| YouTube Channel

जगलः (jagalaH)

 
शब्दकल्पद्रुमः
Sanskrit
जगलः,
पुं,
(पुनःपुनरतिशयेन वा गलतीति ।गल क्षरणे + यङ्लुगन्तात् अच् संज्ञापूर्व्वक-त्वात् “दीर्घोऽकितः ।” ८३ इति दीर्घः ।यद्वा, जन् + डः जः जातः सन् गलति निर्गच्छ-तीति गल + अच् ।) सुराकल्कम् मेयाइति भाषा
तत्पर्य्यायः मेदकः इत्य-मरः १० ४२
(यथा, शार्ङ्गधरे मध्य-खण्डे दशमेऽध्याये ।“तदधो जगलो ज्ञेयो मेदको जगलाद्घनः
”)मदनवृक्षः पिष्टमद्यम् (तद्गुणा यथा, --“शूलप्रवाहिकाटोपकफवातार्शसां हितः ।जगलो ग्राहिरूक्षोष्णः शोफघ्नो भुक्तपाचनः
”इति चरके सूत्रस्थाने सप्तविंशेऽध्याये
“ग्राह्युष्णो जगलः पक्ता रूक्षस्तृद्कफशोफहृत् ।हृद्यः प्रवाहिकाटोपदुर्नामानिलशोषहृत्
”इति सुश्रुते सूत्रस्थाने ४५ अध्याये
)धूर्त्ते त्रि इति मेदिनी ले, ९१
कवचः ।रलयोरैक्यात्
गोमये, क्ली इति रत्नमाला
(यथा, वैद्यकरत्नमालायाम् ।“गोमयं जगलं गोविट् गोहन्नं तच्च गोशकृत्
”)