| YouTube Channel

जयमङ्गलः (jayamaGgalaH)

 
Apte Hindi
Hindi
जयमङ्गलः
पुं*
जयः-मङ्गलः -
राजकीय हाथी
जयमङ्गलः
पुं*
जयः-मङ्गलः -
ज्वरनाशक उपचार
शब्दकल्पद्रुमः
Sanskrit
जयमङ्गलः,
पुं,
(जय एव मङ्गलं यस्य जयेनमङ्गलं यस्मादिति वा ।) राजवाह्यहस्ती ।इति शब्दरत्नावली
धुवकविशेषः यथा, --“चतुर्व्विंशतिवर्णाङ्घ्रिः कथितो जयमङ्गलः ।शृङ्गारवीरयोरेव ताले चाचपुटे सः
”इति सङ्गीतदामोदरः
*ज्वरघ्न औषधविशेषः यथा, --“हिङ्गूलसम्भवं सूतं गन्धकं टङ्कणं तथा ।ताम्रं वङ्गं माक्षिकञ्च सैन्धवं मरिचं तथा
समं सर्व्वं समाहृत्य द्बिगुणं स्वर्णभस्मकम् ।तदर्द्धं कान्तलौहञ्च रूप्यभस्मापि तत् समम्
ततसमं पारदसमम् ।एतत् सर्व्वं विचूर्ण्याथ भावयेत् कनकद्रवैः ।शेफालीदलजैश्चापि दशमूलरसेन
किराततिक्तकक्वाथैस्त्रिवारं भावयेत् सुधीः ।भावयित्वा तु तत् कार्य्या गुञ्जाद्वयमिता वटी
व्यनुपानं प्रयोक्तव्यं जीरकं मधुसंयुतम् ।जीर्णज्वरं महाघोरं चिरकालसमुद्भवम्
ज्वरमष्टवियं हन्ति साध्यासाध्यमथापि वा ।पृथग्दोषांश्च विविधान् समस्तान् विषमज्वरान्
मेदोगतं मांसगतमस्थिमज्जगतं तथा ।अन्तर्गतं महाघोरं वहिस्थञ्च विशेषतः
नानादेशोद्भवञ्चैव ज्वरं शुक्रगतं तथा ।निखिलं ज्वरनामानं हन्ति श्रीशिवशासनात्
जयमङ्गलनामायं रसः श्रीशिवनिर्म्मितः ।बलपुष्टिकरश्चैव सर्व्वरोगनिवर्हणः
”इति श्रीजयमङ्गलो रसः ।इति भैषज्यरत्नावली