| YouTube Channel

जभि (jabhi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
जम्भ्
मूलधातुः:
जभि
धात्वर्थः:
नाशने
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
जम्भयति-ते
धातुप्रदीपः
Sanskrit
जभिँ जभि नाशने
- जम्भयति जम्भत इति तु जभ इत्यस्य रूपम् 177
क्षीरतरङ्गिणी
Sanskrit
जभिँ जभि नाशने
- जम्भयति, जम्भयते भ्वादौ जभ जभि जम्भने (1273) -जम्भते, जभ्यते चन्द्रो जभ इत्याह रधिजभोरचि (7161) इति नुम्-जम्भयितुम् 183
धातुवृत्तिः
Sanskrit
जभिँ जभि (अर्थः) नाशने
( जम्भयति ) इदित्त्वाज्जम्भति चन्द्रस्तु जम्भेति पठित्त्वा जम्भयतीत्युदाजहार "रधिजभोरचि'' इति नुमं मन्यते अत्र मते नाशने जम्भतीत्यस्ति अयं चानिदित्पाठो न्यासकारहरदत्तादीनामनभिमतः अन्यथा "रधिजभोरचि'' इत्यत्र जभजृभीतिवदमुमप्युपाददीरन् जम्भतइति शपि जृम्भणे 171
कृदन्तरूपमाला
Sanskrit
1 {@“जभि नाशने”@} 2 3 दैवश्लोकस्य प्रवृत्तिस्तु--‘जभ मैथुने’ इति पाठमवलम्ब्य।
‘रभिश्च भान्तेष्वथ मैथुने यभिः’ 4 इति वृत्तिग्रन्थपरामर्शें तु पाठः प्रामाणिक इति गम्यंते।]] ‘जृम्भणे जम्भते, याभे जम्भेत्, नाशेतु जम्भयेत्।।’ 5 इति देवः।
जम्भकः-म्भिका, जिजम्भयिषकः-षिका, जम्भकः-म्भिका, जिजम्भिषकः- षिका, जाजम्भकः-म्भिका
इत्यादीनि सर्वाण्यपि रूपाणि चौरादिक- चम्पयतिवत् 6 ज्ञेयानि।
इदित्करणात् णिचो वैकल्पिकत्वम्।
जिजम्भिषुः 7 णिजभावपक्षे केवलाद्धातोः सन्नन्तादुकारः प्रत्ययः।
8
प्रासङ्गिक्यः
01
=>
(५८५)
02
=>
(१०-चुरादिः-१७१७। सक। सेट्। उभ।)
03
=>
[[[अ]
04
=>
(काशिका ७-२-१०)
05
=>
(श्लो। १४५)
06
=>
(१९९)
07
=>
[[C। ‘मल्लो जिजम्भिषुरसूदितवीर्यमीशं मुष्ट्या जजास बहु पाशितवांश्च दोष्णा।।’ धा। का। ३। ३८।]]
08
=>
[पृष्ठम्०५५८+ २४]