| YouTube Channel

जलन्धरः (jalandharaH)

 
Wordnet
Sanskrit
Synonyms:
जालन्धरः, जलन्धरः, सिन्धुसुतः
noun
एकः असुरः यः सागरात् जातः तथा विष्णुना हतः।
"जालन्धरस्य पत्नी वृन्दा पतिव्रता आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
जलन्धरः,
पुं,
(जलं ब्रह्मनेत्रच्युताश्रुजलं धरतीति ।जल + धृ + बाहुलकात खच् मुम् ।) असुर-विशेषः तस्योत्पत्तिकारणं यथा, --इन्द्रः शिवं द्रष्टुं शिवलोकं गत्वा एकं भयानकंपुरुषं दृष्ट्वा तं पुनःपुनः पप्रच्छ ईश्वरः क्वगतः ।स उत्तरं ददौ इन्द्रः क्रुद्धस्तं वज्रेण जघान ।ततो रुद्रस्तेजसा प्रजज्वाल तत इन्द्रो भीतस्तंप्रणम्य तुष्टाव रुद्रस्तुष्ट इन्द्रदाहार्थोत्पन्नं भाल-नेत्रस्थवह्निं गृहीत्वा गङ्गासागरसङ्गमे प्राक्षि-पत् ततः बालरूपोभूत्वा रुरोद तस्य रोदन-शब्देन सप्तलोका वधिरीकृतास्तच्छ्रुत्वा ब्रह्माविस्मितस्तत्रागत्य तं बालं समुद्रक्रोडे दृष्ट्वा तंपप्रच्छ कस्यायं पुत्त्रः समुद्रस्तं प्रणम्योवाच ममपुत्त्रः अस्य जातकर्म्मादि कुरु इत्युक्त्रा ब्रह्माक्रोडे ददौ बालस्तस्व श्मश्रु दधार श्मश्रुधुन्वतो ब्रह्मणो नेत्राभ्यां जलमगमत् ब्रह्मासमुद्रमुवाच यस्मादनेन मम नेत्राभ्यां निर्गतंजलं धृतं तस्मादयं जलन्धरनामा अधुनैव सर्व्व-शास्त्रवेत्ता रुद्रं विना सर्व्वभूतावध्यश्च भवि-ष्यति इत्युक्त्रा शुक्रमाहूय तमासुरराज्ये न्यवे-शयत् कालनेमिसुतां वृन्दामुपयेमे इतिपाद्मोत्तरखण्डम्