी
जलजन्तुविशेषः, यः प्राणिनां शरीरस्थं दुष्टशोणितं निर्हरेत्।
"प्रियदर्शनः जलौका बभूव।"
शब्दकल्पद्रुमः
Sanskritजलायुका, (जलमायुरस्याः । कप् । पृषो-दरादित्वात् सलोपः ।) जलौका । इति शब्द-रत्नावली ॥
(यथा, सुश्रुते । १ । १३ ।“अथ जलायुकाः वक्ष्यन्ते । जलमासामायु-रिति जलायुकाः ॥
” अस्या अन्यद्बिवरणंजलौकःशब्दे द्रष्टव्यम् ॥
यस्मिन्नियं व्यवहृतातद्यथा, --“नस्याञ्जनाभ्यञ्जनपानधूमंतथावपीडं कवलग्रहञ्च ।संशोधनञ्चोभयतः प्रयुञ्ज्या-द्रक्तं हरेच्चापि जलायुकाभिः ॥
”इति सुश्रुते कल्पस्थानेऽष्टमेऽध्याये ॥
)
वाचस्पत्यम्
Sanskritजलायुका स्त्री जलमायुरस्याः कप् वृषो० । जलौकायां(जोंक) शब्दरत्ना० तद्भेदलक्षणाधिकं सुश्रुते उक्तं यथा ।“अथ जलायुका वक्ष्यन्ते । जलमासामायुरितिजलायुका जलमासामोक इति जलौकसः । ता द्वादशतासां सविषाः षट्, तावत्य एव निर्विषाः । तत्र सविषाःकृष्णा कर्वुरा अलगर्द्दा इन्द्रायुधा सामुद्रिका गोचन्दनाचेति । तास्वञ्जनचूर्णवर्णा पृथुशिराः कृष्णा । वर्म्मि-मत्स्यावदायता छिन्नोन्नतकुक्षिः कर्वुरा । रोमशा महा-पार्श्वा कृष्णमुख्यलगर्द्दा । इन्द्रायुधवदूर्द्धराजिभिश्चित्रिताइन्द्रायुधा । ईषदसितपीतिका विचित्रपुष्पाकृतिचित्रासामुद्रिका । गोवृषणवदधोभागे द्विधाभूताकृतिरणु-मुखी गोचन्दनेति । ताभिर्दष्टे पुरुषे दंशे श्वयथुरति-मात्रं कण्डूर्मूर्च्छा ज्वरोदाहश्छर्दिर्मदः सदनमितिलिङ्गानि भवन्ति । तत्र महागदः पानालेपननस्य-कर्मादिषूपयोज्यः । इन्द्रायुधादष्टमसाध्यमित्येताःसविषाः सचिकित्सिता व्याख्याताः । अथ निर्विषाः ।कपिला पिङ्गला शङ्कुमुखी मूषिका पुण्डरीकमुखीसावरिका चेति । तत्र मनःशिलारञ्जिताभ्यामिवपार्श्वाभ्यां पृष्ठे स्निग्धमुद्गवर्ण्णा कपिला । किञ्चिद्रक्तावृत्तकाया पिङ्गाऽऽशुगा च पिङ्गला । यकृद्बर्णा शीथ्र-पायिनी दीर्घतीक्ष्णमुखी शङ्कुमुखी । मूषिकाकृतिवर्ण्णाऽनिष्टगन्धा च मूषिका । मुद्गवर्ण्णा पुण्डरीकतुल्य-वक्त्रा पुण्डरीकमुखी । स्निग्धा पद्मपत्रवर्णाष्टादशा-ङ्गुलप्रमाणा सावरिका सा च पश्वर्थे इत्येता अविषाव्याख्याताः । तासां यवनपाण्ड्यसह्यपौतनादीनिक्षेत्राणि । तेषु महाशरीरा बलवत्यः शीघ्रपायिन्योमहाशना निर्विषाश्च विशेषेण भवन्ति । तत्र सविष-मत्स्यकीटदर्द्दुरमूत्रपुरीषकोथजाताः कलुषेष्वम्भःसु चसविषाः । पद्मोत्पलनलिनकुमुदसौगन्धिककुवलयपुण्ड-रीकशैवालकोथजाता विमलेष्वम्भःसु च निर्विषार ।भवति चात्र । क्षेत्रेषु विचरन्त्येताः सलिलेषु सुग-न्धिषु । न च सङ्कीर्ण्णचारिण्यो न च पङ्केशयाःसुखाः । तासां प्रग्रहणमार्द्रचर्मणान्यैर्वा प्रयोगैर्गृह्णी-यात् । अथैनां नवे महति थटे सरस्तडागोदकपङ्कमावाप्यनिदध्यात् भक्ष्यार्थे चासामुपहरेच्छैवलं वल्लूरमोदकांश्चकन्दांश्चूर्ण्णीकृत्य शय्यार्थं तृण मौदकानि च पत्राणि ।त्र्यहात्र्यतहाच्चान्यज्जलं भक्ष्यं च दद्यात् सप्तरात्रात्स-प्तरात्राच्च घटमन्यं संक्रामयेत् । भवति चात्र । स्थूल-मध्याः परिक्लिष्टाः पृथ्योषा मन्दचेष्टिताः । अग्राहिण्योऽल्पपायिन्यः सविषाश्च न पूजिताः । अथ जलौकोऽवसेकसाध्यव्याधितमुपवेश्य संवेश्य वा विरुक्ष्य चास्यतमवकाशं मृद्गोमयचूर्णैर्यद्यरुजः स्यात् । गृहीताश्चताः सर्षपरजनीकल्कोदकप्रदिग्धगात्रीः सलिलसरक-मध्ये मुहूर्त्तस्थिता विगतक्लमा ज्ञात्वा ताभीरोगंग्राहयेत् । सूक्ष्मशुक्लार्द्रपिचुप्लोतावच्छन्नां कृत्वा मुखमपा-वृणुयाद्गृह्णत्यै क्षीरविन्दुं वा दद्याच्छस्त्रपदानि वाकुर्वीत यद्येवमपि न गृह्णीयात्तदान्यां ग्राहयेत् ।यदा च निविशतेऽश्वखुरवदाननं कृत्वोन्नम्य च स्कन्धंतदा जानीयाद्गृह्णातीति गृह्णतीं चार्द्रवस्त्रावच्छन्नांधारयेत्सेचयेच्च । दंशे तोदकण्डूप्रादुर्भावैर्जानीयाच्छुद्ध-मियमादत्तैति शुद्धमाददानामपनयेत् । अथ शोणित-गन्धेन न मुञ्चेन्मुखमस्याः सैन्धवचूर्णेनावकिरेत् । अथपतितां तण्डुलकण्डनप्रदिग्धगात्रीं तैललवणाभ्यक्त-मुखीं वामहस्ताङ्गुष्ठाङ्गुलीभ्यां गृहीतपुच्छां दक्षिणह-स्ताङ्गुष्ठाङ्गुलिभ्यां शनैरनुलोममनुमार्जयेदामुखाद्वामयेत्ता-वद्यावत्सम्यग्वान्तलिङ्गानीति । सम्यग् वान्ता सलिलसर-कन्यस्ता भोक्तुकामा सती चरेत् । या सीदति न चेष्टतेसा दुर्वान्ता तां पुनः सम्यग्वामयेत् । दुर्वान्ताया व्याधि-रसाध्य इन्द्रमदो नाम भवति । अथ सुवान्तां पूर्ववत्सन्नि-दध्यात् शोणितस्य च योगायोगानवेक्ष्य जलौकोव्रणान्म-धुनावघट्टयेच्छीताभिरद्भिश्च परिषेचयेद्बध्नीत वा व्रणंकषायमधुरस्निग्धशीतैश्च प्रदेहैः प्रदिह्यादिति । भवतिचात्र । क्षेत्राणि ग्रहणं जातीः पोषणं सावचारणम् ।जलौकसाञ्च यो वेत्ति तत्साध्यान् स जयेद्गदान्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
