| YouTube Channel

जङ्गमविष (jaGgamaviSa)

 
वाचस्पत्यम्
Sanskrit
जङ्गमविष
न०
सुश्रुतोक्ते विषभेदे तत्स्थानादि तत्रोक्तं यथा“अथाऽतो जङ्गमविषविज्ञानीयमध्यायं व्याख्यास्यामः ।जङ्गमस्य विषस्योक्तान्यधिष्ठानानि षोडश समासेनमया यानि विस्तरस्तेषु वक्ष्यते तत्र दृष्टिनिःश्वास-दंष्ट्रानखमूत्रपुरीषशुक्रलालार्त्तवमुखसन्दंशविशर्द्धितगुदा-स्थिपित्तशूकशवानीति तत्र दृष्टिनिःश्वासविषास्तुदिव्याः सर्पाः भौमास्तु दंष्ट्राविषाः मार्जारश्ववा-नरमण्डूकपाकमत्स्यगोधाशम्बूकप्रचलाक (सौम्यकीटभेदः)गृहगोधिका कृकलासचतुष्पादकीटास्तथान्ये दंष्ट्रान-खविषाः चिपिटपिच्चटककषायवासिकसर्षपवासिकतोटकवर्च्चःकीटकौण्डिल्यकाःशकृन्मूत्रविषाः मूषिकाःशुक्रविषाः लूताश्च लालामूत्रपुरीषमुखसन्दंशनखशुक्रा-र्त्तवविषाः वृश्चिकविश्वम्भरराजीवमतस्योच्चिटिङ्गाःसमुद्रवृश्चिकाश्चालविषाः (अनःपुच्छाग्रवर्त्तिकण्ठकः)(हुल) इति चित्रशिरःसरावकुर्दिशतदारुकारिमेदक-शारिकामुखामुखसन्दंशविशर्द्धितमूत्रपुरीषविषाः मक्षि-काकणभजलायुका मुखसन्दंशविषाः विषहतास्थिसर्पक-ण्टकवरटीमत्स्यास्थिकेत्यस्थिविषाणि शकुलीमत्स्यरक्त-राजीवरकमत्स्याश्च पित्तविषाः सूक्ष्मतुण्डोच्चिटिङ्ग-वरटाशतपदीशूकवलभिकाशृङ्गीभ्रमराः शूकतुण्डविषाः ।कीटसर्पदेहा गतासवः शवविषाः शेषास्त्वनुक्ता मुखस-न्दंशविषेष्वेव गणयितव्याः राज्ञोऽरिदेशे रिपवस्तृ-णाम्बुमार्गान्नधूमश्वसनान् विषेण संदूषयन्त्यभिरति-प्रदुष्टान् विज्ञाय लिङ्गैरभिशोधयेच्च दुष्टं जलं पिच्छि-लमुग्रगन्धि फेनान्वितं राजिभिरावृतञ्च मण्डूकम-त्स्यं म्रियते विहङ्गा मत्ताश्च सानूपचरा भ्रमन्ति ।मज्जन्ति ये चात्र नराश्वनागास्तेच्छर्द्दिमोहज्वरदाहशो-फान् गच्छन्ति तेषामपहृत्य दोषान् दुष्टं जलं शोध-यितुं यतेत”