| YouTube Channel

जलधेनु (jaladhenu)

 
Monier Williams Cologne
English
जल—धेनु
f.
a cow in the shape of water,
MBh.
xiii, 71, 41
MatsyaP.
liii, 13.
Schmidt Nachtrage zum Sanskrit Worterbuch
German
जलधेनु f. eine aus Wasser dargestellte Kuh (!), MBh. 13, 71, 41.
शब्दकल्पद्रुमः
Sanskrit
जलधेनुः,
स्त्री,
(जलकल्पिता धेनुः ।) दानार्थ-कृत्रिमधेनुः यथा, --होतोवाच ।“जलधेनुं प्रवक्ष्यामि पुण्येऽह्नि विधिपूर्व्वकम् ।गोचर्म्ममात्रं भूभागं गोमयेनोपलेपयेत्
तत्र मध्ये राजेन्द्र ! पूर्णकुम्भन्तु विन्यसेत् ।जलपूर्णसुगन्धाढ्यं कर्पूरागुरुचन्दनैः
वासितां गन्धतोयेन तां धेनुं परिकल्पयेत् ।षत्सं तथापरं कल्प्यं घृतेन परिपूरितम्
वर्द्धनीकं महाराज ! पत्रपुष्पैः समन्वितम् ।दूर्व्वाङ्कुरैरुपस्तीर्य्य स्रग्दामैश्च विभूषितम्
पञ्चरत्नानि निःक्षिप्य तस्मिन् कुम्भे नराधिप ! ।मांसीमुशीरं कुष्ठञ्च तथा शैलेयबालुकम्
आमलासर्षपाश्चैताः सर्व्वधान्यानि पार्थिव ! ।चतुर्दिक्ष्वपि पत्राणि चत्वार्य्येव प्रकल्पयेत्
एवं घृतमयं पात्रं द्बितीयं दधिपूरितम् ।तृतीयं मधुनश्चैव चतुर्थं शर्क्करावृतम्
सुवर्णं मुखचक्षूंषि शृङ्गं कृष्णागुरूणि ।प्रशस्तपत्रश्रवणां मुक्ताफलमयेक्षणाम्
ताम्रपृष्ठां कांस्यदोहां दर्भरोमसमन्विताम् ।पुच्छं सूत्रमयं कृत्वा कृष्णाभरणघण्टिकाम्
कम्बले पुष्यमालाञ्च गुडास्यां शुक्तिदन्तिकाम् ।जिह्वां शर्करया कृत्वा नवनीतेन स्तनम्
इक्षुपादान्तु राजेन्द्र ! गन्धपुष्पोपशोभिताम् ।कृष्णाजिनोपरि स्थाप्य वस्त्रैराच्छादितान्तु ताम्
गन्धपुष्पैः समभ्यर्च्च्य विप्राय विनिवेदयेत् ।एवं घेनुं तदा दत्त्वा ब्राह्मणे वेदपारगे
साधुविप्राय राजेन्द्र ! श्रोत्रियायाहिताग्नये ।तपोवृद्धे वयोवृद्धे दातव्या कुटुम्बिने
यो ददाति नरो राजन् ! यः पश्यति शृणोति ।प्रतिगृह्णाति यो विप्रः सर्व्वे मुच्यन्ति पातकात्
ब्रह्महा पितृहा गोघ्नः सुरापो गुरुतल्पगः ।विमुक्तः सर्व्वपापैस्तु विष्णुलोकं गच्छति
योऽश्वमेधेन यजते समाप्तवरदक्षिणः ।जलधेनुञ्च यो दद्यात् सममेतन्नराधिपः
जलाहारस्त्वेकदिनं तिष्ठेच्च जलधेनुदः ।अथवा हविस्त्वेकदिने यः पयोव्रतमास्थितः
ग्राहकोऽपि त्रिरात्रं वै तिष्ठेदेवं संशयः ।यत्र क्षीरवहा नद्यो मधुपायसकर्द्दमाः
यत्र चाप्सरसां गीतं तत्र यान्ति जलप्रदाः ।दाता दापकश्चैव प्रतिग्राही यो द्विजः
ते सर्व्वे पापनिर्म्मुक्ता विष्णुलोकञ्च प्राप्नुयुः
”इति वाराहे जलधेनुमाहात्म्यनामाध्यायः
वाचस्पत्यम्
Sanskrit
जलधेनु स्त्री दानार्थकल्पितायां जलादिनिर्मितायां धेन्वां साच नानाविधा तद्विधिः हेमा० दा० उक्तो यथा“जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया देवदेवोहृषीकेशः सर्वगः सर्वभावनः जलकुम्भं नरव्याघ्र!सुवर्णरजतान्वितम् रत्नगर्भमशेषैस्तु ग्राम्यैर्धान्यैःसमन्वितम् सितवस्त्रयुगच्छन्नं दूर्व्वापल्लवशोभितम् ।कुष्ठमांसीमुरीशीरबालकामलकैर्युतम् प्रियङ्गुपत्र-सहितं सितवस्त्रोपवीतिनम् सच्छत्रं सोपानत्क चदर्भविष्टरसंस्थितम् चतुर्भिः संवृतं भूप! तिलपात्रै-श्चतुर्दिशम् स्थापितं दधिपात्रेण घृतक्षौद्रवता मुखे ।उपोषितः समभ्यर्च्य वासुदेवं जलेश्वरम् पुष्पधूपोपहा-रैस्तु यथाविभवमादृतः सङ्कल्प्य जलधेनुञ्च कुम्भंतमभिपूज्य जापूजयेहत्सकन्तहत् कुम्भं जलमयं बधः ।एवं संपूज्य गोविन्दं जलधेनुं सवत्सिकाम् सितबस्त्र-धरः शान्तो वीतरागोविमत्सरः दद्यात् द्विजायराजेन्द्र! प्रीत्यर्थं जलशायिनः जलशायी जगद्योनिःप्रीयतां मम केशवः इति चोच्चार्य्य भूनाथ! विप्रायप्रतिपाद्य ताम् अपक्वान्नाशिना स्थेयमहोरात्रमतः-परम्” जलकुम्भमित्यादि, कुम्भोऽत्र कलसः सुवर्ण-रजतयोरनियतपरिमाणतया यथाशक्ति विधानं पञ्च-रत्नानि धान्यानि परिभाषायामुक्तानि अत्र यद्यपिसामान्येनोपदेशः तथापि तत्सामान्यादितरेषु तथात्व-मितिन्यायादितरधेनुवदविरुद्धधर्म्मानुष्ठानं वेदितव्यं ततश्चसुवर्णस्य शृङ्गाकृतित्वं रजतस्य खुराकृतित्वं तिल-पात्राणां ताम्रपात्रमयत्वं, दधिपात्रस्य कांस्यपात्रमयत्वं, चानुसन्धेयं तथा धान्यानि पार्श्वद्वये, कुष्ठादीनि घ्राण-देशे, पियङ्गुपत्रं श्रवणे, यज्ञोपवीतं शिरःस्थाने स्थाप-येत् वत्मोऽपि चतुर्थांशेन धेनुवत् कार्य्यः क्वचित्तु“पूजयेद्वत्सकं तद्वत् कृतं घृतमयं बुधः” इति पाठात् घृत-जलयोर्विकल्पोऽवगम्यते, दानवाक्यन्तु पूर्ववत् दक्षिणाचात्र यथाशक्ति सुवर्णमिति “अनेन विधिना दत्त्वाजलधेनुं नराधिप! सर्व्वान् कामानवाप्नोति ये दिव्याये मानुषाः शरीरारीग्यमाबाधोपशमः सार्वका-मिकः नृणां भवति दत्तायां जलधेन्वां संशयः” ।इति विष्णुधर्म्मोक्तो जलधेनुदानविधिः ।“भानुरुवाच जलधेनुं प्रवक्ष्यामि प्रीयते दत्तया यया ।देवदेशो मयूखेशः सर्वगः सर्वभावनः” जलकुम्भंसमानीयेत्यादि विष्णुधर्मतुल्यार्थं, विशेषस्तु “ततः सं-पूज्य चादित्यं जलधेनुं सवत्सिकाम् दद्याद्विप्राय देवाग्रेप्रीत्यर्थं मिहिरस्य तु आदित्यः जगद्योनिः प्रीयतांमिहिरः सदा इति चोच्चार्य्य तां गान्तु विप्राय प्रति-पादयेत् अनेन विधिना यस्तु जलधेनुं महामुने! ।सर्व्वाह्लादानवोप्नोति यांश्च ध्यायति मानवः सर्वपापविनिर्म्मुक्तः पितरं सपितामहम् प्रपितामहं यथा-पूर्वपुरुषाणां चतुष्टयम् आत्मानं ससुतं पौत्रंतदधस्ताच्चतुष्टयम् तारयेत् मुनीन्द्रेह जलधेनुप्रदो-नरः यश्च गृह्णाति विधिवत् तस्याप्येवंविधाः कुले ।चतुर्द्दश तथा चैव ददतश्चानुमोदतः दीयमानांप्रपश्यन्ति जलधेनुं ये नराः तेऽप्यशेषाघनिर्मुक्ताःप्रयान्ति परमां गतिम्” इति आदित्यपुराणोक्तोजलधेनदानविधिः तोयधेनुरप्यत्र ।“अगस्त्य उवाच तोयधेनुं शृणु वत्स! यथादेवी प्रसीदति कुम्भं तोयसुसंपूर्ण्णं रम्यवस्त्रयुगा-न्वितम् समस्तबीजसंयुक्तं दूर्वापल्लवशोभितम्” ।समस्तबीजानि, सर्वधान्यानि “दूर्वाक्षतदधिशङ्खकुष्ठा-मलकचन्दनैः माल्यच्छत्रसमायुक्तं तिलपात्रैश्चसंयुतम् दधिक्षीरघृतं पात्रं विधानेनोपकल्पयेत् ।वत्सकं कल्पयेत्तस्यास्तत्तुरीयमयं बुधः देवीमम्यर्च्च्यविधिवत् सोपवासोऽथ नक्तवान् देवीभक्ते प्रदद्याद्यः स-र्वान् कामानवाप्नुयात् जये! ऽरिसूदनि! देवि! देवानांभयनाशिनि! वेदमातर्वरे! दुर्गे! सर्वगे! सुभगे!नमः अनेन वत्स! मन्त्रेण नन्दानाम्नाभिमन्त्रयेत् ।देवी मे प्रीयतां नित्यं यथोदितफला शिवा” इतिदेवीपुराणोक्तो तीयधेनुदानविधिः