| YouTube Channel

जपमाला (japamAlA)

 
शब्दसागरः
English
जपमाला
f.
(-ला) A rosary.
E.
जप, and माला a string of beads, &c.
Capeller Eng
English
जपमाला
f.
a rosary.
Yates
English
जप-माला (ला) 1.
f.
A rosary.
Wilson
English
जपमाला
f.
(-ला) A rosary.
E.
जप, and माला a string of beads, &c.
Monier Williams Cologne
English
जप—माला
f.
a rosary used for counting muttered prayers.
Macdonell
English
जपमाला japa-mālā,
f.
rosary
-yajña,
m.
🞄sacrifice of muttered prayer
-homa,
m.
sg. 🞄&
pl.
offering of muttered prayer: du. muttered 🞄prayer and an offering.
Apte Hindi
Hindi
जपमाला
स्त्री*
जपः-माला -
जप करने की माला
Shabdartha Kaustubha
Kannada
जपमाला
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ರುದ್ರಾಕ್ಷಿಯ ಸರ /ಜಪ ಸರ /ತುಲಸೀಮಣಿಯ ಸರ
L R Vaidya
English
japa-mAlA {% f. %} a rosary.
Wordnet
Sanskrit
Synonyms:
अक्षसूत्रम्, जपमाला
noun
शतानां बीजानां मालाविशेषः यस्याः प्रयोगं यवनाः जपाय कुर्वन्ति।
"फकीरस्य हस्ते अक्षसूत्रम् आसीत्।"
Synonyms:
जपमाला, करमाला, अक्षमाला, अक्षसूत्रम्, जपसूत्रम्, स्मरणी
noun
जपार्थे उपयुज्यमाना माला।
"राधेश्यामः सर्वत्र जपमालया सह गच्छति।"
Sanskrit Tibetan
Tibetan
bgrang 'phreng
अक्षमाल / जपमाला
bgreng phreng
जपमाला
वाचस्पत्यम्
Sanskrit
जपमाला स्त्री० जपस्य जपार्था माला जपसाधने मालायांतद्विधानादि अक्षमालाशब्दे ४३ पृ० उक्तप्रायमधिकमत्रप्रदर्श्यते ।नित्यातन्त्रे नवमपटले “ईश्वर उवाच अक्ष-मालां समाश्रित्य मातृकावर्णरूपिणीम् अथ मुक्ता-फलमयी भोगमोक्षप्रदायिनी राजवश्यकरी सर्व-सिद्धिदा नात्र संशयः यथा मुक्ताफलमयी तथा स्फटिकनिर्मिता रुद्राक्षमाला गिरिजे! मोक्षदा समृद्धिदा ।प्रवालघटिता माला वश्यदा कर्मसाधिनी माणिक्य-रचिता माला साम्राज्यफलदायिनी पुत्रजीवक-माला तु विद्यालक्ष्मीप्रदायिनी पद्मवीजाक्षमालातु महालक्ष्मीप्रदायिनी रक्तचन्दनवीजाक्षमाला-वश्यफलप्रदा” मुण्डमालातन्त्रे द्वितीयपटले“स्फाटिकैर्मोक्षलाभः स्यात् रुद्राक्षैर्बहुपुत्रदा जीव-पुत्रैश्च धनदा पाषाणैर्गोगमोक्षदा शुद्धस्फटिक-माला तु महासम्पत्प्रदा प्रिये! श्मशानधूस्तुरैर्मालाएका धूमावतीविधौ” तथा “मणिरत्नप्रबालैश्चहेमराजतसम्भवा माला कार्य्या कुशग्रन्थ्या सर्वभोगफलप्रदा” समायाचारतन्त्रे द्वितीयपटले “पूर्व्वा-म्नायादि सर्वेषां मालां शृणु यथाक्रमम् जप्प्वा ये-नाशु लभते फलं देवैश्च दुर्ल्लभम् अक्षमाला प्रथमतोमातृकार्णस्वरूपिणी अथ मुक्तामयी माला रतिमोक्षफलदा सर्वसिद्धिकरी माला सर्वराजवशङ्करी प्र-वालमालावश्यार्थं सर्वकार्यफलप्रदा माणिक्यरचितामाला साम्राज्यफलदायिनी पद्माक्षरचिता मालायशीलक्ष्मीप्रदा सदा सुवर्णरचिता माला सर्वकाम-फलप्रदा रक्तचन्दनमाला भोगदा मोक्षदाभवेत् रुद्राक्षरचिता माला सर्वकामफलप्रदा सर्व-मालां प्रपूज्याथ चन्दनेन विलेपिताम् समाश्रित्यजपेन्नित्यं यथोक्तफलमाप्नुयात् एता मालाश्च सुभगे!पञ्चाम्नायेषु पूजिताः” मुण्डमालातन्त्रे “देव्युवाचअक्षमाला तु कथिता यत्नतो प्रकाशिता अक्षमा-लेति किं नाम फलं वा किं वदस्व मे ईश्वर उवाचअक्षमाला तु देवेशि! काम्यभेदादनेकधा भवति शृणुतत् प्राज्ञे! विस्तरादुच्यते मया अनुलोमविलोमेनकॢप्तया वर्णमालया आदिलान्तलादिआन्तक्रमेण परमे-श्वरि! क्षकारं मेरुरूपञ्च लङ्घयेन्न कदाचन” मेरु-लङ्घनदोषस्तु तत्रैव “मेरुहीना या माला मेरु-लङ्घा या भवेत् अशुद्धप्रतिकाशा सा माला नि-ष्फला भवेत् चित्रिणी विसतन्त्वाभा ब्रह्मनाडीगतान्तरा ।तया संग्रथिता माला सर्वकामफलप्रदा अष्टोत्तरशतजप्त्वा आदिक्लीवं समाचरेत् ॠऌॡद्वयं यत्तु तद्धिक्लीवं प्रचक्षते वर्गाणामष्टभिर्वापि काम्यभेदात् क्रमेणतु अकचटतपयशा अष्टौ वर्गाः प्रकीर्त्तिताः” मालया-जपविशेषस्तु नित्यातन्त्रे “अक्षमालां प्रपूज्याथ चन्द-नेन सुलचने! समाश्रिव्य जपेद्विद्वान् लक्षमात्रमन-न्यधीः योषितः सकला वश्याः सप्तद्वीपस्य पार्बति! ।ततो द्वितीयलक्षञ्च प्रजपेद्वीरवन्दिते! पाताल-तलनागेन्द्रकन्या वश्या भवन्ति हि ततो लक्षत्रवंमद्रे! प्रजपेत् साधकोत्तमः देवाङ्गना भवन्त्येववश्यास्तस्य महेश्वरि! महापातककोटीक्ष नाश-येत् कमलेक्षणे! अभिमानेन सौभाग्यं सौख्यं सौ-न्दर्य्यमाप्नुयात् चतुर्लक्षं प्रजप्याथ महायोगीश्वरोभवेत् पञ्चलक्षजपादृवि! कुवेरपदवीं व्रजेत् षड्लक्षंतु प्रजप्याथ देवपूज्यो भवेन्नरः अणिमाद्यष्टसिद्धीनांनायको नात्र संशयः राजानोवशगास्तस्य योषितश्चविशेषतः नवलक्षं महादेवि! योजपेत् साधकोत्तमः ।रुद्रमूर्त्तिः स्वयं साक्षात् कर्त्ता हर्त्ता संशयः” समया-चारतन्त्रे “उत्तराम्नाये या माला भूयः शृणु वदामि ते ।अथ वर्णमयी माला सर्व्वोत्कृष्टा सा मता महाशङ्ख-मयी माला वाञ्छितार्थफलप्रदा उडुम्बरफलस्याथसूक्ष्मस्याथ कृता मता” योगिनीतन्त्रे पूर्वखण्डेद्वितीय पटले “ईश्वर उवाच वर्णमाला शुभा प्रोक्तासर्वमन्त्रप्रदीपनी तस्याः प्रतिनिधिर्देवि! महाशङ्ख-मयी शुभा महाशङ्खः करे यस्य तस्य सिद्धिरदूरतः ।तदभावे वीरवन्द्ये! स्फाटिकी सर्वसिद्धिदा” मणिभेदेनफलभेदमाह मुण्डमालातन्त्रे “त्रिंशतैश्वर्य्यफलदा पञ्च-विंशैस्तु मोक्षदा चतुर्द्दशमयो मोक्षदायिनी भोगवर्द्धिनी ।दशपञ्चात्मिका माला मारणोच्चाटने स्थिता स्तम्मने मोहनेवश्य रोधने अञ्जने तनोः पादुकासिद्धिसंघे शतसख्याप्रकीर्त्तिता अष्टोत्तरशतं कुर्य्यादथवा सर्वकामदम्” ।योगिनी तन्त्रे “मणिसंख्या महादेवि! मालायाः कथयामि ते पञ्चविंशतिभिर्म्मोक्षं पुष्ट्यै तु सप्तबिंशतिः ।त्रिंशद्भिर्धनसिद्धिः स्यात् पञ्चाशन्मन्त्रसिद्धये अष्टोत्तरशतैःसर्वसिद्धिरेव महेश्वरि! एतत्साधारणं प्रोक्तं विशेषंकामिनां वदे शिवौवाच दन्तमाला जपे कार्य्येगले धार्य्या नृणा शुभा दशनैर्यदि कर्त्तव्यां संख्यादन्तस्यते प्रिये! सर्वसिद्धिप्रदा माला राजदन्तेन मेरुणा ।अन्यत्रापि महेशानि! मेरुत्वेनैवमादिशेत् नित्यं जपकरे कुर्य्यान्न काम्यमवरोधनात् काम्यमपि करे कुर्य्या-न्मालाऽभावे प्रियंवदे! अत्राङ्गुल्या जपं कुर्य्यात् अङ्गुष्ठा-ङ्गुलिभिर्जपेत् अङ्गुष्ठेन विना कर्म कृतं तन्निष्फलंभवेत्” उत्पत्तितन्त्रे प्रथमपटले “नित्यं नैमित्तिकं काम्यंकरे कुर्य्याद्विचक्षणः करमाला महादेवि! सर्वदोषविव-र्जिता छिन्नभिन्नादिदोषोऽपि करे नास्ति कदाचन ।अक्षयस्तु करोदेवि! माला भवति तादृशी ग्रन्थिः साकुण्डलीशक्तिः पञ्चाशद्वर्णरूपिणी अतएव महेशानि!करमाला महाफला” योगिनीतन्त्रे “तथातथातोग्रथनं मालानां तत्र शोधनम् पूजां विधाय भक्त्या तुशुचिः पूर्वमुपोषितः विजने ग्रथयेन्मौनी स्वयंमालाञ्च साधकः कृतनित्यक्रियः शुद्धः शुद्धर्क्षेषुच मन्त्रवित् यथाकालं यथाकाममक्षाण्यानीय-यत्नतः अन्योऽन्यसमरूपाणि नातिस्थूलकृशानिच कीटादिभिरदुष्टानि जीर्णानि नवानिच गव्यैस्तु पञ्चभिस्तानि प्रक्षाल्य पृथक् पृथक् ।पृथ्वीदेवेन्द्रपुण्यस्त्रीनिर्म्मितं ग्रन्थिवर्जितम् त्रिगुणंत्रिगुणीकृत्य पट्टसूत्रमथापि वा शुक्लं रक्तं तथा कृष्णंशान्तिवश्याभिचारके सूत्रं संपातयेद्विद्वान् तत्प्र-क्षाल्य पूर्ववत् मालामेकैकमादाय सूत्रे संपातयेत्तधीः मुखे मुखन्तु संयोज्य पुच्छे पुच्छन्तु वाजयेत् ।तोपुच्छसदृशी कार्य्याथ वा सर्पाकृतिर्भवेत् तत्सजा-तीयमेकाक्षं मेरुत्वेनाग्रतोन्यसेत् एकैकमालामध्ये तुब्रह्मग्रन्थिं प्रकल्पयेत्” उत्पत्तितन्त्रे षाष्टपटले“क्रमोत्क्रमाच्छतावृत्त्या पञ्चाशद्वर्णमालया योजपः सतु विज्ञेय उत्तमः परिकीत्तितः अकारादि क्षकारान्तावर्णमाला प्रपीर्त्तिता” अधिकं जपशब्दे दृश्यम्तदग्रथनप्रकारादि तन्त्रसारे दर्शितं यथासनत्कुमारीये “कार्पाससम्भवं सूत्रं धर्म्मकामार्थंमोक्षदम् तच्च विप्रेन्द्रकन्याभिर्निर्मितञ्च सुशीभनम् ।शुक्लं रक्तं तथा कृष्णं पट्टसूत्रमथापि वा शान्ति-वश्याभिचारेषु मोक्षैश्वर्य्य जयेषु शुक्लं रक्तंतथा पीतं कृष्णं वर्णेषु क्रमात् सर्वेषामेक वर्णानांरक्तं सर्वेप्सितप्रदम् त्रिगुणं त्रिगुणीकृत्य ग्रथयेत्शिल्पशास्त्रतः एकैकं मावृकावर्ण सतारं प्रजपन्-सुधीः मणिमादाय सूत्रेण ग्रथयेन्मध्यभागतः ब्रह्मग्रन्थि विधायेत्थं मेरुञ्च ग्रन्विसंयुतम् ।ग्रथयित्वा पुरोमालां तत्संस्कारं समाचरेत् कस्वचि-चिन्मते मूलविद्यया ग्रथयेत् तथा एकवीराकल्पे“भातृका बर्णतो ग्रन्थिं विद्यया वाथ कारयेत्” सुव-र्णादिगुणैर्वापि ग्रथयेत् साधकोत्तमः ब्रह्मग्रन्थिंततो दद्यात् नागपाशमथापि वा कवचेनावबध्नीया-न्मालां ध्यानपरायणः सर्वशेषे ततोमेरुं सूत्रद्वय-समन्वितम् ग्रथयेत्तारयोगेन बध्नीयात् साधको-त्तमः एवं निष्पाद्य देवेशि! प्रतिष्ठाञ्च समाचरेत्” ।गौतमीये “मुखे मुखन्तु संयोज्य पुच्छे पुच्छन्तु योजयेत् गोपुच्छसदृशी माला यद्वा सर्पाकृतिः शुभा” ।मुखपुच्छनियमस्तु स्वच्छन्दमाहेश्वरे “रुद्राक्षस्योन्नतंप्रोक्तं मुखं पुच्छञ्च निम्नगम् कमलाक्षस्य सूक्ष्मांशैसविन्दुद्वितयं मुखम् सविन्दु कस्य स्थूलांशं दृढंश्लक्ष्णमिति स्थितम् एवं ज्ञात्वा मुखं पुच्छ रूद्रा-क्षाम्भोरुहाक्षयोः तत्सजातीयमेकाक्षं मेरुत्वनाग्रतोन्यसेत् एकैकं मणिमादाय ब्रह्मग्रन्थिं प्रकल्प-येत् एकैकमातृकावर्णान् ग्रथनादौ तु संजपेत्” ।ग्रन्थिनियमस्तु स्वच्छन्दमाहेश्वरे “त्रिवृत्तिग्रन्थिनै-केन तथार्द्धेन विधीयते” अथ वा “नवभिस्तन्तुभिश्चाथरज्वुं कृत्वोपवीतवत् सार्द्धद्वयावर्त्तनेन ग्रन्थिं कुर्य्या-द्यथा दृढम्” इत्यताभ्यामिच्छाविकल्पः तथा “द्वादष्यांवैष्णवी माला कर्त्तव्या सोपवासतः समृद्ध्यै विष्णु-मन्त्रेण दिवाभागे प्रयत्नतः शक्तीनामपि कर्त्तव्य रात्रि-न्त्यक्ता यथाविधि अष्टभ्याञ्च नवम्य ञ्च चतुर्द्दश्यान्तथैवच त्रयोदश्यान्तथा कुर्य्याच्छिवस्याथ सुरेश्वरि! शुभे लग्नेशुभे वारे शुभर्क्षे शुभे तिथौ प्रतिष्ठां कारयेन्मन्त्रीस्वयं वा गुरुणापि वा एवं निर्म्माय मालां वै शोधये-न्मुनिसत्तम! कालिकापुराणे ब्रह्मग्रन्थियुतं कुर्य्यात्प्रतिवीजं यथास्थितम् अथ वा ग्रन्थिरहितं दृदरज्वुसमन्वितम् अश्वत्थपत्रनवकैः पद्माकारन्तु कल्प-येत् तन्मध्ये स्थापयेत्मालां मातृकां मूलमुच्चरन् ।क्षालयेत् पञ्चगव्यैस्तु सद्योजातेन सज्जलैः” इत्यादि ।मालासंस्कारस्य नित्यतामाह रुद्रयामले “अपति-ष्ठितमालाभिर्मन्त्रं जपति यो नरः सर्वं तद्वि-फलं विद्यात् क्रुद्धा भवति देवता” खच्छन्दमाहे-श्वरे “मध्यमायां न्यसेत् मालां ज्येष्ठेनावर्त्तयेत सुधीः ।भुक्तिमुक्तिप्रदा सेयं किञ्चाथ मातृकाक्रमात् काम-नाभेदे अङ्गुलीनियमो यथा “तर्ज्जन्यङ्गुष्ठयोगेनशत्रूणां नाशने जपेत् अङ्गुष्ठमध्यमायोगात् मन्त्र-सिद्धिः सुनिश्चिता अङ्गुष्ठानामिकायोगाच्छत्रोरु-च्चाटनं मतम् ज्येष्ठाकनिष्ठायोगेन शत्रूणां शासनंमतम्” “वैशम्पायनसंहितायाम् अङ्गुष्ठमध्यमानाञ्चगणेयं मध्यमागतः तर्ज्जन्या स्पृशेदेनां मुक्ति-दो गणनक्रमःः जीर्णे सूत्रे पुनः सूत्रं ग्रथयित्वाशतं जपेत् प्रमादात् पतिता हस्तात् शतमष्टोत्तरंजपेत् जपेन्निषिद्धसंस्पर्शे क्षालयित्वाऽक्षमालिकाम्” ।छिन्नेऽप्यष्टोत्तरशतजपः कार्य्यः करभ्रष्टच्छिन्नयोस्तु-ल्यत्वात्” तन्त्रसारः
Capeller
German
जपमाला
f.
Rosenkranz zum Beten.